SHARE

Gavya18

 


शब्द सिन्धु


अनुभवः (anubhavaH) = (m) experience
अनुमन्ता (anumantaa) = permitter
अनुमातुं (anumaatuM) = to guess
अनुमान (anumaana) = an inference
अनुमानात् (anumaanaat.h) = (ablat.)from guessing or induction
अनुयायिनः (anuyaayinaH) = followers
अनुरज्यते (anurajyate) = is becoming attached
अनुराधा (anuraadhaa) = Seventeenth nakshatra
अनुलिप्त (anulipta) = smeared
अनुलेख (anulekha) = destiny
अनुलेपनं (anulepanaM) = smeared with
अनुलोम (anuloma) = with the grain, naturally
अनुवर्तते (anuvartate) = follows in the footsteps
अनुवर्तन्ते (anuvartante) = would follow
अनुवर्तयति (anuvartayati) = adopt
अनुवादं (anuvaadaM) = translation
अनुवाद्य (anuvaadya) = having translated
अनुविधीयते (anuvidhiiyate) = becomes constantly engaged
अनुशासितारं (anushaasitaaraM) = the controller
अनुशुश्रुम (anushushruma) = I have heard by disciplic succession
अनुशोचन्ति (anushochanti) = lament
अनुशोचितुं (anushochituM) = to lament
अनुषज्जते (anushhajjate) = one necessarily engages
अनुष्टुप् (anushhTup.h) = the format’s name
अनुष्ठन (anushhThana) = (n) performance, execution
अनुसन्ततानि (anusantataani) = extended
अनुसन्धानं (anusandhaanaM) = (n) investigation
अनुसार (anusaara) = following, customary(masc)
अनुसूची (anusuuchii) = schedule
अनुस्मर (anusmara) = go on remembering
अनुस्मरन् (anusmaran.h) = remembering
अनुस्मरेत् (anusmaret.h) = always thinks of
अनुस्वारः (anusvaaraH) = the accompanying sound or letter ( the letter form `.n’ `M’?)
अनुज्ञायतां (anuGYaayataaM) = (verb) be given leave/permission
अनूचानं (anuuchaanaM) = (teacher?)
अनृत (anRita) = false
अनेक (aneka) = Many
अनेकधा (anekadhaa) = into many
अनेकवचनं (anekavachanaM) = plural
अनेकानि (anekaani) = many
अनेन (anena) = by this
अन्गं (angaM) = body
अन्त (anta) = end
अन्तं (antaM) = or end
अन्तः (antaH) = (adv) inside
अन्तःकरण (antaHkaraNa) = Mind
अन्तःपेटिका (antaHpeTikaa) = (f) drawer
अन्तःस्थानि (antaHsthaani) = within
अन्तकाले (antakaale) = at the end of life
अन्तगतं (antagataM) = completely eradicated
अन्तर (antara) = Sub-period in a Dasha
अन्तरं (antaraM) = between
अन्तरङ्ग (antara.nga) = the practices of pranayama and pratyahara
अन्तरदेशीय (antaradeshiiya) = among different countries mainly for transaction??
अन्तरात्मना (antaraatmanaa) = within himself
अन्तरात्मा (antaraatmaa) = the inner self, residing in the heart
अन्तराय (antaraaya) = (m) obstacle
अन्तरारामः (antaraaraamaH) = actively enjoying within
अन्तरिक्ष (antarikSha) = (n) space
अन्तरिक्षं (antarikShaM) = space, sky
अन्तरे (antare) = between
अन्तरेण (antareNa) = without
अन्तर्ज्योतिः (antarjyotiH) = aiming within
अन्तर्युतकम् (antaryutakam.h) = (n) vest
अन्तर्सुखः (antarsukhaH) = happy from within
अन्तवत् (antavat.h) = perishable
अन्तवन्तः (antavantaH) = perishable
अन्तिके (antike) = near
अन्ते (ante) = after
अन्ध (andha) = blind
अन्धकार (andhakaara) = darkness


पाठ


Untitled 2

Try to understand this one liners without looking at translation. Write them down on card. Keep them at study table. Keep visiting them daily until you realize their meanings.

  • सङ्कटे यद् विसृज्येत, न तत् तत्त्वं, रुचि: तु सा॥
  • स तु भवति दरिद्रो यस्य तृष्णा विशाला।
  • सतां हि वाणी गुणमेव भाषते ।
  • सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
  • सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
  • समूलो वा परिशुष्यति यदनृतं वदति ।
  • सर्वः स्वार्थं समीहते।
  • सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
  • सर्वमतिमात्रं दोषाय ।
  • सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
  • सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
  • सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
  • सर्वेषु भूतेषु दया हि धर्मः ।

सुभाषित


आरोप्यते शिला शैले यत्नेन महता यथा ।
पात्यते तु क्षणेनाधस्तथात्मा गुणदोषयो: ॥

शिला को पर्वत के उपर ले जाना कठिन कार्य है परन्तू पर्वत के उपर से नीचे ढकेलना तो बहुत ही सुलभ है ।
ऐसे ही मनुष्य को सद्गुणोसे युक्त करना कठिन है पर उसे दुर्गुणों से भरना तो सुलभही है


पठन + स्मरण + मनन


साहित्य दर्पण संस्कृत भाषा में लिखा गया साहित्य विषयक ग्रन्थ है जिसके लेखक पण्डित विश्वनाथ हैं। विश्वनाथ का समय 14वीं शताब्दी ठहराया जाता है। मम्मट के काव्यप्रकाश के समान ही साहित्यदर्पण भी साहित्यालोचना का एक प्रमुख ग्रन्थ है। काव्य के श्रव्य एवं दृश्य दोनों प्रभेदों के संबंध में इस ग्रन्थ में विचारों की विस्तृत अभिव्यक्ति हुई है।

Excerpts from साहित्य दर्पण

Read book here: https://books.google.co.in/books?id=zaIkDl4Dl9kC&printsec=frontcover#v=onepage&q&f=true

ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते–

शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।
अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ।। साद-१.१ ।।

अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह–

चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ।। साद-१.२ ।।

चतुर्वर्गफलप्राप्तिहि कोव्यतो “रामादिवत्प्रवतितव्यं न रावणादिवत्” इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।
उक्तं च (भामहेन)– “धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्” ।।

इति ।
किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।
कामप्राप्तिश्चार्थद्वारैव ।
मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।
चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।
ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् ।
कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् ? किञ्च काव्यस्योपादेयत्वमग्निपुराणे ऽप्युक्तम्– “नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा” ।।

इति ।
“त्रिवर्गसाधनं नाट्यम्” इति च ।
विष्णुपुराणे ऽपि– “काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः” ।।

इति ।
तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते ।
एतेनाभिधेयं च प्रदर्शितम् ।
तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह– “तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि” इति ।
एतच्चिन्त्यम् ।
तथाहि– यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा– “न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” ।।

इति ।
अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् ।
प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।
ननु कश्चिदेवांशो ऽत्र दुष्टो न पुनः सर्वो ऽपीति चेत्, तर्हि यत्रांशे दोषः सो ऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् ।
न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् ।
तथाहि– काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते ।
अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् ।
यदुक्तं धवनिकृता– “श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः” ।।

इति ।
किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् ।
नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि “ईषद्दोषौ शब्दार्थौ काव्यम्” इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् ।
सति संभवे “ईषद्दोषौ” इति चेत् , एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् ।
नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् ।
तद्वदत्र श्रुतिदुष्टादयो ऽपि काव्यस्य ।
उक्तं च– “कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः” ।।

content (1) content (2) content (3) content (4) content (5)

LEAVE A REPLY