शब्द सिन्धु
अद् (ad.h) = to eat
अददत् (adadat.h) = gave
अदम्भित्वं (adambhitvaM) = pridelessness
अदर्शः (adarshaH) = mirror
अदक्षिणं (adakShiNaM) = with no remunerations to the priests
अदाह्यः (adaahyaH) = unable to be burned
अदिती (aditii) = the mother of the gods
अदृष्ट (adRishhTa) = Unseen, fortune, luck
अदृष्टपूर्वं (adRishhTapuurvaM) = never seen before
अदेश (adesha) = at an unpurified place
अद्भुत (adbhuta) = the sentiment of marvel
अद्भुतं (adbhutaM) = wonderful
अद्भूतं (adbhuutaM) = wonderfull
अद्य (adya) = today
अद्रोहः (adrohaH) = freedom from envy
अद्वासन (advaasana) = the prone posture
अद्वितीयः (advitiiyaH) = the inseparable or the non-dual
अद्वेष्टा (adveshhTaa) = nonenvious
अद्वैत (advaita) = non-duality of the universal spirit
अधः (adhaH) = (indeclinable) below
अधन (adhana) = one without money
अधम (adhama) = inferior
अधमां (adhamaaM) = condemned
अधमाधम (adhamaadhama) = the worst among the inferior
अधर (adhara) = Lip
अधरः (adharaH) = (m) lips
अधरात् (adharaat.h) = from below
अधर्म (adharma) = breach of duty
अधर्मं (adharmaM) = irreligion
अधर्मः (adharmaH) = irreligion
अधर्मचारी (adharmachaarii) = adj. impious
अधर्मस्य (adharmasya) = of irreligion
पाठ
Few simple but profound sentences. Learn them by heart. Use them in your daily routine.
- अर्थमूलौ हि धर्मकामौ ।
- अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।
- अर्थार्थी जीवलोकोऽयम् ।
- अर्थो हि लोके पुरुषस्य बन्धुः ।
- अर्धो घटो घोषमुपैति नूनम् ।
- अर्धो वै एष आत्मनो यत्पत्नी ।
- अलक्ष्मीराविशत्येव शयानमलसं नरम् ।
- अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।
- अल्पविद्या भयङ्करी ।
- अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
- अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।
- अशान्तस्य मनो भारम् ।
- अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।
- अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।
- अहिंसा परमो धर्मः।
सुभाषित
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव || ५-१९८
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति |
198. vaanarendra = O best among Vanaras! yasya = whoever; dhR^itiH = ( has) courage; dR^ishhTiH = vision; matiH = intellect; daakshyam = skill; etaani = (all) these; chatvaari = four (virtues); tava yathaa = like you; saH = that (him); na siidati = will not fail; karmasu = in (any) tasks.
“O best among Vanaras! Whoever has the four qualities of courage, vision, intellect and fitness, all these four virtues like you, such a person will not fail in any task.”
पठन/स्मरण/मनन
॥ श्रीहनुमत्ताण्डवस्तोत्रम् ॥
वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् ।
रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥
भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् ।
सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम् ॥ १॥
सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न ।
इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा, स रामदूत आश्रयः ॥ २॥
सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना, भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ ।
कृतौ हि कोसलाधिपौ, कपीशराजसन्निधौ, विदहजेशलक्ष्मणौ, स मे शिवं करोत्वरम् ॥ ३॥
सुशब्दशास्त्रपारगं, विलोक्य रामचन्द्रमाः, कपीश नाथसेवकं, समस्तनीतिमार्गगम् ।
प्रशस्य लक्ष्मणं प्रति, प्रलम्बबाहुभूषितः कपीन्द्रसख्यमाकरोत्, स्वकार्यसाधकः प्रभुः ॥ ४॥
प्रचण्डवेगधारिणं, नगेन्द्रगर्वहारिणं, फणीशमातृगर्वहृद्दृशास्यवासनाशकृत् ।
विभीषणेन सख्यकृद्विदेह जातितापहृत्, सुकण्ठकार्यसाधकं, नमामि यातुधतकम् ॥ ५॥
नमामि पुष्पमौलिनं, सुवर्णवर्णधारिणं गदायुधेन भूषितं, किरीटकुण्डलान्वितम् ।
सुपुच्छगुच्छतुच्छलंकदाहकं सुनायकं विपक्षपक्षराक्षसेन्द्र-सर्ववंशनाशकम् ॥ ६॥
रघूत्तमस्य सेवकं नमामि लक्ष्मणप्रियं दिनेशवंशभूषणस्य मुद्रीकाप्रदर्शकम् ।
विदेहजातिशोकतापहारिणम् प्रहारिणम् सुसूक्ष्मरूपधारिणं नमामि दीर्घरूपिणम् ॥ ७॥
नभस्वदात्मजेन भास्वता त्वया कृता महासहा यता यया द्वयोर्हितं ह्यभूत्स्वकृत्यतः ।
सुकण्ठ आप तारकां रघूत्तमो विदेहजां निपात्य वालिनं प्रभुस्ततो दशाननं खलम् ॥ ८॥
इमं स्तवं कुजेऽह्नि यः पठेत्सुचेतसा नरः
कपीशनाथसेवको भुनक्तिसर्वसम्पदः ।
प्लवङ्गराजसत्कृपाकताक्षभाजनस्सदा
न शत्रुतो भयं भवेत्कदापि तस्य नुस्त्विह ॥ ९॥
नेत्राङ्गनन्दधरणीवत्सरेऽनङ्गवासरे ।
लोकेश्वराख्यभट्टेन हनुमत्ताण्डवं कृतम् ॥ १०॥
इति श्री हनुमत्ताण्डव स्तोत्रम्॥
<ःऱ्>
Encoded and proofread by Madhavi U mupadrasta at gmail.com