Sanskrit

Sanskrit

संस्कृत गोवीथि : : गव्य ३९ (पुराण विशेष) :: धारणा क्या है?

Gavya39

यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।
तत्तदङ्गं धिया व्याप्य दारयेत्तत्त्वधारणं ।।

When a particular part of the body is affected by illness, one should fix up the mind on that particular part as though pervaded by the mind.

धारणा is an ultimate cure.

अग्निपुराणम्/अध्यायः ३७५


शब्द सिन्धु


क्षन्तिः (kShantiH) = tolerance
क्षमता (kShamataa) = ability
क्षमा (kShamaa) = forgivance
क्षमी (kShamii) = forgiving
क्षय (kShaya) = loss, weakening, scaricity
क्षयं (kShayaM) = destruction
क्षयकृत् (kShayakRit.h) = the destroyer
क्षयति (kShayati) = (1 pp) to decay
क्षयात् (kShayaat.h) = (from) consunption/destruction
क्षयाय (kShayaaya) = for destruction
क्षर (kShara) = prone to end, destructible
क्षरं (kSharaM) = to the fallible
क्षरः (kSharaH) = constantly changing
क्षात्रं (kShaatraM) = of a ksatriya
क्षान्तिः (kShaantiH) = tolerance
क्षामये (kShaamaye) = ask forgiveness
क्षार (kShaara) = salty
क्षालयति (kShaalayati) = (10 pp) to wash
क्षितिपाल (kShitipaala) = (m) protector of the earth, king
क्षिप् (kShip) = (root) to throw
क्षिपति (kShipati) = (6 pp) to throw
क्षिपामि (kShipaami) = I put
क्षिप्त (kShipta) = neglected or distracted
क्षिप्रं (kShipraM) = soon
क्षी (kShii) = to dimnish
क्षीणकल्मषाः (kShiiNakalmashhaaH) = who are devoid of all sins
क्षीणे (kShiiNe) = spent-up/weakened state of
क्षीर (kShiira) = milk
क्षुद्र (kShudra) = insignificant, small
क्षुद्रं (kShudraM) = petty
क्षुध् (kShudh) = hunger
क्षुधा (kShudhaa) = hunger
क्षुधार्त (kShudhaarta) = hungry
क्षुध्यति (kShudhyati) = (4 pp) to be hungry
क्षुभ्यति (kShubhyati) = (4 pp) to tremble
क्षुर (kShura) = (masc) knife
क्षुरक्रिया (kShurakriyaa) = (fem) shaving, cutting with a knife
क्षुरपत्रम् (kShurapatram.h) = (n) blade
क्षूद्र (kShuudra) = weak (here)
क्षेत्र (kShetra) = field
क्षेत्रं (kShetraM) = the field
क्षेत्रज्ञ (kShetraGYa) = and the knower of the body
क्षेत्रज्ञं (kShetraGYaM) = the knower of the field
क्षेत्रज्ञः (kShetraGYaH) = the knower of the field
क्षेत्रज्ञयोः (kShetraGYayoH) = and the knower of the field
क्षेत्री (kShetrii) = the soul
क्षेत्रेषु (kShetreshhu) = in bodily fields
क्षेपणास्त्रः (kShepaNaastraH) = (m) missile
क्षेपणी (kShepaNii) = (f) rocket
क्षेमं (kShemaM) = protection
क्षेमतरं (kShemataraM) = better
क्षोउति (kShouti) = to sneeze
क्षोभं (kShobhaM) = disturbance
ज्ञ (GYa) = one who knows (suffix)
ज्ञनकारक (GYanakaaraka) = Significator of knowledge which is Jupiter
ज्ञा (GYaa) = to know
ज्ञातचर (GYaatachara) = (adj) known
ज्ञातव्यं (GYaatavyaM) = knowable
ज्ञाति (GYaati) = community (people of the same caste etc.)
ज्ञातुं (GYaatuM) = to know
ज्ञाते (GYaate) = in the realised state
ज्ञातेन (GYaatena) = by knowing
ज्ञात्वा (GYaatvaa) = knowing well
ज्ञान (GYaana) = knowledge
ज्ञानं (GYaanaM) = knowledge
ज्ञानः (GYaanaH) = whose knowledge


पाठ


1 2


सुभाषित


अपि स्वर्णमयी लंका न मे रोचति लक्ष्मण |
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||

Lakshman, This Golden Lanka does not allure me. Mother and Motherland is dearer to me even than heaven.


पठन -> मनन -> स्मरण -> आत्मसात


अग्निपुराणम्/अध्यायः ३७५

धारणा

अग्निरुवाच
वारणा मनसो ध्येये संस्थितिर्ध्यानवद् द्विधा ।
मूर्त्तामूर्तहरिध्यानमनोधारणतो हरिः ।। ३७५.१ ।।

यद्वाह्यावस्थितं लक्षअयं तस्मान्न चलते मनः ।
तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः ।। ३७५.२ ।।

कालावधि परिच्छिन्नं देहे संस्थापितं मनः ।
न प्रच्यवति यल्लक्ष्याद्धारणा साऽभिधीयते ।। ३७५.३ ।।

धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।
ध्यानं द्वादशकं यावत्समाधिरभिधीयते ।। ३७५.४ ।।

धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते ।
कुलैकविंशमुत्तार्य्य स्वर्य्याति परमं पदं ।। ३७५.५ ।।

यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।
तत्तदङ्गं धिया व्याप्य दारयेत्तत्त्वधारणं ।। ३७५.६ ।।

आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका ।
साग्निः शिखा फडन्ता च विष्णोः कार्य्या द्विजोत्तम ।। ३७५.७ ।।

नाड़ीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् ।
पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं ।। ३७५.८ ।।

तिर्य्यक्‌चाधोद्‌र्ध्वभागेभ्यः प्रयान्त्योऽतीव तेजसा ।
चिन्तयेत् साध्केन्द्रस्तं यावत्सर्वं महामुने ।। ३७५.९ ।।

भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत् ।
शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः ।। ३७५.१० ।।

शिरो धीरञ्च कारञ्च कण्ठं चाधोमुखे स्मरेत् ।
ध्यायेदच्छिन्नचित्तात्मा भूयो भूतेन चात्मना ।। ३७५.११ ।।

स्फुरच्छीकरसंस्पर्शप्रभूते हिमगामिभिः ।
धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत् ।। ३७५.१२ ।।

ब्रह्मरन्ध्राच्च संक्षोभाद्यावदाधारमण्डलम् ।
सुषुम्नान्तर्गतो बूत्वा संपूर्णेन्दुकृतालयं ।। ३७५.१३ ।।

संप्लाव्य हिमसंस्पर्श तोयेनामृतमूर्त्तिना ।
क्षुत् पिपासाक्रमप्रायसन्तापपरिपीड़ितः ।। ३७५.१४ ।।

धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः ।
वारुणी धारणा प्रोक्ता ऐशानीधारणां श्रृषु ।। ३७५.१५ ।।

व्योग्नि ब्रह्ममये पद्मे प्राणापणे क्षयङ्गते ।
प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता ।। ३७५.१६ ।।

महाभावञ्चपेत् सर्व्वं ततो व्यापक ईश्वरः ।
अर्द्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं ।। ३७५.१७ ।।

असत्यं सत्यमाभाति तावत्सर्वं चराचरं ।
यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ।। ३७५.१८ ।।

दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं ।
प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं ।। ३७५.१९ ।।

मातृमोदकवत्सर्वं जपहोमार्चनादिकं ।
विष्णुमन्त्रेण वा कुर्य्यादमृतां धारणां वदे ।। ३७५.२० ।।

संपूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगं ।
शिरःस्थं चिन्तयेत् यत्नाच्छशाङ्गायुतवर्चसं ।। ३७५.२१ ।।

सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं ।
तथा हृत्‌कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् ।।

साधको विगतक्लेशो जायते दारणादिभिः ।। ३७५.२२ ।।

इत्यादिमहापुराणे आग्नेये धारणा नाम पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥

संस्कृत गोवीथि : : गव्य ३७ (पुराण विशेष)

Gavya37

अजितान्नारुहेद्‌भूमिं हिक्काश्वासादयस्तथा ।
जिते प्राणे स्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.१२ ।।

आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ।। ३७३.१३ ।।

One should not tread on untrodden path without guidance as long as pranayama is concerned. It can lead to hiccups and breathing issues.

But once the Prana is conquered, there would be little defect in body that one can observe by stool and urine.

One would gain health, quick gait, enthusiasm, clarity of void, grace in strength and color and lack of dosha.

 

 


शब्द सिन्धु


वितृष्णां (vitRishhNaaM) = desirelessness
वित्त (vitta) = money
वित्तं (vittaM) = wealth
वित्तकोषः (vittakoshhaH) = (m) bank
वित्ते (vitte) = wealth
वित्तेशः (vitteshaH) = the lord of the treasury of the demigods
विद् (vid.h) = to obtain
विदः (vidaH) = who understand
विदधामि (vidadhaami) = give
विदारयति (vidaarayati) = to split apart
विदाहिनः (vidaahinaH) = burning
विदितम् (viditam.h) = known
विदितात्मनां (viditaatmanaaM) = of those who are self-realised
विदित्वा (viditvaa) = having known/realised
विदिशां (vidishaaM) = non-direction
विदुः (viduH) = understood
विदूषकः (viduushhakaH) = (m) clown, joker
विदेश (videsha) = foreign land
विदेशी (videshii) = foreigner
विद्धि (viddhi) = know for sure
विद्मः (vidmaH) = do we know
विद्महे (vidmahe) = ?
विद्यते (vidyate) = there is
विद्यनिपुणै (vidyanipuNai) = by the ace scholar Shankara (Plural is used for reverance)
विद्यया (vidyayaa) = (fem.instr.sing.) by knowledge
विद्या (vidyaa) = knowledge
विद्यात् (vidyaat.h) = you must know
विद्यातुरानां (vidyaaturaanaaM) = (poss.pl.) of people who are indulging in knowledge
विद्यानां (vidyaanaaM) = of all education
विद्यानिधिः (vidyaanidhiH) = the stock-pile of knowledge (here rAma)
विद्यामहं (vidyaamahaM) = shall I know
विद्यार्थिनी (vidyaarthinii) = (f) student
विद्यार्थी (vidyaarthii) = (m) student
विद्यालयः (vidyaalayaH) = (m) school
विद्यावान् (vidyaavaan.h) = a knowledgeable manor scholar
विद्युत्कन्दः (vidyut.hkandaH) = (m) incandescent bulb
विद्रोह (vidroha) = revolt
विद्रोहः (vidrohaH) = (m) rebellion
विद्वत् (vidvat.h) = scholar
विद्वत्त्व (vidvattva) = scholarliness
विद्वान् (vidvaan.h) = learned
विद्विषावहै (vidvishhaavahai) = may us not quarrel or hate
विधातृ (vidhaatRi) = the creator
विधान (vidhaana) = placing
विधानं (vidhaanaM) = (n) legislation
विधानं (vidhaanaM) = Arranging, disposing; Performing, making, doing, executing; Creation, creating; Ordinance, Sacred rule or precept, sacred injunction; Mode, manner; Wealth; Pain, agony, torment, distress;
विधानोक्तः (vidhaanoktaH) = according to scriptural regulation
विधि (vidhi) = ritual
विधिः (vidhiH) = (m) law, ritual
विधिदिष्टः (vidhidishhTaH) = according to the direction of scripture
विधिहीनं (vidhihiinaM) = without scriptural direction
विधीयते (vidhiiyate) = does take place
विधूत (vidhuuta) = moving
विधेम (vidhema) = make
विधेयात्मा (vidheyaatmaa) = one who follows regulated freedom
विध्वंस (vidhva.nsa) = destruction
विन (vina) = without
विनङ्क्ष्यसि (vina.nkShyasi) = you will be lost
विनद्य (vinadya) = vibrating
विनय (vinaya) = humility
विनयी (vinayii) = man with humility
विनशयसि (vinashayasi) = you destroy
विनश्यति (vinashyati) = falls back
विनश्यत्सु (vinashyatsu) = in the destructible
विना (vinaa) = without
विनामूल्य (vinaamuulya) = free, without cost
विनाश (vinaasha) = total destruction
विनाशं (vinaashaM) = destruction
विनाशः (vinaashaH) = destruction
विनाशाय (vinaashaaya) = for the annihilation
विनिग्रहः (vinigrahaH) = control
विनिन्दति (vinindati) = to scold
विनियतं (viniyataM) = particularly disciplined
विनियमः (viniyamaH) = (m) regulation
विनियमित (viniyamita) = regulated
विनियम्य (viniyamya) = regulating
विनियोगः (viniyogaH) = distribution (of various limbs, postures)
विनिर्मुक्ताः (vinirmuktaaH) = liberated
विनिवर्तन्ते (vinivartante) = are practiced to be refrained from
विनिवृत्त (vinivRitta) = disassociated
विनिश्चितैः (vinishchitaiH) = certain
विनिहंसि (viniha.nsi) = you kill
विनोद (vinoda) = humor
विनोदः (vinodaH) = (m) humour, joke
विनोदय (vinodaya) = divert/recreate(be happy)
विन्दति (vindati) = (6 pp) to find
विन्दते (vindate) = enjoys
विन्दामि (vindaami) = I have
विपणन (vipaNana) = marketing
विपणिः (vipaNiH) = market-place, mall
विपणी (vipaNii) = market
विपणी (vipaNii) = market
विपत्ति (vipatti) = calamity
विपरिवर्तते (viparivartate) = is working
विपरीत (vipariita) = inverted, contrary to rule, wrong
विपरीतं (vipariitaM) = the opposite
विपरीतकरणी (vipariitakaraNii) = the upside-down posture
विपरीतान् (vipariitaan.h) = in the wrong direction
विपरीतानि (vipariitaani) = just the opposite
विपर्यय (viparyaya) = inversion
विपर्ययेणाऽपि (viparyayeNaa.api) = by changing also
विपर्याय (viparyaaya) = a mistaken view


पाठ


1 2


सुभाषित


ये केचिद् दुःखिता लोके सर्वे ते स्वमुखेच्छया ।
ये केचिद् सुखिता लोके सर्वे तेऽन्यसुखेच्छया ॥
Some people are unhappy becuase they long for something they do not have. Those who are lucky to get what they long for are still unhappy becuase now they long for what others have.


