SHARE

Gavya15


शब्द सिन्धु


अधिक (adhika) = additional
अधिकं (adhikaM) = more
अधिकः (adhikaH) = greater
अधिकतरः (adhikataraH) = very much
अधिकार (adhikaara) = title
अधिकारः (adhikaaraH) = right
अधिकारितन्त्रं (adhikaaritantraM) = (n) bureaucracy
अधिक्षिपति (adhikShipati) = to censure
अधिक्षेपः (adhikShepaH) = (m) accusation
अधिगच्छति (adhigachchhati) = attains
अधिगम्य (adhigamya) = having gone to
अधिदैव (adhidaiva) = the principle of subjective existence
अधिदैवं (adhidaivaM) = governing all the demigods
अधिदैवतं (adhidaivataM) = called adhidaiva
अधिनियमः (adhiniyamaH) = (m) act
अधिप (adhipa) = protector
अधिपति (adhipati) = lord
अधिभुत (adhibhuta) = the principle of objective existence
अधिभूतं (adhibhuutaM) = the material manifestation
अधिमात्र (adhimaatra) = superior
अधिमात्रातम (adhimaatraatama) = the highest, the supreme one
अधियज्ञ (adhiyaGYa) = the principle of sacrifice, incarnation
अधियज्ञः (adhiyaGYaH) = the Supersoul
अधिवास (adhivaasa) = dwelling
अधिवेशनं (adhiveshanaM) = (n) conference
अधिष्ठान (adhishhThaana) = seat, abode
अधिष्ठानं (adhishhThaanaM) = sitting place
अधिष्ठाय (adhishhThaaya) = being so situated
अधिसरि (adhisari) = competent candidate
अधीत (adhiita) = studied
अधीता (adhiitaa) = studied
अधीयानः (adhiiyaanaH) = studied
अधुना (adhunaa) = recently
अधोमुख (adhomukha) = face downwards
अधोमुखश्वानासन (adhomukhashvaanaasana) = the dog stretch posture
अध्ययन (adhyayana) = study
अध्ययनैः (adhyayanaiH) = or Vedic study
अध्यक्षेण (adhyakSheNa) = by superintendence
अध्यात्म (adhyaatma) = the principle of self
अध्यात्मं (adhyaatmaM) = transcendental


पाठ


Try to understand this one liners without looking at translation. Write them down on card. Keep them at study table. Keep visiting them daily until you realize their meanings.

  • यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
  • यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
  • यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
  • यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
  • यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
  • यया कया च विधया बह्वन्नं प्राप्नुयात् ।
  • यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
  • याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
  • यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
  • योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
  • यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
  • योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।

1 2 3


सुभाषित


हनूमते नमः । अञ्जनासूनवे । वायुपुत्राय ।
महाबलाय । रामेष्टाय । फल्गुनसखाय ।
पिङ्गाक्षाय । अमितविक्रमाय । उदधिक्रमणाय ।
सीताशोकविनाशकाय । लक्ष्मणप्राणदात्रे ।
दशग्रीवस्यदर्पघ्ने नमः ।


पठन/स्मरण/मनन


॥ श्रीहनुमद्व्रतम् ॥

तत्रादौ हनुमद्व्रतं कर्तुमारभमाण आचारानुसारेण
विशिष्टाचारपरम्पराप्राप्तां यथाशक्तिद्रव्यैः पम्पापूजां करिष्ये ।
इति सङ्कल्प्य, मार्गशीर्षमासे शुक्लत्रयोदश्यां व्रतं
करिष्यमाणः द्वादश्यामेव नियतो ब्रह्मचारी जितेन्द्रियः
सम्यग्रात्रिं यापयित्वा ब्राह्मे मुहूर्ते उत्थाय
कर्तव्यं सर्वमालोकयति ॥

शौनक उवाच
हनुमद्व्रतसङ्कल्पं कर्तुकामोऽब्रवीज्जनः ।
कस्मिन्देशे व्रतं सम्यक्कर्तव्यं वद सूतज ॥ १॥

