शब्द सिन्धु
अघंमनः (aghaMmanaH) = (adj) evil-minded
अघं (aghaM) = grievous sins
अघायुः (aghaayuH) = whose life is full of sins
अङ्क (a.nka) = number
अङ्ग (a.nga) = a limb, or body part
अङ्गं (a.ngaM) = limb(s)
अङ्गानि (a.ngaani) = limbs
अङ्गुल (a.ngula) = a finger
अङ्गुष्ठ (a.ngushhTha) = the big toe
अङ्गुष्ठः (a.ngushhThaH) = (m) thumb
अचरं (acharaM) = and not moving
अचरस्य (acharasya) = and nonmoving
अचल (achala) = (adj) still, stationary
अचलं (achalaM) = unmoving
अचलः (achalaH) = immovable
अचलप्रतिष्ठं (achalapratishhThaM) = steadily situated
अचला (achalaa) = unflinching
अचलेन (achalena) = without its being deviated
अचक्षुस् (achakShus.h) = one without an eye
अचापलं (achaapalaM) = determination
अचिन्त्य (achintya) = inconceivable
अचिन्त्यं (achintyaM) = beyond contemplation
अचिन्त्यः (achintyaH) = inconceivable
अचिराद् (achiraad.h) = without delay/in no time
अचिराद्भव (achiraadbhava) = in no time from the cycle of birth\death
अचिरेण (achireNa) = very soon
अचेतसः (achetasaH) = without KRishhNa consciousness
अच्छेद्यः (achchhedyaH) = unbreakable
अच्युत (achyuta) = O infallible one
अच्युतम् (achyutam.h) = the who does not slip
अज (aja) = goat
अजं (ajaM) = unborn
अजः (ajaH) = unborn
अजगरः (ajagaraH) = (m) python
अजपा (ajapaa) = involuntary repetition (as with a mantra)
अजस्रं (ajasraM) = the unborn one
अजा (ajaa) = (f) goat
अजानं (ajaanaM) = do not understand
अजानत् (ajaanat.h) = knew
अजानता (ajaanataa) = without knowing
अजानन्तः (ajaanantaH) = without knowing
अञ्चलः (aJNchalaH) = (m) aanchal in Hindi
अञ्जन (aJNjana) = the name of the mother of Hanuman
अञ्जनेयासन (aJNjaneyaasana) = the splits
अञ्जलि (aJNjali) = (m) folded hands
पाठ
आत्मीयप्रकरणम्
पुस्तक : संस्कृतवाक्यप्रबोधः
तव ज्येष्टो बन्धुर्भगिनी च कास्ति ? | तेरा बड़ा भाई और बहिन कौन है ? |
देवदत्तस्सुशीला च । | देवदत्त और सुशीला । |
भो बन्धो ! अहं पाठाय व्रजामि । | हे भाई ! मैं पढने को जाता हूं । |
गच्छ प्रिय ! पूर्णां विद्यां कृत्वागन्तव्यम् । | जा प्यारे ! पूरी विद्या करके आना । |
भवतः कन्याः अद्यश्वः किं पठन्ति ? | आपकी बेटियां आजकल क्या पढ़ती हैं ? |
वर्णोच्चारणशिक्षादिकं दर्शनशास्त्राणि चाधीत्येदानीं धर्मपाकशिल्पगणितविद्या अधीयते । | वर्णोच्चारणशिक्षादिक तथा न्याय आदि शास्त्र पढ़कर अब धर्म, पाक, शिल्प और गणितविद्या पढ़ती हैं । |
भवज्ज्येष्ठया भगिन्या किं किमधीतमिदानीञ्च तया किं क्रियते ? | आपकी बड़ी बहिन ने क्या-क्या पढ़ा है और अब वह क्या करती है ? |
वर्णज्ञानमारभ्य वेदपर्यन्ताः सर्वा विद्या विदित्वेदानीं बालिकाः पाठयति । | अक्षराभ्यास से लेके वेद तक सब पूरी विद्या पढ़के अब कन्याओं को पढ़ाया करती है । |