पठन -> मनन -> स्मरण -> आत्मसात


Today, we will begin to study Purana for 14 days.

We will start with Agni Purana.

अग्निपुराणम्/अध्यायः ३७३

This chapter talks about Asana, Pranayama and Pratyahara

 

अग्निरुवाच
आसनं कमलाद्युक्तं तद्‌बद्‌ध्वा चिन्तयेत्परं ।
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनामात्मनः ।। ३७३.१ ।।

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं ।
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।। ३७३.२ ।।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।
समकायशिरग्रीवं धारयन्नचलं स्थिरः ।। ३७३.३ ।।

सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् ।
पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः ।। ३७३.४ ।।

उरुभ्यामुपरिस्थाप्य बाहू तिर्य्यक् प्रयत्नतः ।
दक्षिणं करपृष्ठञ्च न्यसेद्वामतलोपरि ।। ३७३.५ ।।

उन्नम्य शनकैर्वक्त्त्रं मुखं विष्टभ्य चाग्रतः ।
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं ।। ३७३.६ ।।

नासिकापुटमङ्गुल्या पीड्यैव च परेण च ।
औदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ।। ३७३.७ ।।

बाह्येन वायुना देहं दृतिवत् पूरयेद्यथा ।
तथा पूर्णश्च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः ।। ३७३.८ ।.

न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। ३७३.९ ।।

कन्यकः सकृदुद्‌घातः स वै द्वादशमात्रिकः ।
मध्यमश्च द्विरुद्‌घातश्चतुर्विंशतिमात्रिकः ।। ३७३.१० ।।

उत्तमश्च त्रिरुद्‌घातः षट्‌त्रिंशत्तालमात्रिकः ।
स्वेदकम्पाभिघातानां जननश्चोत्तमोत्तमः ।। ३७३.११ ।।

अजितान्नारुहेद्‌भूमिं हिक्काश्वासादयस्तथा ।
जिते प्राणे स्वल्पदोषविण्मूत्रादि प्रजायते ।। ३७३.१२ ।।

आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।
बलवर्णप्रसादश्च सर्वदोषक्षयः फलं ।। ३७३.१३ ।।

जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः ।
इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं ।। ३७३.१४ ।।

ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च ।
इन्द्रियांश्च विनिर्जित्य सर्वमेव जितं भवेत् ।। ३७३.१५ ।।

इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ।। ३७३.१६ ।।

शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः ।
मनश्च सारथिः प्रोक्तः प्राणायामः कशः स्मृतः ।। ३७३.१७ ।।

ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः ।
शनैर्निश्चलतामेति प्राणायामैकसंहितम् ।। ३७३.१८ ।।

जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः ।
संवत्सरशतं साग्रं प्राणायामश्च तत्समः ।। ३७३.१९ ।।

इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।
आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते ।। ३७३.२० ।।

उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि ।
भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ।। ३७३.२१ ।।

इत्यादिमहापुराणे आग्नेये आसनप्राणायामप्रत्याहारा नाम त्रिसप्तत्यधिकत्रिशततमोऽध्यायः ॥

 

संस्कृत गोवीथि : : गव्य २४ (साहित्य विशेष)

Gavya24साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे ।

इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न ॥

 


शब्द सिन्धु


अयथावत् (ayathaavat.h) = imperfectly
अयनेषु (ayaneshhu) = in the strategic points
अयम (ayama) = length, extension, restraint
अयशः (ayashaH) = infamy
अयसः (ayasaH) = (m) iron
अयज्ञस्य (ayaGYasya) = for one who performs no sacrifice
अयुक्तः (ayuktaH) = one who is not in KRishhNa consciousness
अयुक्तस्य (ayuktasya) = of one who is not connected (with KRishhNa consciousness)
अयोगतः (ayogataH) = without devotional service
अयोजयिष्यत् (ayojayishhyat.h) = if one does not join or connect
अयोभाण्डम् (ayobhaaNDam.h) = (n) a wooden barrel
अरण्यम् (araNyam.h) = (n) jungle, forest
अरण्यौकसः (araNyaukasaH) = (Masc.poss.sing.) forester’s
अरतिः (aratiH) = being without attachment
अरागद्वेषतः (araagadveshhataH) = without love or hatred
अरि (ari) = enemies
अरिभाव (aribhaava) = the sixth house in a Rashi or bhaava chart
अरिषु (arishhu) = on enemies
अरिष्टनेमिः (arishhTanemiH) = the appelation to Garuda?
अरिसूदन (arisuudana) = O killer of the enemies
अरोगित (arogita) = diseaselessness
अर्क (arka) = essence, a name of Sun
अर्घ (argha) = value
अर्चति (archati) = (1 pp) to worship
अर्चितुं (archituM) = to worship
अर्जन (arjana) = obtaining
अर्जनं (arjanaM) = the earning or acquiring or acqusition
अर्जुन (arjuna) = a disciple of Krishna, hero of the Mahabharata
अर्जुनं (arjunaM) = unto Arjuna
अर्जुनः (arjunaH) = Arjuna
अर्जुनयोः (arjunayoH) = and Arjuna
अर्थ (artha) = money
अर्थं (arthaM) = wealth
अर्थः (arthaH) = is meant
अर्थन् (arthan.h) = and economic development
अर्थनैपुण (arthanaipuNa) = (n) efficient in polity
अर्थप्राप्तिर्भवति (arthapraaptirbhavati) = wealth-attainment becomes
अर्थयते (arthayate) = (10 pp) to request
अर्थवान् (arthavaan.h) = one with money
अर्थशास्त्र (arthashaastra) = ecomonics
अर्थस्य (arthasya) = (masc.poss.sing.) wealth or meaning
अर्थार्थी (arthaarthii) = one who desires material gain
अर्थियं (arthiyaM) = meant
अर्थे (arthe) = in meaning
अर्थोपार्जनाय (arthopaarjanaaya) = for earning maney
अर्ध (ardha) = half
अर्धगोल (ardhagola) = semicircle, dome
अर्धचन्द्रासन (ardhachandraasana) = the half-moon posture
अर्धनवासन (ardhanavaasana) = the half-boat posture
अर्धनारीनटेश्वर (ardhanaariinaTeshvara) = Shiva and his Shakti united as one
अर्धनारीश्वर (ardhanaariishvara) = Shiva and his Shakti united as one
अर्धनिचोलः (ardhanicholaH) = (m) frock
अर्धपद्मासन (ardhapadmaasana) = the half-lotus posture
अर्धमत्स्येन्द्रासन (ardhamatsyendraasana) = the half spinal-twist posture
अर्धशिर्षासन (ardhashirshhaasana) = the half headstand posture
अर्धसर्वाङ्गासन (ardhasarvaa.ngaasana) = the half-shoulderstand posture
अर्धसलभासन (ardhasalabhaasana) = the half-locust posture
अर्धोरुक (ardhoruka) = (n) half-pant
अर्धोरुकम् (ardhorukam.h) = (n) half-pant , shorts
अर्पण (arpaNa) = Offer


पाठ


1 2 3


सुभाषित


आदौ चित्ते तत: काये सतां सम्पद्यते जरा।
असतां तु पुन: काये नैव चित्ते कदाचन॥

Old age sets first into the mind and then into the body in the case of a good person even though the body becomes old and the mind never matures for the wicked.


पठन/स्मरण


नैषधीयचरितम्‌/षष्ठः सर्गः

दूत्याय दैत्यारिपतेः प्रवृत्तो द्विषां निषेद्धा निषाधप्रधानम् ।
स भीमभूमीपतिराजधानीं लक्षीचकाराथ रथस्य तस्य ॥ ६.१ ॥

भैम्या समं नाजगणद्वियोगं स दूतधर्मे स्थिरधीरधीशः ।
पयोधिपाने मुनिरन्तरायं दुर्वारमप्यौर्वमिवौर्वशेयः ॥ ६.२ ॥

नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवस्ते ।
तदध्ववीक्षार्थमिवानिमेषा देशस्य तस्याभरणीबभूवुः ॥ ६.३ ॥

तां कुण्डिनाख्यापदमात्रगुप्तामिन्द्रस्य भूमेरमरावतीं सः ।
मनोरथः सिद्धिमिव क्षणेन रथस्तदीयः पुरमाससाद ॥ ६.४ ॥

भैमीपदस्पर्शकृतार्थरथ्या सेयं पुरीत्युत्कलिकाकुलस्ताम् ।
नृपो निपीय क्षणमीक्षणाभ्यां भृशं निशश्वास सुरैः क्षताशः ॥ ६.५ ॥

स्विद्यत्प्रमोदाश्रुलवेन वामं रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ।
अन्यत्पुनः कम्प्रमपि स्फुरत्त्वात्तस्याः पुरः प्राप नवोपभोगम् ॥ ६.६ ॥

रथादसौ सारथिना सनाथाद्राजावतीर्याथ पुरं विवेश ।
निर्गत्य बिम्बादिव भानवीयात्सौधाकरं मण्डलमंशुसङ्घः ॥ ६.७ ॥

चित्रं तदा कुण्डिनवेशिनः षा नलस्य मूर्तिर्ववृते न दृश्या ।
बभूव तञ्चित्रतरं तथापि विश्वैकदृश्यैव यदस्य मूर्तिः ॥ ६.८ ॥

जनैर्विदग्धैर्भवनैश्च मुग्धैः पदे पदे विस्मयकल्पवल्लीम् ।
तां गाहमानास्य चिरं नलस्य दृष्टिर्ययौ राजकुलातिथित्वम् ॥ ६.९ ॥

हेलां दधौ रक्षिजनेऽस्त्रिसज्जे लीनश्चरामीति हृदा ललज्जे ।
द्रक्ष्यामि भैमीमिति संतुतोष दूतं विचिन्त्य स्वमसौ शुशोच ॥ ६.१ ॥

अथोपकार्याममरेन्द्रकार्यात्कक्षासु रक्षाधिकृतैरदृष्टः ।
भैमीं दिदृक्षुर्बहुदिक्षु चक्षुर्दिशन्नसौ तामविशद्विशङ्कः ॥ ६.११ ॥

अयं क इत्यन्यनिवारकाणां गिरा विभुर्द्वारि विभुज्य कण्ठम् ।
दृशं ददौ विस्मयनिस्तरङ्गां स लङ्घितायामपि राजसिंहः ॥ ६.१२ ॥

अन्तःपुरान्तः स विलोक्य बालां कांचित्समालब्धुमसंवृतोरुम् ।
निमीलिताक्षः परया भ्रमन्त्या संघट्टमासाद्य चमच्चकार ॥ ६.१३ ॥

अनादिसर्गस्रजि वानुभूता चित्रेषु वा भीमसुता नलेन ।
जातेव यद्वा जितशम्बरस्य सा शाम्बरीशिल्पमलक्षि दिक्षु ॥ ६.१४ ॥

अलीकभैमीसहदर्शनान्न तस्यान्यकन्याप्सरसो रसाय ।
भैमीभ्रमस्यैव ततः प्रसादाद्भैमीभ्रमस्तेन न तास्वलम्भि ॥ ६.१५ ॥

भैमीनिराशे हृदि मन्मथेन दत्तस्वहस्ताद्विरहाद्विहस्तः ।
स तामलीकामवलोक्य तत्र क्षणादपश्यन्व्यषदद्विबुद्धः ॥ ६.१६ ॥