किं च व्रतं पूर्वतरैः कुत्राचरितमद्भुतम् ।
सन्ति स्थलानि बहुधा गोष्ठवृन्दावनादयः ॥ २॥

वापीकूपतडागाद्याः कुल्याः कृत्रिमविस्तृताः ।
नद्यो नदाः सागराद्याः पर्वताः सरितो द्रुमाः ।
विचार्य बहुधा तच्च वद नो वदतां वर ॥ ३॥

सूत उवाच
साधु पृष्टं महाभागाः सम्यगेवोच्यते मया ।
बहवः सन्ति देशाश्च पुण्याः पुण्यविवर्धनाः ॥

तथापि वक्ष्ये यद्गुह्यं तच्छृण्वन्तु मुनीश्वराः ॥ ४॥

पूर्वं हनुमतः पूजा कृता पम्पासरित्तटे ।
तस्मात् पम्पासरित्तीरे हनुमद्व्रतमुत्तमम् ॥ ५॥

नानादेशेषु कर्तव्या पम्पापूजा प्रयत्नतः ।
ब्राह्मे मुहुर्ते चोत्थाय शौचादिभिरतन्द्रितः ॥ ६॥

नित्यकर्म समाप्याशु योगक्षेमं समाविशेत् ।
ततश्च पञ्चभिर्वाद्यैरुपेतो बन्धुभिवृर्तः ॥ ७॥

तत्रत्यां च नदीं काञ्चिद्गत्वा स्नात्वा च वाग्यतः ।
अघमर्षणमन्त्रैश्च शुचिः प्रयतमानसः ॥ ८॥

सन्ध्यावन्दनपूर्वं च नित्यकर्म समाप्य च ।
पितॄन् सन्तर्प्य यत्नेन ललाटे तिलकोज्ज्वलः ॥ ९॥

षोडशाप्युपचारांश्च पम्पायाः सर्वतो व्रती ॥ १०॥

पम्पा पूजा ॥

हेमकूटगिरिप्रान्तजनानां गिरिसानुगाम् ।
पम्पामावाहयाम्यस्यां नद्यां हृद्यां प्रयत्नतः ॥ आवाहनम्
तरङ्गशतकल्लोलैः रिङ्गत्तामरसोज्ज्वले ।
पम्पानदि नमस्तुभ्यं गृहाणासनमुत्तमम् ॥ आसनम्
हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् ।
पाद्यं गृहाण पम्पाख्ये महानदि नमोऽस्तु ते ॥ पाद्यम्
भागीरथि नमस्तुभ्यं सलिलेन सुशोभने ।
अनर्घ्यमर्घ्यमनघे गृह्यतामिदमुत्तमम् ॥ अर्घ्यम्
पम्पानदि नमस्तुभ्यं महापुण्ये सुशोभने ।
गोदावरीजलेनाद्य गृहाणाचमनीयकम् ॥ आचमनीयम्
दुग्धाज्येक्षुरसैः पुण्यैर्दध्नश्च मधुना तथा ।
पञ्चामृतैः स्नापयिष्ये पम्पानदि नमोऽस्तु ते । पञ्चामृतस्नानम्
शुद्धक्षीरैः शुद्धजलैर्नारिकेलाम्बुभिस्तथा ।
पुण्यैः कृष्णानदीतोयैः सिञ्चामि त्वां सरिद्वरे ॥ स्नानम्
महामूल्यं च कार्पासं दिव्यवस्त्रमनुत्तमम् ।
पम्पानदि महापुण्ये पम्पाशोभातिशोभने ॥ वस्त्रम्
श्रौतस्मार्तादिसत्कर्मफलदं पावनं शुभम् ।
यज्ञोपवीतमधुना कल्पये सरिदुत्तमे ॥ यज्ञोपवीतम्
कर्पूरगुटिकामिश्रं कस्तूर्या च विमर्दितम् ।
यत्नेन कल्पितं गन्धं लेपयेऽङ्गं सरिद्वरे ॥ गन्धम्
लक्षणोक्तान्हरिद्राक्तानक्षतांश्चोत्तमाञ्छुभान् ।
पम्पानदि गृहाणेमाञ्छुभशोभातिवृद्धये ॥ अक्षतान्
अतसीकुसुमोपेतं पङ्केरुहदलोज्ज्वलम् ।
कुङ्कुमं शङ्करजटासम्भूते सरिदर्पये ॥ कुङ्कुमम्
कज्जलं त्रिजगद्वन्द्ये महापुण्ये तरङ्गिणि ।
नेत्रयोः पादमनघं गृह्यतां सरितां वरे ॥ नेत्राञ्जनम्
शतपत्रैश्च कह्लारैः कुमुदैर्वकुलैरपि ।
मल्लिकाजातिपुन्नागैः केवलैश्चापि चम्पकैः ॥