तया विवाहः कृतो न वा ? | उसने विवाह किया वा नहीं ? |
इदानीं तु न कृतः परन्तु वरं परीक्ष्य स्वयंवरं कर्तुमिच्छति । | अभी तो नहीं किया, परन्तु वर की परीक्षा करके स्वयंवर करने की इच्छा करती है । |
यदा कश्चित् स्वतुल्यः पुरुषो मिलिष्यति तदा विवाहं करिष्यति । | जब कोई अपने सदृश पुरुष मिलेगा तब विवाह करेगी । |
तव मित्रैरधीतं न वा ? | तेरे मित्रों ने पढ़ा है वा नहीं ? |
सर्व एव विद्वांसो वर्त्तन्ते यथाऽहं तथैव तेऽपि, समानस्वभावेषु मैत्र्यास्समभवात् । | सब ही विद्वान हैं, जैसा मैं हूं वैसे वे भी हैं, क्योंकि तुल्य स्वभाववालों में मित्रता का सम्भव है । |
तव पितृव्यः किं करोति ? | तेरा चाचा क्या करता है ? |
राज्यव्यवस्थाम् । | राज्य का कारवार । |
इमे किं तव मातुलादयः ? | ये क्या तेरे मामा आदि हैं ? |
बाढमयं मम मातुल इयं पितृष्वसेयं मातृष्वसेयं गुरुपत्न्ययं च गुरुः । | ठीक यह मेरा मामा, यह बाप की बहिन भूआ, यह मता की बहिन मौसी, यह गुरु की स्त्री और यह गुरु है । |
इदानीमेते कस्मै प्रयोजनायैकत्र मिलिताः ? | इस समय ये सब किसलिये मिलकर इक्ट्ठे हुए हैं ? |
मया सत्कारायाऽऽहूताः सन्त आगताः । | मैंने सत्कार के अर्थ बुलाये हैं सो ये सब आये हैं । |
इमे मे मम पितृश्वश्रूश्वसुरश्यालदयः सन्ति । | ये सब मेरे पिता की सास-ससुर और साले आदि हैं । |
इमे मम मित्रस्य स्त्रीभगिनीदुहितृजामातरः सन्ति । | ये मेरे मित्र की स्त्री, बहिन, लड़की और जमाई हैं । |
इमौ मम पितुः श्यालदौहित्रौ स्तः । | ये मेरे मामा और भानजे हैं । |
सुभाषित – हनुमान
तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् |
प्रदेहि सुभगे हारन् यस्य तुष्टासि भामिनि || ६-१२८-८१
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः |
पौरुषन् विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा || ६-१२८-८२
Looking at her, Rama who was acquainted with the gesture of another spoke to Seetha as follows: “Dear Seetha! Give the pearl-necklace to a person, with whom you are pleased and in whom the following viz. sharpness, firmness, renown, dexterity, competence, modesty, prudence, virility, prowess and intelligence are ever present.”
हनुमान = प्राण that has following present: तेज,धृति,यश,चतुरता,शक्ति,विनय,निति,पुरुषार्थ,पराक्रम,उत्तम बुध्धि
पठन/मनन/स्मरण – हनुमान
॥ श्रीहनुमद्ध्यानम् मार्कण्डेयपुराणतः ॥
मरकतमणिवर्णं दिव्यसौन्दर्यदेहं
नखरदशनशस्त्रैर्वज्रतुल्यैः समेतम् ।
तडिदमलकिरीटं मूर्ध्नि रोमाङ्कितं च
हरितकुसुमभासं नेत्रयुग्मं सुफुल्लम् ॥ १॥
अनिशमतुलभक्त्या रामदेवस्य योग्या-
न्निखिलगुरुचरित्राण्यास्यपद्माद्वदन्तम् ।
स्फटिकमणिनिकाशे कुण्डले धारयन्तं
गजकर इव बाहुं रामसेवार्थजातम् ॥ २॥
अशनिसमद्रढिम्नं दीर्घवक्षःस्थलं च
नवकमलसुपादं मर्दयन्तं रिपूंश्च ।
हरिदयितवरिष्ठं प्राणसूनुं बलाढ्यं
निखिलगुणसमेतं चिन्तये वानरेशम् ॥ ३॥
इति मार्कण्डेयपुराणतः श्रीहनुमद्ध्यानम् ।