प्रियां विकल्पोपहृतां स यावद्दिगीशसंदेशमजल्पदल्पम् ।
अदृश्यवाग्भीषितभूरिभीरुर्भवो रवस्तावदचेतयत्तम् ॥ ६.१७ ॥

पश्यन्स तस्मिन्मरुतादि तन्व्याः स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ ।
अक्षान्तपक्षान्तमृगाङ्कमास्यं दधार तिर्यन्वलितं विलक्षः ॥ ६.१८ ॥

अन्तःपुरे विस्तृतवागुरोऽपि बालावलीनां वलितैर्गुणौघैः ।
न कालसारं हरिणं तदक्षिद्वयं प्रभुर्बन्द्धुमभून्मनोभूः ॥ ६.१९ ॥

दोर्मूलमालोक्य कचं रुरुत्सोस्ततः कुचौ तावनुलेपयन्त्याः ।
नाभीमथैष श्लथवाससोऽनु मिमील दिक्षु क्रमकृष्टचक्षुः ॥ ६.२ ॥

मीलन्न शेकेऽभिमुखागताभां धर्तुं निपीड्य स्तनसान्तराभ्याम् ।
स्वाङ्गान्यपेतो विजगौ स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते ॥ ६.२१ ॥

निमीलनस्पष्टविलोकनाभ्यां कदर्थितस्ताः कलयन्कटाक्षैः ।
स रागदर्शीव भृशं ललज्जे स्वतः सतां ह्रीः परतोऽतिगुर्वी ॥ ६.२२ ॥

रोमाञ्चिताङ्गीमनु तत्कटाक्षैर्भ्रान्तेन कान्तेन रतेर्निदिष्टः ।
मोघः शरौघः कुसुमानि नाभूत्तद्धैर्यपूजां प्रति पर्यवस्यन् ॥ ६.२३ ॥

हित्वैव वर्त्मैकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ।
चतुष्पथस्याभरणं बभूव लोकावलोकाय सतां स दीपः ॥ ६.२४ ॥

उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद्द्रुतैव ।
वियोगिवैरात्कुचयोर्नखाङ्कैरर्धेन्दुलीलैर्गलहस्तितेव ॥ ६.२५ ॥

तन्वीमुखं द्रागधिगत्य चन्द्रं वियोगिनस्तस्य निमीलिताभ्याम् ।
द्वयं द्रढीयः कृतमीक्षणाभ्यां तदिन्दुता च स्वसरोजता च ॥ ६.२६ ॥

चतुष्पथे तं विनिमीलिताक्षं चतुर्दिगेताः सुखमग्रहीष्यन् ।
संघट्ट्य तस्मिन्भृशभीनिवृत्तास्ता एव तद्वत्र्म न चेददास्यन् ॥ ६.२७ ॥

संघट्टयन्त्यास्तरसात्मभूषाहीराङ्कुरप्रोतदुकूलहारी ।
दिशा नितम्बं परिधाप्य तन्व्यास्तत्पापसंतापमवाप भूपः ॥ ६.२८ ॥

हतः कयाचित्पथि कन्दुकेन संघट्ट्य भिन्नः करजैः कयापि ।
कयाचनाक्तः कुचकुङ्कुमेन संभुक्तकल्पः स बभूव ताभिः ॥ ६.२९ ॥

छायामयः प्रैक्षि कयापि हारे निजे स गच्छन्नथ नेक्ष्यमाणः ।
तच्चिन्तयान्तर्निरचायि चारु स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥ ६.३ ॥

तच्छायसौन्दर्यनिपीतधैर्याः प्रत्येकमालिङ्गदमू रतीशः ।
रतिप्रतिद्वन्द्वितमासु नूनं नामूषु निर्णीतरतिः कथंचित् ॥ ६.३१ ॥

तस्माददृश्यादपि नातिबिभ्युस्तच्छायरूपाहितमोहलोलाः ।
मन्यन्त एवादृतमन्मथाज्ञाः प्राणानपि स्वान्सुदृशस्तृणानि ॥ ६.३२ ॥

जागर्ति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन्विससर्प कम्पः ।
द्रुते द्रुतं तत्पदशब्दभीत्या स्वहस्तितश्चारुदृशां परं सः ॥ ६.३३ ॥

उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः ।
अश्मैव रत्यास्तदनर्ति पत्या छेदेऽप्यबोधं यदहर्षि रोम ॥ ६.३४ ॥

यस्मिन्नलस्पृष्टकमेत्य हृष्टा भूयोऽपि तं देशमगान्मृगाक्षी ।
निपत्य तत्रास्य धरारजःस्थे पादे प्रसीदेति शनैरवादीत् ॥ ६.३५ ॥

भ्रमन्नमुष्यामुपकारिकायामायस्य भैमीविरहात्क्रशीयान् ।
असौ मुहुः सौधपरम्पराणां व्यधत्त विश्रान्तिमधित्यकासु ॥ ६.३६ ॥

उल्लिख्य हंसेन दले नलिन्यास्तस्मै यथादर्शि तथैव भैमी ।
तेनाभिलिख्योपहृतस्वहारा कस्या न दृष्टाजनि विस्मयाय ॥ ६.३७ ॥

कौमारगन्धीनि निवारयन्ती वृत्तानि रोमावलिवेत्रचिह्ना ।
सालिख्य तेनैक्ष्यत यौवनीयद्वाःस्थामवस्थां परिचेतुकामा ॥ ६.३८ ॥

पश्याः पुरंध्रीः प्रति सान्द्रचन्द्ररजाःकृतक्रीडकुमारचक्रे ।
चित्राणि चक्रे ध्वनि चक्रवर्तिचिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥ ६.३९ ॥

तारुण्यपुण्यामवलोकयन्त्योरन्योन्यमेणेक्षणयोरभिख्याम् ।
मध्ये मुहूर्तं स बभूव गच्छन्नाकस्मिकाच्छादनविस्मयाय ॥ ६.४ ॥

पुरःस्थितस्य क्वचिदस्य भूपारत्नेषु नार्यः प्रतिबिम्बितानि ।
व्योमन्यदृश्येषु निजान्यपश्यन्विस्मित्य विस्मित्य सहस्रकृत्वः ॥ ६.४१ ॥

तस्मिन्विषज्याऋधपथात्तपातं तदङ्गरागच्छुरितं निरीक्ष्य ।
विस्मेरतामापुरविस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥ ६.४२ ॥

पुंसि स्वभर्तृव्यतिरिक्तभूते भूत्वाप्यनीक्षानियमव्रतिन्यः ।
छायासु रूपं भुवि वीक्ष्य तस्य फलं दृशोरानशिरे महिष्यः ॥ ६.४३ ॥

विलोक्य तच्छायमतर्कि ताभिः पतिं प्रति स्वं वसुधापि धत्ते ।
यथा वयं किं मदनं तथैनं त्रिनेत्रनेत्रानलकीलनीलम् ॥ ६.४४ ॥

रूपं प्रतिच्छायिकयोपनीतमालोकि ताभिर्यदि नाम कामम् ।
तथापि नालोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् ॥ ६.४५ ॥

भवन्नदृश्यः प्रतिबिम्बदेहव्यूहं वितन्वन्मणिकुट्टिमेषु ।
पुरं परस्य प्रविशन्वियोगी योगीव चित्रं स रराज राजा ॥ ६.४६ ॥

पुमानिवास्पर्शि मया व्रजन्त्या छाया मया पुंसः इव व्यलोकि ।
ब्रुवन्निवातर्कि मयापि कश्चिदिति स्म स स्त्रैणगिरः शृणोति ॥ ६.४७ ॥

अम्बां प्रणत्योपनता नताङ्गी नलेन भैमी पथि योगमाप ।
स भ्रान्तिभैमीषु न तां व्यविक्त सा तं च नादृश्यतया ददर्श ॥ ६.४८ ॥

प्रसूप्रसादाधिगता प्रसूनमाला नलस्योद्भ्रमवीक्षितस्य ।
क्षिप्तापि कण्ठाय तयोपकण्ठं स्थितं तमालम्बत सत्यमेव ॥ ६.४९ ॥

स्रग्वासनादृष्टजनप्रसादः सत्येयमित्यद्भुतमाप भूपः ।
क्षिप्तामदृश्यत्वमितां च मालामालोक्य तां विस्मयते स्म बाला ॥ ६.५ ॥

अन्योन्यमन्यत्रवदीक्षमाणो परस्परेणाध्युषितेऽपि देशे ।
अलिङ्गितालीकपरस्परान्तस्तथ्यं मिथस्तौ परिषस्वजाते ॥ ६.५१ ॥

स्पर्शं तमस्याधिगतापि भैमी मेने पुनर्भ्रान्तिमदर्शनेन ।
नृपः स पश्यन्नपि तामुदीतः स्तम्भो न धर्तुं सहसा शशाक ॥ ६.५२ ॥

स्पर्शाटिहर्षादृतसत्यमत्या प्रवृत्य मिथ्याप्रतिलब्धबाधौ ।
पुनर्मिथस्तथ्यमपि स्पृशन्तौ न श्रद्दधाते पथि तौ विमुग्धौ ॥ ६.५३ ॥

सर्वत्र संवाद्यमबाधमानौ रूपश्रियातिथ्यकरं परं तौ ।
न शेकतुः केलिरसाद्विरन्तुमलीकमालोक्य परस्परं तु ॥ ६.५४ ॥

परस्परस्पर्शरसोर्मिसेकात्तयोः क्षणं चेतसि विप्रलम्भः ।
स्नेहातिदानादिव दीपिकार्चिर्निमिष्य किंचिद्विगुणं दिदीपे ॥ ६.५५ ॥

वेश्माप सा धैर्यवियोगयोगाद्बोधं च मोहं च मुहुर्दधाना ।
पुनःपुनस्तत्र पुरः स पश्यन्बभ्राम तां सुभ्रुवमुद्भ्रमेण ॥ ६.५६ ॥

पद्म्यां नृपः संचरमाण एष चिरं परिभ्रम्य कथंकथंचित् ।
विदर्भराजप्रभवाभिरामं प्रासादमभ्रंकषमाससाद ॥ ६.५७ ॥

सखीशतानां सरसैर्विलासैः स्मरावरोधभ्रममावहन्तीम् ।
विलोकयामास सभां स भैम्यास्तस्य प्रतोलीमणिवेदिकायाम् ॥ ६.५८ ॥

कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः सूचयति त्रिरेखः ।
इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ॥ ६.५९ ॥

एतं नलं तं दमयन्ति पश्य त्यजार्तिमित्या लिकुलप्रबोधान् ।
श्रुत्वा स नारीकरवर्तिसारीमुखात्स्वमाशङ्कत यत्र दृष्टम् ॥ ६.६ ॥

यत्रैकयालीकनलीकृतालीकण्ठे मृषाभीमभवीभवन्त्या ।
तद्दृक्पथे दौहदिकोपनीता शालीनमाधायि मधूकमाला ॥ ६.६१ ॥

चन्द्राभमाभ्रं तिलकं दधाना तद्वन्निजास्येन्दुकृतानुबिम्बम् ।
सखीमुखे चन्द्रसमे ससर्ज चन्द्रनवस्थामिव कापि यत्र ॥ ६.६२ ॥

दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् ।
तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी नखलेखिनीभिः ॥ ६.६३ ॥

विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र ।
अशाकि लीलाकमलं न पाणिरपारि कर्णोत्पलमक्षि नैव ॥ ६.६४ ॥

भैमीमुपावीणयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः ।
गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालैकधुरीणवीणः ॥ ६.६५ ॥

नावा स्मरः किं हरभीतिगुप्ते पयोधरे खेलति कुम्भ एव ।
इत्यर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी यत्र सखीभिरूचे ॥ ६.६६ ॥

स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः ।
स्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय ॥ ६.६७ ॥

यत्रावदत्तामतिभीय भैमी त्यज त्यजेदं सखि साहसिक्यम् ।
त्वमेव कृत्वा मदनाय दत्से बाणान्प्रसूनानि गुणेन सज्जान् ॥ ६.६८ ॥

आलिख्य सख्याः कुचपत्त्रभङ्गीमध्ये सुमध्या मकरीं करेण ।
यत्रालपत्तामिदमालि यानं मन्ये त्वदेकावलिनाकनद्याः ॥ ६.६९ ॥

तामेव सा यत्र यगाद भूयः पयोधियादः कुचकुम्भयोस्ते ।
सेयं स्थिता तावकहृच्छयाङ्कप्रियास्तु विस्तारयशःप्रशस्तिः ॥ ६.७ ॥

शारीं चरन्तीम् सखि मारयैतामित्यक्षदाये कथिते कयापि ।
यत्र स्वघातभ्रमभीरुशारीकाकूत्थसाकूतहसः स जज्ञे ॥ ६.७१ ॥

भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् ।
कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानमूहे ॥ ६.७२ ॥

तस्मिन्नियं सेति सखीसमाजे नलस्य संदेहमथ व्युदस्यन् ।
अपृष्ट एव स्फुटमाचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥ ६.७३ ॥

भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् ।
नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्बं मणिवेदिकायाम् ॥ ६.७४ ॥

हुताशकीनाशजलेशदूतीर्निराकरिष्णोः कृतकाकुयाञ्चाः ।
भैम्या वचोभिः स निजां तदाशां न्यवर्तयद्दूरमपि प्रयाताम् ॥ ६.७५ ॥

विज्ञप्तिमन्तःसभयः स भैम्या मध्येसभं वासवसम्भलीयाम् ।
संभालयामास भृशं कृशाशस्तदालिवृन्दैरभिनन्द्यमानाम् ॥ ६.७६ ॥

लिपिर्न दैवी सुपठा भुवीति तुभ्यं मयि प्रेरितवाचिकस्य ।
इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानैः ॥ ६.७७ ॥

सलीलमालिङ्गनयोपपीडमनामयं पृच्छति वासवस्त्वाम् ।
शेषस्त्वदाश्लेषकथापनिद्रैस्तद्रोमभिः संदिदिशे भवत्यै ॥ ६.७८ ॥

यः प्रेर्यमाणोऽपि हृदा मघोनस्त्वदर्थनायां ह्रियमापदागः ।
स्वयंवरस्थानजुषस्त्वमस्य बधान कण्ठं वरणस्रजाशु ॥ ६.७९ ॥

नैनं त्यज क्षीरधिमन्थनाद्यैरस्यानुजायोद्गमितामरैः श्रीः ।
अस्मै विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥ ६.८ ॥

लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः ।
किंकर्तुमर्थी यदि सोऽपि रागाज्जागर्ति कक्षा किमतः परापि ॥ ६.८१ ॥

पदं शतेनाप मखैर्यदिन्द्रस्तस्मै स ते याचनचाटुकारः ।
कुरु प्रसादं तदलंकुरुष्व स्वीकारकृद्भ्रूनटनशृअमेण ॥ ६.८२ ॥

मन्दाकिनीनन्दनयोर्विहारे देवे धवे देवरि माधवे वा ।
श्रेयः श्रियां यातरि यच्च सख्यां तच्चेतसा भाविनि भावयस्व ॥ ६.८३ ॥

रज्यस्व राज्ये जगतामितीन्द्राद्याच्ञाप्रतिष्ठां लभसे त्वमेव ।
लघूकृतस्वं बलियाचनेन तत्प्राप्तये वामनमामनन्ति ॥ ६.८४ ॥

यानेव देवान्नमसि त्रिकालं न तत्कृतघ्नीकृतिरौचिती ते ।
प्रसीद तानप्यनृणान्विधातुं पतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥ ६.८५ ॥

इत्युक्तवत्या निहितादरेण भैम्या गृहीता मघवत्प्रसादः ।
स्रक्पारिजातस्य ऋते नलाशां वासैरशेषामपुपूरदाशाम् ॥ ६.८६ ॥

आर्ये विचार्यालमिहेति कापि योग्यं सखि स्यादिति काचनायि ।
ओंकार एवोत्तरमस्तु वस्तु मङ्गल्यमत्रेति च काप्यवोचत् ॥ ६.८७ ॥

अनाश्रवा वः किमहं कदापि वक्तुं विशेषः परमस्ति शेषः ।
ईतीरिते भीमजया न दूतीमालिङ्गदालीश्च मुदामियत्ता ॥ ६.८८ ॥

भैमीं च दूत्यं च न किंचिदापमिति स्वयं भावयतो नलस्य ।
आलोकमात्राद्यदि तन्मुखेन्दोरभून्न भिन्नं हृदयारविन्दम् ॥ ६.८९ ॥

ईषत्स्मितक्षालितसृक्वभागा दृक्संज्ञया वारिततत्तदालिः ।
स्रजा नमस्कृत्य तयैव शक्रं तां भीमभूरुत्तरयांचकार ॥ ६.९ ॥

स्तुतौ मघोनस्त्यज साहसिक्यं वक्तुं कियत्तं यदि वेद वेदः ।
मृषोत्तरं साक्षिणि हृत्सु न्ṝपामज्ञातृविज्ञापि ममापि तस्मिन् ॥ ६.९१ ॥

आज्ञां तदीयामनु कस्य नाम नकारपारुष्यमुपैतु जिह्वा ।
प्रह्वा तु तां मूर्ध्नि विधाय मालां बालापराध्यामि विशेषवाग्भिः ॥ ६.९२ ॥

तपःफलत्वेन हरेः कृपेयमिमं तपस्येव जनं नियुङ्क्ते ।
भवत्युपायं प्रति हि प्रवृत्तावुपेयमाधुर्यमधैर्यसर्जि ॥ ६.९३ ॥

शुश्रूषिताहे तदहं तमेव पतिं मुदेऽपि व्रतसंपदेऽपि ।
विशेषलेशोयऽमदेवदेहमंशागतं तु क्षितिभृत्तयेह ॥ ६.९४ ॥

अश्रौषमिन्द्रादरिणीर्गिरस्ते सतीव्रतातिप्रतिलोमतीव्राः ।
स्वं प्रागहं प्रादिषि नामराय किंनाम तस्मै मनसा नराय ॥ ६.९५ ॥

तस्मिन्विमृश्यैव वृते हृदैषा मैन्द्री दया मामनुतापिकाभूत् ।
निर्वातुकामं भवसंभवानां धीरं सुखानामवधीरणेव ॥ ६.९६ ॥

वर्षेषु यद्भारतमार्युधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ।
तत्रास्मि पत्युर्वरिवस्ययेह शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥ ६.९७ ॥

स्वर्गे सतां शर्म परं न धर्मा भवन्ति भूमाविह तच्च ते च ।
शक्या मखेनापि मुदोऽमराणां कथं विहाय त्रयमेकमीहे ॥ ६.९८ ॥

साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे ।
इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न ॥ ६.९९ ॥

प्रक्षीण एवायुषि कर्मकृष्टे नरान्न तिष्ठत्युपतिष्ठते यः ।
बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापातसुखोन्मुखं कः ॥ ६.१ ॥

इतीन्द्रदूत्याः प्रतिवाचमर्धे प्रत्युह्य सैषाभिदधे वयस्याः ।
किंचिद्विवक्षोल्लसदोष्ठलक्ष्मीजितापनिद्रद्दलपङ्कजास्याः ॥ ६.१०१ ॥

अनादिधाविस्वपरम्पराया हेतुस्रजः स्रोतसि वेश्वरे वा ।
आयत्तधीरेष जनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः ॥ ६.१०२ ॥

नित्यं नियत्या परवत्यशेषे कः संविदानोऽप्यनुयोगयोग्यः ।
अचेतना सा च न वाचमर्हेद्वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते ॥ ६.१०३ ॥

क्रमेलकं निन्दति कोमलेच्छुः क्रमेलकः कण्टकलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः समायां मध्यस्थता नैकतरोपहासः ॥ ६.१०४ ॥

गुणा हरन्तोऽपि हरेर्नरं मे न रोचमानं परिहापयन्ति ।
न लोकमालोकयथापवर्गात्त्रिवर्गमर्वाञ्चममुञ्चमानम् ॥ ६.१०५ ॥

आकीटमाकैटभवैरि तुल्यः स्वाभीष्टलाभात्कृतकृत्यभावः ।
भिन्नस्पृहाणां प्रति चार्थमर्थं द्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥ ६.१०६ ॥

अध्वाग्रजाग्रन्निभृतापदन्धुर्बन्धुर्यदि स्यात्प्रतिबन्धुमर्हः ।
जोषं जनः कार्यविदस्तु वस्तु प्रच्छया निजेच्छा पदवीं मुदस्तु ॥ ६.१०७ ॥

इत्थं प्रतीपोक्तिमतिं सखीनां विलुप्य पाण्डित्यबलेन बाला ।
अपि श्रुतस्वर्पतिमन्त्रिसूक्तिं दूतीं बभाषेऽद्भुतलोलमौलिम् ॥ ६.१०८ ॥

परेतभर्तुर्मनसेव दूतीं नभस्वतेवानिलसख्यभाजः ।
त्रिस्रोतसेवाम्बुपतेस्तदाशु स्थिरास्थमायातवतीं निरास्थम् ॥ ६.१०९ ॥

भूयोऽर्थमेनं यदि मां त्वमात्थ तदा पदावालभसे मघोनः ।
सतीव्रतैस्तीव्रमिमं तु मन्तुमन्तर्वरं वज्रिणि मार्जितास्मि ॥ ६.११ ॥

इत्थं पुनर्वागवकाशनाशान्महेन्द्रदूत्यामपयातवत्याम् ।
विवेश लोलं हृदयं नलस्य जीवः पुनः क्षीबमिव प्रबोधः ॥ ६.१११ ॥

श्रवणपुटयुगेन स्वेन साधूपनीतं दिगधिपकृपयाप्तादीदृशः संविधान्
अलभत मधु बाला रागवागुत्थमित्थं निषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥ ६.११२ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं शृईहीरः सुषुवे जितेन्द्रियचयं ममल्लदेवी च यम् ।
षष्ठः खण्डनखण्डतोऽपि सहजात्क्षोदक्षमे तन्महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ ६.११३ ॥

संस्कृत गोवीथि : : गव्य २८ (शंकराचार्य विशेष)

Gavya28

रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी ।
भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥

As through the ignorance of the real nature of the rope the very rope appears in an instant as a snake, so also does pure Consciousness appear in the form of the phenomenal universe without undergoing any change.


शब्द सिन्धु


य (ya) = who
यं (yaM) = one to whom
यंतु (ya.ntu) = reach us
यः (yaH) = anyone who
यकृत् (yakRit.h) = liver
यकृत्कोपः (yakRitkopaH) = (m) hepatitis
यजति (yajati) = (1 pp) to sacrifice
यजत्राः (yajatraaH) = doing yAga or yagya or sacrifice?
यजन्तः (yajantaH) = sacrificing
यजन्ति (yajanti) = they worship
यजन्ते (yajante) = they worship by sacrifices
यजाम (yajaama) = I pl `imperative’ parasmaipada of yaj
यजिनः (yajinaH) = devotees
यजुः (yajuH) = the Yajur Veda
यजुर्वेदः (yajurvedaH) = Yajur Veda
यत् (yat.h) = to strive
यत (yata) = controlled
यतः (yataH) = because
यतचित्त (yatachitta) = controlling the mind
यतचित्तस्य (yatachittasya) = whose mind is controlled
यतचित्तात्मा (yatachittaatmaa) = always careful in mind
यतचेतसां (yatachetasaaM) = who have full control over the mind
यततः (yatataH) = while endeavouring
यतता (yatataa) = while endeavouring
यततां (yatataaM) = of those so endeavouring
यतति (yatati) = endeavours
यतते (yatate) = (1 app) to attempt, to try
यतन्तः (yatantaH) = fully endeavouring
यतन्ति (yatanti) = endeavour
यतमानः (yatamaanaH) = endeavouring
यतयः (yatayaH) = enlightened persons
यतस्यतः (yatasyataH) = wherever
यतात्म (yataatma) = self-controlled
यतात्मनाः (yataatmanaaH) = engaged in self-realisation
यतात्मवान् (yataatmavaan.h) = self-situated
यति (yati) = Mendicant
यतीनां (yatiinaaM) = of the saintly persons
यत्न (yatna) = effort
यत्नं (yatnaM) = effort
यत्र (yatra) = wherein
यथा (yathaa) = just as (or how)
यथाभागं (yathaabhaagaM) = as differently arranged
यथावत् (yathaavat.h) = as they are
यदा (yadaa) = when
यदायुः (yadaayuH) = yat+AyuH
यदि (yadi) = if
यदृच्छया (yadRichchhayaa) = by its own accord
यदृच्छा (yadRichchhaa) = out of its own accord
यदेव (yadeva) = yat.h + eva: whatever + itself or alone
यद्यत् (yadyat.h) = whatever
यद्यपि (yadyapi) = even though
यद्वत् (yadvat.h) = as
यद्वा (yadvaa) = whether
यन्तृ (yantRi) = charioteer
यन्त्र (yantra) = a design used in meditation
यन्त्रम् (yantram.h) = (n) machine
यन्त्रागारम् (yantraagaaram.h) = (n) factory
यम (yama) = the god of death, also the five moral commandments
यमः (yamaH) = the controller of death
यमदूतानां (yamaduutaanaaM) = the messengers of the lord of death (yama)
यमेन (yamena) = by Yama, the lord of Death
यमेवैश (yamevaisha) = yaM + eva + esha: him + itself or alone + this
यया (yayaa) = by which
ययौ (yayau) = went (past perfect tense of yaa gachha meaning to go)
यल्लभसे (yallabhase) = yat.h+labhase, whatever+(you)obtain
यवन (yavana) = Foreign
यवनिका (yavanikaa) = (f) curtain
यश (yasha) = Success
यशः (yashaH) = fame
यशस् (yashas.h) = glory
यशांसि (yashaa.nsi) = reputation
यशोवान् (yashovaan.h) = man with fame
यष्टव्यं (yashhTavyaM) = must be performed
यष्टिकासन (yashhTikaasana) = the stick posture
यष्टिक्रीडा (yashhTikriiDaa) = (f) dandia (a dance using wooden sticks)
यस्मात् (yasmaat.h) = from whom
यस्मिन् (yasmin.h) = in which
यस्मै (yasmai) = that person to whom
यस्य (yasya) = whose
यस्यति (yasyati) = (verb, future,III P.sing.PP) will presently go
यस्यां (yasyaaM) = in which
यस्याः (yasyaaH) = (fem.poss.sing.) her(whose)
यक्ष (yakSha) = the Yaksas
यक्षरक्षसां (yakSharakShasaaM) = of the Yaksas and Raksasas
यक्षरक्षांसि (yakSharakShaa.nsi) = demons
यक्ष्ये (yakShye) = I shall sacrifice


पाठ


Please read this lesson based on learning so far.