तुलसीदामभिश्चापि तथा बिल्वदलैरपि ।
पूजयामि महापुण्ये पम्पानदि नमोऽस्तु ते ॥ पुष्पाणि

अथ अङ्गपूजा ॥

गोदावर्यै नमः पादौ पूजयामि । कृष्णायै नमः गुल्फौ पूजयामि ।
पापहारिण्यै नमः जङ्घे पूजयामि । सुभ्रुवे नमः जानुनी पूजयामि ।
उरुतरङ्गिण्यै नमः ऊरू पजयामि । तडिदुज्ज्वलजवायै नमः कटिं पूजयामि ।
अम्बुशोभिन्यै नमः नितम्बं पूजयामि । अणुमध्यायै नमः मध्यं पूजयामि ।
सुस्तनायै नमः स्तनौ पूजयामि । कम्बुकण्ठ्यै नमः कण्ठं पूजयामि ।
ललिताबाहुरङ्गायै नमः बाहू पूजयामि ।
दीर्घवेण्यै नमः वेणीं पूजयामि । सुवक्त्रायै नमः वक्त्रं पूजयामि ।
दुर्वारवारिपूरायै नमः शिरः पूजयामि । सहस्रमुखायै नमः सर्वाङ्गं
पूजयामि ॥

सदशाङ्गं शुभं दिव्यं सगुग्गुलमनुत्तमम् ।
साज्यं परिमलोद्भूतं धूपं स्वीकुरु पावने ॥ धूपम्
साज्यमग्निप्रकाशोद्यत्कोटिसूर्यसमद्युति ।
पश्य दीपं प्रसन्नाङ्गे पम्पानदि नमोऽस्तु ते ॥ दीपम्
शाल्यन्नं स्वर्णपात्रस्थं शाकापूपसमन्वितम् ।
साज्यं दधिपायसं च नैवेद्यं प्रतिगृह्यताम् ॥ नैवेद्यम्
पूगैः सुशोभनैश्चापि नागवल्लीदलैर्युतम् ।
ताम्बूलं गृह्यतां देवि पम्पानदि नमोऽस्तु ते ॥ ताम्बूलम्
व्रतपूर्तिमहाकीर्तिदिव्यस्फूर्तिप्रकीर्तिदम् ।
कर्तुकामो व्रतमिदं सौवर्णं पुष्पमर्पये ॥ सुवर्णपुष्पम्
प्रदक्षिणत्रयं देवि प्रयत्नेन प्रकल्पितम् ।
पश्याद्य पावने देवि पम्पानदि नमोऽस्तु ते ॥ प्रदक्षिणं
नमस्ते नमस्ते विशालोज्ज्वलाङ्गे
नमस्ते नमस्ते लसत्सत्तरङ्गे ।
नमस्ते नमस्ते गिरिप्रान्तरङ्गे
नमस्ते नमस्ते कलद्बर्हिरङ्गे ॥ नमस्कारं
अपराधशतं देवि मत्कृतं च दिने दिने ।
क्षम्यतां पावने देवि पम्पानदि नमोऽस्तु ते ॥ क्षमापणम्
पम्पानदि महापुण्ये तरङ्गिणि ! नमोऽस्तु ते ।
त्वत्तीरे हनुमत्पूजा कृता रामेण धीमता ॥

