संस्कृत गोवीथी : : गव्य 5

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya_4

 


शब्द सिन्धु


मरालस्य – हंस का

रसाल: – आम वृक्ष

वाक्पटुता – वाणी कुशलता

मूर्धजा – सर के बाल

 


पाठ


Bookish

Patha1 Patha2 PAtha3Meeting People

  • नमोनम: – Good Morning/Evening/afternoon
  • किं अत्र आगमनम्? – What made you come here?
  • आगच्छतु भो: गृहं गच्छाम: – Come, let us go home.

 


सुभाषित


अस्ति यद्यपि सर्वत्र । नीरं नीरज-मण्डितम् । रमते न मरालस्य । मानसं मानसं विना ।।

Even if water full of lotuses be there everywhere, mind of a swan is not joyous except in the मानस-lake.

 


पठन/मनन


रघु-कौत्स संवाद

Raghu1

तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम्|
उत्पातविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः॥ ५-१

स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः|
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः॥ ५-२

तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी|
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच॥ ५-३

अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते|
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः॥ ५-४

तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे|
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम्॥ ५-११

इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य|
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः॥ ५-१२

सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम्|
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा॥ ५-१३

शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः|
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः॥ ५-१५

तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये|
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि॥ ५-१७

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य|
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त॥ ५-१८

ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय|
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे॥ ५-१९

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै|
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात्॥ ५-२०

निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः|
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति॥ ५-२१

इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण|
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः॥ ५-२३

गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम्|
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः॥ ५-२४

स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्निगारे|
द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम्॥ ५-२५

तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा|
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात्॥ ५-२६

प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः|
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः॥ ५-२९

स भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात्|
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्॥ ५-३०

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतानभिनन्द्यसत्त्वौ|
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च॥ ५-३१

Re-read above conversation 5 times.

Read English translation here: http://sanskritdocuments.org/sites/giirvaani/giirvaani/rv/sargas/05_rv.htm

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us