1 2 3

Read, understand and use following sentences in day to day life.

  • तन्मित्रं यदकृत्रिमम् ।
  • त्याज्यं न धैर्यं विधुरेऽपि काले।
  • दारिद्र्यदोषो गुणराशिनाशी।
  • दीर्घसूत्री विनश्यति ।
  • दुःखं त्यक्तुं रूढमूलो हि अनुरागः ।
  • दूरतः पर्वतो रम्यः ।
  • दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।
  • दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते।

सुभाषित


अमॄतं चैव मॄत्युश्च द्वयं देहप्रातिष्ठितम् ।
मोहादापद्यते मॄत्यु: सत्येनापद्यतेऽमॄतम् ॥

श्री शंकराचार्य

मॄत्यु तथा अमरत्व दोनों एक ही देह में निवास करती है ।
मोह के पिछे भागनेसे मॄत्यु आती है तथा सत्य के पिछे चलनेसे अमरत्व प्रााप्त होता है ।


पठन -> मनन -> स्मरण


I consider it as first राष्ट्रवादी |

Rajendra Agrawal ji wrote beautiful words on this जयंती

“देश के चारो कोनो में चारो तीर्थस्थलों का जीर्णोदार कर प्रत्येक सनातनी के लिए इन चारों स्थानों का दर्शन लाभ करना एक कर्तव्य के रूप स्थापित किया । प्रत्येक भारतवासी पुरे राष्ट्र की आंचलिक विविधता को जाने एवम उसमे सन्निहित एकता के सूत्र को अंगीकार कर पाए , इस हेतु इस प्रकल्प का कोई विकल्प हो सकता है ? राष्ट्रवाद के लिए प्रखर पुरुषार्थ करने वाले भगवान आदि शंकर को कोटिश: वन्दन ।”

For few days,we will study his not so famous works as a part of Sanskrit learning. Read them,re-read them and spend good amount of time with शंकराचार्य .

The Aparokshanubhuti (Sanskrit: अपरोक्षानुभूतिः) is a famous work attributed to Adi Shankara. It is a popular introductory work that expounds Advaita Vedanta philosophy. It describes a method that seekers can follow to directly experience the essential truth of one’s one nature. Thus, the work is literally titled Aparokshanubhuti, or Direct Experience.

॥ अपरोक्षानुभूतिः ॥

श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् ।
व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १॥

अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ।
सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २॥

स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् ।
साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् ॥ ३॥

ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ४॥

नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् ।
एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥ ५॥

सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६॥

विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।
सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७॥

निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।
चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८॥

संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे ।
इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ ९॥

उक्तसाधनयुक्तेन विचारः पुरुषेण हि ।
कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ॥ १०॥

नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः ।
यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ॥ ११॥

कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते ।
उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ १२॥

नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।
एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३॥

अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।
सङ्कल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४॥

एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् ।
यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५॥

अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।
तदहं नात्र सन्देहो विचारः सोऽयमीदृशः ॥ १६॥

आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७॥

आत्मा नियामकश्चान्तर्देहो बाह्यो नियम्यकः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८॥

आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९॥

आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २०॥

आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः ।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१॥

आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् ।
नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्यं यतो निशि ॥ २२॥

देहोऽहमित्ययं मूढो मत्वा तिष्ठत्यहो जनः ।
ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥ २३॥

ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः ।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २४॥

निर्विकारो निराकारो निरवद्योऽहमव्ययः ।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २५॥

निरामयो निराभासो निर्विकल्पोऽहमाततः ।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २६॥

निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः ।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २७॥

निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः ।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २८॥

स्वदेहं शोभनं त्यक्त्वा पुरुषाख्यं च संमतम् ।
किं मूर्ख शून्यमात्मानं देहातीतं करोषि भोः ॥ २९॥

स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् ।
देहातीतं सदाकारं सुदुर्दर्शं भवादृशाम् ॥ ३०॥

अहंशब्देन विख्यात एक एव स्थितः परः ।
स्थूलस्त्वनेकतां प्राप्तः कथं स्याद्देहकः पुमान् ॥ ३१॥

अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ।
ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२॥

अहं विकारहीनस्तु देहो नित्यं विकारवान् ।
इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥ ३३॥

यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम् ।
विनिर्णीतं विशुद्धेन कथं स्याद्देहकः पुमान् ॥ ३४॥

सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।
अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥ ३५॥

असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।
अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान् ॥ ३६॥

तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः ।
जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ॥ ३७॥

प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः ।
नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ॥ ३८॥

लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च ।
अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् ॥ ३९॥

एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः ।
सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमव्ययः ॥ ४०॥

इत्यात्मदेहभानेन प्रपञ्चस्यैव सत्यता ।
यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता ॥ ४१॥

इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् ।
इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ॥ ४२॥

चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् ।
जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर्पग्रहो यथा ॥ ४३॥

रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी ।
भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥ ४४॥

उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते ।
तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥ ४५॥

व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ।
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥ ४६॥

श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि ।
कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७॥

दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति ।
इह पश्यति नानात्वं मायया वञ्चितो नरः ॥ ४८॥

ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।
तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९॥

ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ५०॥

सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् ।
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥ ५१॥

स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः ।
योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषितम् ॥ ५२॥

यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्र पश्यति ।
आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥ ५३॥

यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४॥

अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।
इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ॥ ५५॥

अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् ।
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६॥

स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि ।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७॥

त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् ।
अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः ॥ ५८॥

यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् ।
तद्वद्ब्रह्मणि जीवत्वं भ्रान्त्या पश्यति न स्वतः ॥ ५९॥

यथा मृदि घटो नाम कनके कुण्डलाभिधा ।
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥ ६०॥

यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले ।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१॥

यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा ।
यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥ ६२॥

यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् ।
पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथाऽऽत्मता ॥ ६३॥

घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः ।
जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः ॥ ६४॥

सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः ।
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ॥ ६५॥

कार्यकारणता नित्यमास्ते घटमृदोर्यथा ।
तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणोरिह ॥ ६६॥

गृह्यमाणे घटे यद्वन्मृत्तिकाऽऽभाति वै बलात् ।
वीक्ष्यमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥ ६७॥

सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा ।
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनो निशि ॥ ६८॥

यथैव मृण्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः ।
आत्मानात्मविभागोऽयं मुधैव क्रियते बुधैः ॥ ६९॥

सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७०॥

घटत्वेन यथा पृथ्वी पटत्वेनैव तन्तवः ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७१॥

कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७२॥

पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७३॥

गृहत्वेनैव काष्ठानि खड्गत्वेनैव लोहता ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ॥ ७४॥

यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७५॥

पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७६॥

पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७७॥

चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७८॥

अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७९॥

महत्त्वे सर्ववस्तूनामणुत्वं ह्यतिदूरतः ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८०॥

सूक्ष्मत्वे सर्ववस्तूनां स्थूलत्वं चोपनेत्रतः ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८१॥

काचभूमौ जलत्वं वा जलभूमौ हि काचता ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८२॥

यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८३॥

अभ्रेषु सत्सु धावत्सु धावन्निव यथा शशी ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८४॥

यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८५॥

यथा शशी जले भाति चञ्चलत्वेन कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८६॥

एवमात्मन्यविद्यातो देहाध्यासो हि जायते ।
स एवात्मपरिज्ञानाल्लीयते च परात्मनि ॥ ८७॥

सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् ।
अभावात्सर्वभावानां देहता चात्मनः कुतः ॥ ८८॥

आत्मानां सततं जानन्कालं नय महामते ।
प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥ ८९॥

उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्चति ।
इति यच्छ्रूयते शास्त्रे तन्निराक्रियतेऽधुना ॥ ९०॥

तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ।
देहादीनामसत्यत्वात् यथा स्वप्नः प्रबोधतः ॥ ९१॥

कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ।
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ॥ ९२॥

स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः ।
अध्यस्तस्य कुतो जन्म जन्माभावे स्थितिः कुतः ॥ ९३॥

उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते ।
अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ॥ ९४॥

यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ।
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ ९५॥

रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति ।
अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां व्रजेत् ॥ ९६॥

देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः ।
अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः ॥ ९७॥

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।
बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च यत्स्फुटम् ॥ ९८॥

उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः ।
वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ॥ ९९॥

त्रिपञ्चाङ्गान्यतो वक्ष्ये पूर्वोक्तस्यैव सिद्धये ।
तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥ १००॥

नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः ।
तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम् ॥ १०१॥

यमो हि नियमस्त्यागो मौनं देशश्च कालतः ।
आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १०२॥

प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १०३॥

सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ।
यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १०४॥

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १०५॥

त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् ।
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ १०७॥

वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते ।
प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८॥

इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् ।
गिरां मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९॥

आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ ११०॥

कलनात् सर्वभूतानां ब्रह्मादीनां निमेषतः ।
कालशब्देन निर्दिष्टो ह्यखण्डानन्दकोऽद्वयः ॥ १११॥

सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।
आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ ११२॥

सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् ।
यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः ॥ ११३॥

यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् ।
मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् ॥ ११४॥

अङ्गानां समतां विद्यात्समे ब्रह्मणि लीनताम् ।
नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ ११५॥

दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् ।
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ ११६॥

द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ११७॥

चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ११८॥

निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ।
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥ ११९॥

ततस्तद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः ।
अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ १२०॥

विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् ।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥ १२१॥

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
मनसो धारणं चैव धारणा सा परा मता ॥ १२२॥

ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।
ध्यानशब्देन विख्याता परमानन्ददायिनी ॥ १२३॥

निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः ॥ १२४॥

एवञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् भवेत्स्वयम् ॥ १२५॥

ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
तत्स्वरूपं न चैकस्य विषयो मनसो गिराम् ॥ १२६॥

समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् ।
अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ १२७॥

लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता ।
एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ॥ १२८॥

भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।
ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत् ॥ १२९॥

ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् ।
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ १३०॥

ये हि वृत्तिं विजानन्ति ज्ञात्वापि वर्धयन्ति ये ।
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ १३१॥

येषां वृत्तिः समावृद्धा परिपक्वा च सा पुनः ।
ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ १३२॥

कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।
तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ १३३॥

निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ १३४॥

कार्ये कारणताऽऽयाता कारणे न हि कार्यता ।
कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः ॥ १३५॥

अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।
द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६॥

अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् ।
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७॥

कारणं व्यतिरेकेण पुमानादौ विलोकयेत् ।
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३८॥

कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् ।
कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः ॥ १३९॥

भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना ।
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ १४०॥

अदृश्यं भावरूपञ्च सर्वमेतत् चिदात्मकम् ।
सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥ १४१॥

दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ।
विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥ १४२॥

एभिरङ्गैः समायुक्तो राजयोग उदाहृतः ।
किञ्चित्पक्वकषायाणां हठयोगेन संयुतः ॥ १४३॥

परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः ।
गुरुदैवतभक्तानां सर्वेषां सुलभो जवात् ॥ १४४॥

॥ इति ॥

 

संस्कृत गोवीथी : : गव्य 6

Gavya6


शब्द सिन्धु


  • दुर्वहम् – कठिन difficult
  • समलम् – गन्दगी युक्त
  • चाकचिक्यजालम् – चकाचौंधभरी दुनिया
  • खगकुलकलरव – पक्षियोंके समुह्की ध्वनि
  • चत्वरे – आँगनमें

पाठ


Bookish

Learn the words and repeat the sentences.

1 2 3 4

Daily Conversation Sentences

  • गाढं अभ्यास वा? Studying very hard?
  • बहु पूर्वमेव पठितवान् – I read it long ago.
  • अध्य क: पाकः? – What cooked today?