मनोरथफलावाप्तिस्तस्याभीष्टं न संशयः ।
सुग्रीवेण च तीरेऽस्मिन्कपिवर्येण ते कृतम् ॥

संस्कृतं च मनोवाञ्छा सहस्तस्य बभूव सा ।
अतस्त्वन्नीरपुलिने कृते हनुमतो व्रते ॥

श्रेयांसि मम सर्वाणि न विघ्नानि भवन्त्विह ।
इति सम्प्रार्थ्य पम्पाख्यां नदीं शुभतरङ्गिणीम् ॥

कलशोदकपाणिश्च गच्छेत् स्वगृहमादरात् ॥

इति पम्पापूजा ॥

देशकालौ स्मृत्वा, मयाऽऽचरितस्य व्रतस्य सम्पूर्णफलावाप्त्यर्थं
भार्यया सह हनुमत्पूजां करिष्ये । इति सङ्कल्प्य
(पीठस्य अधोभागे)-अतलाय नमः । वितलाय नमः । सुतलाय नमः ।
रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः ।
तत्र अगाधसर्वतःशब्दात्मने नमः । तत्र कमले कमठाय नमः ।
तदुपरि सहस्रमणिफणाप्रकाशमानशेषाय नमः ।
अष्टदिग्गजेभ्यो नमः ।
तदुपरि भूमण्डलाय नमः । तपोलोकाय । महर्लोकाय नमः ।
सत्यलोकाय । अष्टदिक्पालकेभ्यो नमः । तन्मध्ये मेरवे नमः ।
मेरोर्दक्षिणदिग्भागे द्रोणशैलाय नमः । तन्मध्ये सुरतरवे नमः ।
तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे
नवरत्नखचितचारुरत्नपीठाय नमः ।
(हनुमत् पीठे अलङ्कृतं कलशं निधाय)
ॐ नमो भगवते वायुनन्दनाय नमः । इति कलशस्थापनम् ।
ततः देशकालौ सङ्कीर्त्य सीतासमेतश्रीरामचन्द्रध्यानादि मानसं
कृत्वा श्रीहनुमन्तमावाहयेत् । प्राणप्रतिष्ठां च विधिवत्कुर्यात् ॥

द्वादशग्रन्थिपूजा –
अञ्जनीसूनवे नमः प्रथमग्रन्थिं पूजयामि ।
हनुमते नमः द्वितीयग्रन्थिं पूजयामि ।
वायुपुत्राय नमः तृतीयग्रन्थिं पूजयामि ।
महाबलाय नमः चतुर्थग्रन्थिं पूजयामि ।
रामेष्टाय नमः पञ्चमग्रन्थिं पूजयामि ।
फाल्गुनसखाय नमः षष्ठग्रन्थिं पूजयामि ।
पिङ्गाक्षाय नमः सप्तमग्रन्थिं पूजयामि ।
अमितविक्रमाय नमः अष्टमग्रन्थिं पूजयामि ।
कपीश्वराय नमः नवमग्रन्थिं पूजयामिः ।
सीताशोकविनाशनाय नमः दशमग्रन्थिं पूजयामि ।
लक्ष्मणप्राणदात्रे नमः एकादशग्रन्थिं पूजयामि ।
दशग्रीवदर्पघ्नाय नमः द्वादशग्रन्थिं पूजयामि ।
भविष्यद्ब्रह्मणेनमः त्रयोदशग्रन्थिं पूजयामि ।

(अङ्ग पूजा)
हनुमते नमः पादौ पूजयामि ।
सुग्रीवसखाय नमः गुल्फौ पूजयामि ।
अङ्गदमित्राय नमः जङ्घे पूजयामि ।
रामदासाय नमः ऊरू पूजयामि ।
अक्षघ्नाय नमः कटिं पूजयामि ।
लङ्कादहनाय नमः वालं पूजयामि ।
रामदासाय नमः नाभिं पूजयामि ।
सागरोल्लङ्घनाय नमः मध्यं पूजयामि ।
लङ्कामर्दनाय नमः केशावलिं पूजयामि ।
सञ्जीवनीहर्त्रे नमः स्तनौ पूजयामि ।
सौमित्रिप्राणदाय नमः वक्षः पूजयामि ।
कुण्ठितदशकण्ठाय नमः कण्ठं पूजयामि ।
रामाभिषेककारिणे नमः हस्तौ पूजयामि ।
मन्त्ररचितरामायणाय नमः वक्त्रं पूजयामि ।
प्रसन्नदवदनाय नमः वदनं पूजयामि ।
पिङ्गनेत्राय नमः नेत्रं पूजयामि ।
श्रुतिपारगाय नमः श्रुतिं पूजयामि ।
ऊर्ध्वपुण्ड्रधारिणे नमः कपोलं पूजयामि ।
मणिकण्ठमालिने नमः शिरः पूजयामि ।
सर्वाभीष्टप्रदाय नमः सर्वाङ्गं पूजयामि ।

दोरग्रहणम्
अञ्जनीगर्भसम्भूत रामकार्यार्थसम्भव ।
वरदातः कृता पूजा रक्ष मां प्रतिवत्सरम् ।
व्रतोद्यापनं – यजमानो महानद्यां माध्याह्निकस्नानं कृत्वा,
नित्यकर्म विधायाऽऽचार्य-ब्रह्मऋत्विग्भिः सहोपविश्य,
प्राणानायम्य,
अद्य शुभतिथौ धर्मपत्नीसमेतस्य मम
हनुमद्-व्रतकल्पोक्त-सम्पूर्णफलावाप्तये
धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थसिद्ध्यर्थं
श्रीमदाञ्जनेयप्रीत्यर्थं च हनुमद्व्रतोद्यापनाख्यं कर्म करिष्ये ।
अस्मिन् कर्मणि आचार्यत्वं भवन्तः कुर्वन्त्विति वेदवेत्तारं कुटुम्बिनं
वित्तहीनं शान्तमाचारवन्तं ब्राह्मणमाचार्यत्वे नियोज्य, एवं
लक्षणसहयुक्तमपरं ब्राह्मणं नियोज्य, ततः त्रयोदशकलशावाहनार्थं
त्रयोदशब्राह्मणानृत्विग्विधौ नियोज्य एवमावरणं कृत्वा, ततो
निष्कमात्रसुवर्णेन, तदर्धेन यथाशक्ति वा हनुमत्प्रतिमां कृत्वा
प्राणानायम्य, हनुमद्-व्रतोद्यापनाङ्गत्वेन पम्पापूजां कृत्वा,
पुनः प्राणानायम्य, शुभतिथौ धर्मपत्नीसमेतस्य मम
मनोवाञ्छाफलसिद्ध्यर्थं
श्रीमदाञ्जनेयप्रीत्यर्थमाञ्जनेयप्रतिमापूजां करिष्ये ।
इति सङ्कल्प्य,
तत्प्रतिमाशुद्ध्यर्थं पञ्चामृतस्नपनं कृत्वा, मूलमन्त्रेण
शुद्धोदकस्नपनं कृत्वा, पञ्चप्रस्थपरिमितश्वेततण्डुलोपरि
अलङ्कृतपूर्णकलशं संस्थाप्य तदुपरि प्रतिमामाधाय
प्राणप्रतिष्ठां कृत्वा।ततस्त्रयोदशकलशान्
प्रतिमावेष्टितांस्तण्डुलेषु निधाय, कलशपूजां कृत्वा,
तेषु कलशेषु वस्त्राण्यावेष्ट्य, तेषु नानाविधफलानि दत्वा,
कलशपूजां कृत्वा, ततः पीठार्चनं कुर्यात् ॥