सुभाषित


अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥

प्रत्येकम् अपि अक्षरं मन्त्रः भवेत् । प्रत्येकं मूलिका औषधं भवेत् । प्रत्येकं व्यक्तिः कार्यसमर्था एव । किन्तु तेषां योजकः दुर्लभः ।

There is no syllable which cannot be turned into a sacred chant, no plant which is not of medicinal value, no man who is perfectly incapable…what is rare is the wise who can discover and rightly ’employ’ them.


पठन/मनन


हितोपदेशः ०२

मित्रलाभः

अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्तावक्रमेण पण्डितोब्रवीत्भो राजपुत्राः शृणुत

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥१॥

तद् भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि । राजपुत्रैरुक्तमार्य ! कथ्यतां । विष्णुशर्मोवाचच्छृणुत यूयम् । सम्प्रति मित्रलाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः

असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥२॥

राजपुत्रा ऊचुः कथम् एतत्

सोब्रवीत्स्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र नानादिग्देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाशहस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्द्य प्रातरेवानिष्टदर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरणक्रमेण व्याकुलश्चलति । यतः

शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥३॥

अन्यच्च विषयिणाम् इदम् अवश्यं कर्तव्यम् ।

उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥४॥

अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस्तण्डुलकणान् अवलोकयामास । ततः कपोतराजस्तण्डुलकणलुब्धान् कपोतान् प्राह्कुतोत्र निर्जने वने तण्डुलकणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम् ।

कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥५॥

कपोता ऊचुः कथम् एतत्

 

संस्कृत गोवीथि : : गव्य ५३ : उच्छिष्ट-गणपति

Gavya51

Note: I am not into tantra. This study is part of my personal swadhyay.

उच्छिष्ट-गणपति

Uchchhishta Ganapati (Sanskritउच्छिष्ट-गणपतिUcchiṣṭa Gaṇapati) is an Tantric aspect of the Hindu god Ganesha(Ganapati). He is the primary deity of the Uchchhishta Ganapatya sect, one of six major schools of the Ganapatyas.

The gaNas of which he is the pati represent the limitless vidyA-vrttis which aid the upAsaka in overcoming various vighnas that hinder Atma-vichAra. The same is stated in the yAmaLa:

utkR^iShTAshchApi shiShTAshcha praLaye nAshavarjitAH |
gaNA ucChiShTasaMjnADhyAsteShAM cha patirIshvaraH |
ucChiShTagaNapashcheti guNeshasambhavaH smR^itaH ||

A similar explanation can be seen in the rahasya-hR^idaya of this special form:

utkR^iShTAH j~nAninaH siddhAH kAraNabrahmalokagAH |
praLaye nAsharahitAH shiShTAste yogapAragAH |
ucChiShTAshcheti kathitAH teShAM cha pataye namaH ||

He is said to have chosen as his shakti sarasvatI, the daughter of brahmA and shAradA and puShTi-lakShmIH, the daughter of mahAviShNu and ramA:

sarasvatIM brahmaputrIM puShTilakShmIM hareH sutAm |
jagrAha vidhipUrvaM tu devocChiShTagaNAdhipaH ||

॥ श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।

श्रीभैरव उवाच ।
शृणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥

श्रीदेव्युवाच ।
ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः ।
श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥

श्रीभैरव उवाच ।
प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे ।
मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥

तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः ।
विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥

तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः ।
तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥

तदद्य तव भक्त्याहं साधकानां हिताय च ।
महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥

ॐ अस्य श्रीउच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः ।
गायत्री छन्दः । श्रीमहागणपतिर्देवता ।
गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् ।
मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥

ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी ।
गुणाढ्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥

विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदा शान्तो जगत्त्राता विश्वावर्तो विभाकरः ॥ ८॥

विश्रम्भी विजयो वैद्यो वारान्निधिरनुत्तमः ।
अणिमाविभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥

सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः ।
पतिः पीतविभूषाङ्को रक्ताक्षो लोहिताम्बरः ॥ १०॥

विरूपाक्षो विमानस्थो विनीतः सदस्यः सुखी । सात्वतः
सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥

नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः ।
दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥

सारात्मा विश्वसारश्च विश्वसारो(२) विलेपनः ।
परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥

विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धनः ।
भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥

विनर्तको विनीतोऽपि विनतानन्दनार्चितः ।
वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥

विराटको विराटश्च विदग्धो विधुरात्मभूः ।
पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥

पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः ।
अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥

अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः ।
लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥

लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः ।
सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥

नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः ।
विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥

सुजो बुद्धः सदारूपः सुखदः सुखसेवितः ।
विकर्तनो विपच्चारी विनटो नटनर्तकः ॥ २१॥

नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः ।
गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२।
गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः ।
गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥

गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा ।
गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥

गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥

गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः ।
गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥

गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः ।
गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥

विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तकः ।
करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥

कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ।
विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥

उरुरभ्यमुखो रक्तो देवतादयितौरसः ।
महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥

उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ।
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥

असितात्मा भैरवेशो भाग्यवान्भगवान्भवः ।
गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥

शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः ।
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥

विद्याप्रदो वेदरसो वैदिको वेदपारगः ।
वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥

तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः ।
शिवशङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥

शैत्यः श्वेतः शतमुखो मुग्धो मोदकभूषणः ।
देवो दिनकरो धीरो घृतिमान्द्युतिमान्धवः ॥ ३६॥

शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ।
शरण्यः शौनकः शूरः शरदम्भोजधारकः ॥ ३७॥ न्
दारकः शिखिवाहेष्टः सितः शङ्करवल्लभः ।
शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥

लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ।
भ्रमणः शशिभृत्सुर्यः शनिर्धरणिनन्दनः ॥ ३९॥

बुधो विबुधसेव्यश्च बुधराजो बलंधरः ।
जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥

जनको जनमार्गज्ञो जनरक्षणतत्परः ।
जनानन्दप्रदाता च जनकाह्लादकारकः ॥ ४१।
विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः ।
गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥

गच्छराजोथ गच्छेथो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥

गच्छप्रभुर्गच्छचरो गच्छप्रियकृताद्यमः ।
गच्छगीतगुणोगर्तो मर्यादाप्रतिपालकः ॥ ४४॥

गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता ।
गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥

परम्पदं परन्धाम परमात्मा कविः कुजः ।
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥

ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ।
पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥

वनेचरो वनस्पतिर्वनवासी स्मरोपमः ।
पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥

पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः ।
युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥

यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः ।
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥

मीनध्वजो मनोहारी योगिनां योगवर्धनः ।
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥

तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः ।
सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥

सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः ।
सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥

रुचको मेचकस्तुष्टः प्रभुस्तोमरघातकः ।
दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥

कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः ।
भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥

जालन्धरो जगद्वासी हास्यकृद्गहनो गुहः ।
हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥

सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः ।
हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥ ५७॥

शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः ।
कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥

दविष्ठो दमनो हृष्टो दाता त्राता पितासमः ।
निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥

जनजीवो जितारातिर्जगद्व्यापी जगन्मयः ।
चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥

रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः ।
पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥

पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः ।
कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥

लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् ।
ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥

अङ्गुल्यग्रस्थभुवनो भुवनैकमलापहः ।
सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥

सतीपतिः समरसः सनकः सरलः सरः ।
सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥

वित्तदो वित्तनाथश्च धनिनां धनदायकः ।
राजीवनयनः स्मार्तः स्मृतिदः कृत्तिकाम्बरः ॥ ६६॥

अश्विनोऽश्वमुखः शुभ्रो हरिणो हरिणीप्रियः ।
कृत्तिकासनकः कोलो रोहिणीरमणोपमः ॥ ६७॥

रौहिणेयप्रेमकरो रोहिणीमोहनो मृगः ।
मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥

आर्द्राननो महाबुद्धिर्महोरगविभूषणः ।
भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥

पुनर्देव: पुनर्जेता पुनर्जीवः पुनर्वसुः ।
तिमिरास्तिमिकेतुश्च तिमिषासुरघातनः ॥ ७०॥

तिष्यस्तुलाधरो जृम्भो विश्लेषाश्लेषदानराट् ।
मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥

मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः ।
पूर्वफाल्गुनिकः स्फीत फल्गुरुत्तरफाल्गुनः ॥ ७२॥

फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः ।
घोणाहस्तश्चतुर्हस्तो हस्तिवन्ध्यो हलायुधः ॥ ७३॥

चित्राम्बरार्चितपदः स्वस्तिदः स्वस्तिनिग्रहः ।
विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥

अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः ।
अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥

ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः ।
शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥

श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः ।
श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥

शातातपः शातकुम्भः शरज्ज्योतिः शताभिषक् ।
पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥

रेणुकातनयो रामो रेवतीरमणो रमी ।
आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ । ७९॥

पोषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः ।
राज्यदोऽभिजिदात्मेयस्तारेशस्तारकद्युतिः ॥ ८०॥

प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः ।
परहा पञ्चभूः पञ्चवायुपूज्यपरिग्रहः ॥ ८१॥

पुराणागमविद्योगी महिषो रासभोऽग्रजः ।
ग्रहो मेषो मृषो मन्दो मन्मथो मिथुनाकृतिः ॥ ८२॥

कल्पभृत्कटको दीपो मर्कटः कर्कटो धृणिः ।
कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥

सिंहा सिंहासनाभूष्यो मद्गुर्मूषकवाहनः ।
पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥

अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिकः ।
अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥

कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥

प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः ।
त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥

चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः ।
षड्रसास्वादविज्ञानः षष्ठीषष्टिकवत्सलः ॥ ८८॥

सप्तार्णवगतिः सारः सप्तमीश्वररोहितः ।
अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥

दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः ।
एकादशात्मगणयो द्वादशीयुगचर्चितः ॥ ९०॥

त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः ।
चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥

दर्शदर्शो दर्शनश्च वानप्रस्थो महेश्वरः ।
मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥

महागजो जितक्रोधो जितशत्रुर्जयाश्रयः ।
रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥

भवप्रियो भवानीष्टो भारभृद्भूतभावनः ।
गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्टरश्रवाः ॥ ९४॥

वृत्रहा विघ्नहा सीरः समस्तदुःखतापहा ।
मञ्जुलो मार्जरो मत्तो दुर्गापुत्रो दुरालसः ॥ ९५॥

अनन्तचित्सुधाधोरो वीरो वीर्यैकसाधकः ।
भास्वन्मुकुटमाणिक्यः कूजत्किङ्किंणिजालकः ॥ ९६॥

शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः ।
पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥ ९७॥

उद्घृताधरदन्ताढ्यो मालाभूषणभूषितः ।
मारदो वारणो लोलश्रवणः शूर्पकर्णकः ॥ ९८॥

बृहदुल्लासनासाढ्यो व्याप्तत्रैलोक्यमण्डलः ।
रत्नमण्डलमध्यस्थः कृशानुरूपशीलकः ॥ ९९॥

बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः ।
बृहदास्यरवाक्रान्तभीतब्रह्माण्डभाण्डकः ॥ १००॥

बृहत्पादसमाक्रान्तसप्तपातालदीपितः ।
बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ १०१॥

बृहद्धस्तधृताशेषायुधनिर्जितदानवः ।
स्फूरत्सिन्दूरवदनः स्फूरत्तेजोऽग्निलोचनः ॥ १०२॥

उद्दीपितमणिः स्फूर्जन्नूपुरध्वनिनादितः ।
चलत्तोयप्रवाहाढ्यो नदीजलकणाकरः ॥ १०३॥

भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः ।
ब्रह्माच्युतमहारुद्रपुरस्सरसुरार्चितः ॥ १०४॥

अशेषशेषप्रभृतिव्यालजालोपसेवितः ।
गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः ॥ १०५॥

हाहाहूहूगतात्युग्रस्वरविभ्रान्तमानसः ।
पञ्चाशद्वर्णबीजाख्यमन्त्रमन्त्रितविग्रहः ॥ १०६॥

वेदान्तशास्त्रपीयूषधाराऽऽप्लावितभूतलः ।
शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १०७॥

चिन्तामणिर्महामल्लो बल्लहस्तो बलिः कविः ।
कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १०८॥

द्वापरः परलोकैकः कर्मध्वान्तसुधाकरः ।
सुधाऽऽसिक्तवपुर्व्यासो ब्रह्माण्डादिकबाहुकः ॥ १०९॥

अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः ।
अकाराकारप्रोद्गीतताननादनिनादितः ॥ ११०॥

इकारेकारमत्राढ्यमालाभ्रमणलालसः ।
उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १११॥

ऋवर्णाङ्कितॠकारिपद्मद्वयसमुज्ज्वलः ।
लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ ११२॥

एकारैककारगिरिजास्तनपानविचक्षणः ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ ११३॥

अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्झरः ॥ ११४॥

खगेशध्वजरत्नाङ्ककिरीटारुणपादकः ।
गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ ११५॥

घनवाहनवागीशपुरस्सरसुरार्चितः ।
ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ ११६॥

चन्द्रकुङ्कुमजम्बाललिप्तसिन्दूरविग्रहः ।
छत्रचामररत्नाढ्यभ्रुकुटालङ्कृताननः ॥ ११७॥

जटाबद्धमहानर्घमणिपङ्क्तिविराजितः ।
झङ्कारिमधुपव्रातगाननादविनादितः ॥ ११८॥

ञवर्णकृतसंहारदैत्यासृक्पर्णमुद्गरः ।
टकाराख्याफलास्वादवेपिताशेषमूर्धजः ॥ ११९॥

ठकाराद्यडकाराङ्कढकारानन्दतोषितः ।
णवर्णामृतपीयूषधाराधारसुधाकरः ॥ १२०॥

ताम्रसिन्दूरपूजाढ्यललाटफलकच्छविः ।
थकारघनपङ्क्त्यातिसन्तोषिताद्विजव्रजः ॥ १२१॥

दयामृतहृदम्भोजधृतत्रैलोक्यमण्डलः ।
धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १२२॥

नमिताशेषदेवौघकिरीटमणिरञ्जितः ।
परवर्गापवर्गादिभोगेच्छेदनदक्षकः ॥ १२३॥

फणिचक्रसमाक्रान्तगलमण्डलमण्डितः ।
बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरसुरः ॥ १२४॥

भवानीहृदयानन्दवर्द्धनैकनिशाकरः ।
मदिराकलशस्फीतकरालैककराम्बुजः ॥ १२५॥

यज्ञान्तरायसङ्घातसज्जीकृतवरायुधः ।
रत्नाकरसुताकान्तिक्रान्तिकीर्तिविवर्धनः ॥ १२६॥

लम्बोदरमहाभीमवपुर्दीप्तकृतासुरः ।
वरुणादिदिगीशानस्वर्चितार्चनचर्चितः ॥ १२७॥

शङ्करैकप्रियप्रेमनयनान्दवर्द्धनः ।
षोडशस्वरितालापगीतगानविचक्षणः ॥ १२८॥

समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः ।
हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १२९॥

क्षमापूरितहृत्पद्मसंरक्षितचराचरः ।
ताराङ्कमन्त्रवर्णैकाविग्रहोज्ज्वलविग्रहः ॥ १३०॥

अकारादिक्षकारान्तविद्याभूषितविग्रहः ।
ॐ श्रीविनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ॥ १३१॥

हेरम्बो मोदकाहारो वक्रतुण्डो विधिः स्मृतः ।
वेदान्तगीतो विद्यार्थिसिद्धमन्त्रः षडक्षरः ॥ १३२॥

गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः ।
सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १३३॥

गाङ्गेयो गणसेव्यश्च ॐ श्रीद्वैमातुरः शिवः ।
ॐ ह्रीं श्रीं क्लीं ग्लौं गँ देवो महागणपतिः प्रभुः ॥ १३४॥

इदं नामसहस्रं तु महागणपतेः स्मृतम् ।
गुह्यं गोप्यतमं सिद्धं सर्वतन्त्रेषु गोपितम् ॥ १३५॥

सर्वमन्त्रमयं दिव्यं सर्वविघ्नविनाशनम् ।
ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १३६॥

सर्वाविद्यामयं ब्रह्मसाधनं साधकप्रियम् ।
गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १३७॥

यथेष्टफलदं लोके मनोरथप्रपूरणम् ।
अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम् ॥ १३८॥

विनार्चनं विना होमं विनान्यासं विना जपम् ।
अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १३९॥

चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे ।
लिखेद्भूर्जे महादेवि ! पुण्यं नामसहस्रकम् ॥ १४०॥

धारयेत्तं चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे ।
योषिद्वामकरे चैव पुरुषो दक्षिणे भुजे ॥ १४१॥

स्तम्भयेदपि ब्रह्याणं मोहयेदपि शङ्करम् ।
वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १४२॥

उच्चाटयेच्च गीर्वाणं शमयेच्च धनञ्जयम् ।
वन्ध्या पुत्रं लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १४३॥

त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे ।
नग्नः शक्तियुतो देवि भुक्त्वा भोगान्यथेप्सितान् ॥ १४४॥

प्रत्यक्षवरदं पश्येद्गणेशं साधकोत्तमः ।
य इदं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १४५॥

तस्य वित्तादिविभवोदारायुः सम्पदः सदा ।
रणे राजमये द्यूते पठेन्नामसहस्रकम् ॥ १४६॥

सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ॥ १४७॥

इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ।
महागणपतेः पुण्यं गोपनीयं स्वयोनिवत् ॥ १४७॥

॥ इति श्रीरुद्रयामलतन्त्रे
श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥

संस्कृत गोवीथि : : गव्य ३१ (शंकराचार्य विशेष)

Gavuya31

What is Pranayam to Adi Shankaracharya?

चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात्
निरोधः सर्व वृत्तीनां प्राणायामः स उच्यते॥

The restraint of all modifications of the mind by regarding all mental states like memories as Reality alone, is called pranayama.

अपरोक्षानुभूति


शब्द सिन्धु


विजानतः (vijaanataH) = who is in complete knowledge
विजानीताः (vijaaniitaaH) = are in knowledge
विजानीयं (vijaaniiyaM) = shall I understand
विजितात्मा (vijitaatmaa) = self-controlled
विजितेन्द्रियः (vijitendriyaH) = sensually controlled
विततः (vitataH) = are spread
वितरति (vitarati) = to distribute
वितर्क (vitarka) = discernment
वितृ (vitRi) = to distribute
वितृष्णां (vitRishhNaaM) = desirelessness
वित्त (vitta) = money
वित्तं (vittaM) = wealth
वित्तकोषः (vittakoshhaH) = (m) bank
वित्ते (vitte) = wealth
वित्तेशः (vitteshaH) = the lord of the treasury of the demigods
विद् (vid.h) = to obtain
विदः (vidaH) = who understand
विदधामि (vidadhaami) = give
विदारयति (vidaarayati) = to split apart
विदाहिनः (vidaahinaH) = burning
विदितम् (viditam.h) = known
विदितात्मनां (viditaatmanaaM) = of those who are self-realised
विदित्वा (viditvaa) = having known/realised
विदिशां (vidishaaM) = non-direction
विदुः (viduH) = understood
विदूषकः (viduushhakaH) = (m) clown, joker
विदेश (videsha) = foreign land
विदेशी (videshii) = foreigner
विद्धि (viddhi) = know for sure
विद्मः (vidmaH) = do we know
विद्महे (vidmahe) = ?
विद्यते (vidyate) = there is
विद्यनिपुणै (vidyanipuNai) = by the ace scholar Shankara (Plural is used for reverance)
विद्यया (vidyayaa) = (fem.instr.sing.) by knowledge
विद्या (vidyaa) = knowledge


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

न अस्ति अवमानभयम् अनार्यस्य

न अस्ति अवमानभयम् अनार्यस्य

न आक्रोशात्सारमेयाणां गजो मार्गान्निवर्तते।
न काकशापेन म्रियेत धेनु:।

न तेजसां हि वय: समीक्ष्यते।

न त्यजन्ति रुतं मञ्जु काकसम्पर्कत: पिका:।

न देवचरितं चरेत्

न निम्बवृक्षो मधुरत्वमेति।


सुभाषित


अतो गरीय: किं नु स्याद् अशर्म नरकेष्वपि।
यत् प्रियस्य प्रियं कर्तुम् अधमेन न शक्यते॥

What greater misfortune can there be even in hell than to (have) a worthless person who is (willfully) unable to do a good deed for a friend?


पठन -> मनन -> स्मरण -> आत्मसात


॥ एकश्लोकी ॥

किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकं
स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।
चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने
किं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ एकश्लोकी सम्पूर्णा ॥

Is it your light that shines in the day as the sun and as the bright
lamp in the night? Let it be. Which light shines when i close my eyes?
(in mental vision) Which light illumines in my intellctual perception?
You are that supreme light that illumines the awareness of `aham’ and
I am that light. In short `that thou art’ or `ahambrahmasmi.’
I am that by the light of which the world is illumined in the day and
the night also by the lamp, beause the Brahman is the source of all
light, agni or surya. He is the light through which the indriyas
function . When the eyes are closed, there is no perception, the
eyes implying perception through all indriyas, then the mind
functions with the help of the intellect , which in its turn
functions by the light of the atman, which is beyond body, mind and
intellect and that am I, the supreme reality, Brahman.

संस्कृत गोवीथि : : गव्य २३ (साहित्य विशेष)

Gavya23

स्वर्गे सतां शर्म परं न धर्मा
भ्रवन्तिं भूमाविह तच्च ते च । नैषधीयचरितम् – ६ – ९८ |

स्वर्गमें रहनेवालों को केवल सुख होता है , धर्मं नहीं | भारत भूमि में सुख है और धर्मं भी|


शब्द सिन्धु


अमंद (ama.nda) = not slow or dull, active, intelligent; sharp, strong, violent, not little
अमन्यत (amanyata) = believed
अमर्ष (amarshha) = (m) anger
अमल (amala) = without rubbish
अमलं (amalaM) = clean
अमलान् (amalaan.h) = pure
अमानित्वं (amaanitvaM) = humility
अमितविक्रमः (amitavikramaH) = and unlimited force
अमी (amii) = all those
अमुत्र (amutra) = in the next life
अमूढाः (amuuDhaaH) = unbewildered
अमूल्य (amuulya) = priceless, excellent
अमृत (amRita) = of ambrosia, potion to cause immortality
अमृतं (amRitaM) = veritable nectar
अमृतत्त्वाय (amRitattvaaya) = for liberation
अमृतबिन्दू (amRitabinduu) = a drop of nectar
अमृतभुजः (amRitabhujaH) = those who have tasted such nectar
अमृतस्य (amRitasya) = of the immortal
अमृतोद्भवं (amRitodbhavaM) = produced from the churning of the ocean
अमृतोपमं (amRitopamaM) = just like nectar
अमेध्यं (amedhyaM) = untouchable
अम्बन्ध (ambandha) = relation / connection
अम्बर (ambara) = aakaasha
अम्बरं (ambaraM) = sky, garment
अम्बा (ambaa) = mother
अम्बु (ambu) = water
अम्बुधि (ambudhi) = sea
अम्बुवेगाः (ambuvegaaH) = waves of the waters
अम्भस् (ambhas.h) = (n) water
अम्भसा (ambhasaa) = by the water
अम्भसि (ambhasi) = on the water
अम्भुरुहं (ambhuruhaM) = lotus
अम्ल (amla) = (m) sour
अयं (ayaM) = him (from idaM.h)
अयजन्त (ayajanta) = third person plur. imperfect aatmanepada of yaj, to worship
अयतिः (ayatiH) = the unsuccessful transcendentalist


पाठ


1 2 3 4


सुभाषित


सुवर्णपुष्पां पॄथिवीं चिन्वन्ति पुरूषास्त्रय: |
शूरश्र्च कॄतविद्यश्र्च यश्र्च जानाति सेवितुम् ||

Three kinds of people get the golden earth; Chivalrous, learned, and the ones who do service. (The Earth gives all its wealth to the three kinds of people.)


पठन/स्मरण


नैषधीयचरित, श्रीहर्ष द्वारा रचित संस्कृत महाकाव्य है। यह वृहत्त्रयी नाम से प्रसिद्ध तीन महाकव्यों में से एक है। महाभारत का नलोपाख्यान इस महाकाव्य का मूल आधार है।इस महाकाव्य का मूल आधार है “महाभारत” का “नलोपाख्यान”।

One fundamental that all Mahakavyas follow is : Their story base is from Itihas. They are dharma-centered.

Let us read first sarg’s 30 verses as a part of Sanskrit Learning.