पीठस्याधस्तले – अतलाय नमः । वितलाय नमः ।
सुतलाय नमः । रसातलाय नमः । तलातलाय नमः ।
महातलाय नमः । पातालाय नमः ।
तथागाधसर्वतोमुख-सुधाधिभ्यां नमः । तत्र कमठाय नमः ।
तदुपरि – सहस्रफणिफणामण्डित-मणिप्रकाशिताशेषलोकशेषाय नमः ।
अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः ।
दिक्पालेभ्यो नमः । तन्मध्ये मेरवे नमः ।
मेरोर्दक्षिणदिग्भागे रत्नसानवे नमः । तन्मध्ये सुरतरवे नमः ।
तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे
नवरत्नखचितनूतनपीठाय नमः । (एवं भावयित्वा)
स्वामिन् ! सर्वजगन्नाथ ! यावत् पूजावसानकम् ।
तावत् त्वं प्रीतिभावेन प्रतिमायां स्थिरो भव ॥

ततस्त्रयोदशग्रन्थियुक्तदोरकं प्रतिष्ठाप्य,
ध्यानम् –
वन्दे विद्युद्वलयलसितं ब्रह्मसूत्रं दधानं,
कर्णद्वन्द्वे कनकवलये कुण्डले धारयन्तम् ।
सत्कौपीनं कटिपरिहृतं कामरूपं कपीन्द्रं
नित्यं ध्यायाम्यनिलतनयं वज्रदेहं वरिष्ठम् ॥

प्रतप्त-जाम्बूनद-दिव्यमंसं देदीप्यमानाग्निविभासुराक्षम् ।
प्रफुल्ल-पङ्केरुह-शोभनास्यं ध्याये हृदिस्थं पवमानसूनुम् ॥

अथ कल्पोक्तप्रकारेण आवाहनादि -षोडशोपचारान् कृत्वा
नमःसर्वहितार्थाय जगदाराध्यकर्मणे ।
अमेयायाञ्जनेयाय पुनरर्घ्यं पुरोऽर्पये ।
इति प्रसन्नार्घ्यं समर्पयामि नमः ।
भक्त्या प्रकल्पितैरेतैरुपचारैश्च षोडशैः ।
भगवन् हनुमन्नीश ! प्रीयतां मे प्रियोक्तिभिः ॥

उपचारसमर्पणं यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

एवं रात्रौ प्रथमयामपूजां कृत्वा,
तस्यां रात्र्यां प्रतियामपूजां कुर्वन्,
गीतवादित्रादिभिर्मङ्गलध्वनिभिर्भागवतपठनादिपुराण-
श्रवणादिभिर्जागरणं कृत्वा, परेद्युः प्रभाते महानद्यां ब्राह्मणैः सह
स्नानं कृत्वा, नित्यकर्म विधाय गन्धादिभिरलङ्कृत्य, गृहमागत्य,
पूर्ववत्पूजां कृत्वा, हनुमद्व्रतोद्यापनाङ्गहोमं कुर्यात् ।
क्षीरान्नेनाज्येन पिप्पलसमिद्भिः कल्पोक्तद्रव्येण
मूलमन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा होमं कुर्यात् ।
पूर्णाहुतिं दत्वा, ब्रह्मणे दक्षिणां दत्वा, तत आचार्यं पूजयित्वा,
प्रतिमां सवस्त्रां सालङ्कारां सतण्डुलां च दत्वा, तद्दानसाद्गुण्यार्थं
दक्षिणां दत्वा, आचार्याय सवत्सां सालङ्कारां पयस्विनीं गां दद्यात् ।
तत ऋत्विग्भ्यः सवस्त्रान् कलशान् दत्वा दक्षिणां च दत्वा,
विशिष्टपङ्गुदीनान्धकृपणजनान् ब्राह्मणान् सन्तर्प्य, ऋत्विगादि-
ब्राह्मणान् शतं पञ्चाशत्, पञ्चविंशतिं त्रयोदश वा ब्राह्मणान्
मिष्टान्नभोजनेन सन्तर्प्य, भूरिदानं विभवानुसारेण कुर्यात् ।
एवं कुर्वन् यजमानः कृतार्थो भवति ।
हनुमान् सुप्रीतो वरदो भूत्वा पुत्रपौत्रादि सर्वकामान्
प्रयच्छति । इति शौनकादिकान् प्रति सूतः प्रोवाच । इति ॥

From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail

LEAVE A REPLY