प्रथमः सर्गः

निपीय यस्य क्षितिरक्षिणः कथाः
तथाद्रियन्ते न बुधाः सुधामपि ।
नला सितच्छत्रितकीर्तिमण्डलः
स राशिरासीन्महसां महोज्ज्वलः ॥1॥
रसैः कथा यस्य सुधावधीरणी
नलः स भूजानिरभूह्गुणाद्भुतः ।
सुवर्णदण्डैकसितातपत्रित
ज्वलत्प्रतापावलिकीर्तिमण्डलः ॥2॥
पवित्रमत्रातनुते जगद्युगे
स्मृता रसक्षालनयेव यत्कथा ।
कथं न सा मद्गिरमाविलामपि
स्वसेविनीमेव पवित्रयिष्यति ॥3॥
अधीतिबोधाचरणप्रचारणै
र्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कृतः स्वयं
न वेद्मि विद्यासु चतुर्दश स्वयम् ॥4॥
अमुष्य विद्या रसनाग्रनर्तकी
त्रयीव नीताङ्गगुणेन विस्तरम् ।
अगाहताष्टादशतां जिगीषया
नवद्वयद्वीपपृथग्जयश्रियाम् ॥5॥
दिगीशवृन्दांशविभूतिरीशिता
दिशां स कामप्रसरावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां
निजत्रिनेत्रावतरत्वबोधिकाम् ॥6॥
पदैश्चतुर्भिः सुकृते स्थिरीकृते
कृतेऽमुना के न तपः प्रपेदिरे ।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृश
न्दधावधर्मोऽपि कृशस्तपस्विताम् ॥7॥
यदस्य यात्रासु बलोद्धतं रजः
स्फुरत्प्रतापानलघूममञ्जिम ।
तदेव गत्वा पतितं सुधाम्बुधौ
दधाति पङ्कीभवदङ्कतां विधौ ॥8॥
स्फुरद्धनर्निस्वनतद्धनाशुग
प्रगल्भवृष्टिव्ययितस्य संगरे ।
निजस्य तेजः शिखिनः परश्शता
वितेनुरिङ्गालमिवायशः परे ॥9॥
अनल्पदग्धारिपुरानलोज्ज्वलैः
निजप्रतापैर्वलयं ज्वलद्भुवः ।
प्रदक्षिणीकृत्य जयाय सृष्ट्या
रराज नीराजनया स राजघः ॥10॥
निवारितास्तेन महीतलेऽखिले
निरीतिभावं गमितेऽतिवृष्टयः ।
न तत्यजुर्नूनमनन्यविश्रमाः
प्रतीपभूपालमृगीदृशां दृशः ॥11॥
सितांशुवर्णैर्वयति स्म तह्गुणैः
महासिवेम्नः सहकृत्वरी बहुम् ।
दिगङ्गनाङ्गावरणं रणाङ्गणे
यशः पटं तद्भटचातुरीतुरी ॥12॥
प्रतिपभूपैरिव किं ततो भिया
विरुद्धधर्मैरपि मेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्
विचारदृक्चारदृगप्यवर्तत ॥13॥
तदोजसस्तद्यशसः स्थिताविमौ
वृथेति चित्ते कुरुते यदा यदा ।
तनो ति भानोः परिवेषकैतवात्
तदा विधिः कुण्डलनां विधोरपि ॥14॥
अयं दरिद्रो भवितेति वैधसीं
विपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषां न चक्रेऽल्पितकल्पपादपः
प्रणीय दारिद्रदरिद्रतां नलः ॥15॥
विभज्य मेरुर्न यदर्थिसात्कृतो
न सिन्धुरुत्सर्गजलव्यययैर्मरुः ।
अमानि तत्तेन निजायशोयुगं
द्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥16॥
अजस्रमभ्यासमुपेयुषा समं
मुदैव देवः कविना बुधेन च ।
दधौ पटीयान्समयं नयन्नयं
दिनेश्वरश्रीरुदयं दिने दिने ॥17॥
अधोविधानात्कमलप्रवालयोः
शिरः सु दानादखिलक्षमाभुजाम् ।
पुरेदमूर्ध्व भवतीति वेधसा
पदं किमस्याङ्कितमूर्ध्वरेखया ॥18॥
जगज्जयं तेन च कोशमक्षयं
प्रणीतवान् शैशवशेषवानयम् ।
सखा रतीशस्य ऋतुर्यथा वनं
वपुस्तथालिङ्गदथास्य यौवनम् ॥19॥
अधारि पद्मेषु तदङ्घ्रिणा घृणा
क्व तच्छयच्छायलवोऽपि पल्लवे ।
तदास्यदास्येऽपि गतोऽधिकारितां
न शारदः पार्धिकशर्वरीश्वरः ॥20॥
किमस्य लोम्नां कपटेन कोटिभिः
विधिर्न लेखाभिरजीगणह्गुणान् ।
न रोमकूपौघमिषाज्जगत्कृता
कृताश्च किं दूषणशून्यबिन्दवः ॥21॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने
ध्रुवं गृहीतार्गलदीर्घपीनता ।
उरः श्रिया तत्र च गोपुरस्फुरत्
कपाटदुर्धर्षतिरः प्रसारिता ॥22॥
स्वकेलिलेशस्मितनिन्दितेन्दुनो
निजांशदृक्तर्जितपद्मसंपदः ।
अतद्द्वयीजित्वरसुन्दरान्तरे
न तन्मुखस्य प्रतिमा चराचरे ॥23॥
सरोरुहं तस्य दृशैव निर्जितं
जिताः स्मितेनैव विधोरपि श्रियः ।
कुतः परं भव्यमहो महीयसी
तदाननस्योपमितौ दरिद्रता ॥24॥
स्ववालभारस्य तदुत्तमाङ्गजैः
समं चमर्येव तुलाभिलाषिणः ।
अनागसे शंसति बालचापलं
पुनः पुनः पुच्छविलोलनच्छलात् ॥25॥
महीभृतस्तस्य च मन्मथश्रिया
निजस्य चित्तस्य च तं प्रतीच्छया ।
द्विधा नृपे तत्र जगत्त्रयीभुवां
नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥26॥
निमीलनभ्रंशजुषा दृशा भृशं
निपीय तं यस्त्रिदशीर्बिरर्जितः ।
अमूस्तमभ्यासभरं विवृण्वते
निमेषनिः स्वैरधुनापि लोचनैः ॥27॥
अदस्तदाकर्णि फलाढ्यजीवितं
दृशोर्द्वयं नस्तदवीक्षि चाफलम् ।
ति स्म चक्षुः श्रवसां प्रिया नले
स्तुवन्ति निन्दन्ति हृदातदात्मनः ॥28॥
विलोकयन्तीभिरजस्रभावना-
बलादमुं नेत्रनिमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने
न विघ्नलेशोऽपि निमेषनिर्मितिः ॥29॥
न का निशि स्वप्नगतं ददर्श
तं जगाद गोत्रस्खलिते च का न तम् ।
तदात्मताध्यातधवा रते च का
चकार वा न स्वमनोभवोद्भवम् ॥30॥

 

 

संस्कृत गोवीथि : : गव्य ११ (हनुमान विशेष)

Gavya11

 


शब्द सिन्धु


अघंमनः (aghaMmanaH) = (adj) evil-minded
अघं (aghaM) = grievous sins
अघायुः (aghaayuH) = whose life is full of sins
अङ्क (a.nka) = number
अङ्ग (a.nga) = a limb, or body part
अङ्गं (a.ngaM) = limb(s)
अङ्गानि (a.ngaani) = limbs
अङ्गुल (a.ngula) = a finger
अङ्गुष्ठ (a.ngushhTha) = the big toe
अङ्गुष्ठः (a.ngushhThaH) = (m) thumb
अचरं (acharaM) = and not moving
अचरस्य (acharasya) = and nonmoving
अचल (achala) = (adj) still, stationary
अचलं (achalaM) = unmoving
अचलः (achalaH) = immovable
अचलप्रतिष्ठं (achalapratishhThaM) = steadily situated
अचला (achalaa) = unflinching
अचलेन (achalena) = without its being deviated
अचक्षुस् (achakShus.h) = one without an eye
अचापलं (achaapalaM) = determination
अचिन्त्य (achintya) = inconceivable
अचिन्त्यं (achintyaM) = beyond contemplation
अचिन्त्यः (achintyaH) = inconceivable
अचिराद् (achiraad.h) = without delay/in no time
अचिराद्भव (achiraadbhava) = in no time from the cycle of birth\death
अचिरेण (achireNa) = very soon
अचेतसः (achetasaH) = without KRishhNa consciousness
अच्छेद्यः (achchhedyaH) = unbreakable
अच्युत (achyuta) = O infallible one
अच्युतम् (achyutam.h) = the who does not slip
अज (aja) = goat
अजं (ajaM) = unborn
अजः (ajaH) = unborn
अजगरः (ajagaraH) = (m) python
अजपा (ajapaa) = involuntary repetition (as with a mantra)
अजस्रं (ajasraM) = the unborn one
अजा (ajaa) = (f) goat
अजानं (ajaanaM) = do not understand
अजानत् (ajaanat.h) = knew
अजानता (ajaanataa) = without knowing
अजानन्तः (ajaanantaH) = without knowing
अञ्चलः (aJNchalaH) = (m) aanchal in Hindi
अञ्जन (aJNjana) = the name of the mother of Hanuman
अञ्जनेयासन (aJNjaneyaasana) = the splits
अञ्जलि (aJNjali) = (m) folded hands


पाठ


आत्मीयप्रकरणम्

पुस्तक : संस्कृतवाक्यप्रबोधः

तव ज्येष्टो बन्धुर्भगिनी च कास्ति ? तेरा बड़ा भाई और बहिन कौन है ?
देवदत्तस्सुशीला च । देवदत्त और सुशीला ।
भो बन्धो ! अहं पाठाय व्रजामि । हे भाई ! मैं पढने को जाता हूं ।
गच्छ प्रिय ! पूर्णां विद्यां कृत्वागन्तव्यम् । जा प्यारे ! पूरी विद्या करके आना ।
भवतः कन्याः अद्यश्वः किं पठन्ति ? आपकी बेटियां आजकल क्या पढ़ती हैं ?
वर्णोच्चारणशिक्षादिकं दर्शनशास्त्राणि चाधीत्येदानीं धर्मपाकशिल्पगणितविद्या अधीयते । वर्णोच्चारणशिक्षादिक तथा न्याय आदि शास्त्र पढ़कर अब धर्म, पाक, शिल्प और गणितविद्या पढ़ती हैं ।
भवज्ज्येष्ठया भगिन्या किं किमधीतमिदानीञ्च तया किं क्रियते ? आपकी बड़ी बहिन ने क्या-क्या पढ़ा है और अब वह क्या करती है ?
वर्णज्ञानमारभ्य वेदपर्यन्ताः सर्वा विद्या विदित्वेदानीं बालिकाः पाठयति । अक्षराभ्यास से लेके वेद तक सब पूरी विद्या पढ़के अब कन्याओं को पढ़ाया करती है ।
तया विवाहः कृतो न वा ? उसने विवाह किया वा नहीं ?
इदानीं तु न कृतः परन्तु वरं परीक्ष्य स्वयंवरं कर्तुमिच्छति । अभी तो नहीं किया, परन्तु वर की परीक्षा करके स्वयंवर करने की इच्छा करती है ।
यदा कश्चित् स्वतुल्यः पुरुषो मिलिष्यति तदा विवाहं करिष्यति । जब कोई अपने सदृश पुरुष मिलेगा तब विवाह करेगी ।
तव मित्रैरधीतं न वा ? तेरे मित्रों ने पढ़ा है वा नहीं ?
सर्व एव विद्वांसो वर्त्तन्ते यथाऽहं तथैव तेऽपि, समानस्वभावेषु मैत्र्यास्समभवात् । सब ही विद्वान हैं, जैसा मैं हूं वैसे वे भी हैं, क्योंकि तुल्य स्वभाववालों में मित्रता का सम्भव है ।
तव पितृव्यः किं करोति ? तेरा चाचा क्या करता है ?
राज्यव्यवस्थाम् । राज्य का कारवार ।
इमे किं तव मातुलादयः ? ये क्या तेरे मामा आदि हैं ?
बाढमयं मम मातुल इयं पितृष्वसेयं मातृष्वसेयं गुरुपत्‍न्ययं च गुरुः । ठीक यह मेरा मामा, यह बाप की बहिन भूआ, यह मता की बहिन मौसी, यह गुरु की स्त्री और यह गुरु है ।
इदानीमेते कस्मै प्रयोजनायैकत्र मिलिताः ? इस समय ये सब किसलिये मिलकर इक्ट्ठे हुए हैं ?
मया सत्कारायाऽऽहूताः सन्त आगताः । मैंने सत्कार के अर्थ बुलाये हैं सो ये सब आये हैं ।
इमे मे मम पितृश्वश्रूश्वसुरश्यालदयः सन्ति । ये सब मेरे पिता की सास-ससुर और साले आदि हैं ।
इमे मम मित्रस्य स्त्रीभगिनीदुहितृजामातरः सन्ति । ये मेरे मित्र की स्त्री, बहिन, लड़की और जमाई हैं ।
इमौ मम पितुः श्यालदौहित्रौ स्तः । ये मेरे मामा और भानजे हैं ।

 

1 2


सुभाषित – हनुमान


तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् |
प्रदेहि सुभगे हारन् यस्य तुष्टासि भामिनि || ६-१२८-८१
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः |
पौरुषन् विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा || ६-१२८-८२

Looking at her, Rama who was acquainted with the gesture of another spoke to Seetha as follows: “Dear Seetha! Give the pearl-necklace to a person, with whom you are pleased and in whom the following viz. sharpness, firmness, renown, dexterity, competence, modesty, prudence, virility, prowess and intelligence are ever present.”

हनुमान = प्राण that has following present: तेज,धृति,यश,चतुरता,शक्ति,विनय,निति,पुरुषार्थ,पराक्रम,उत्तम बुध्धि


पठन/मनन/स्मरण – हनुमान


॥ श्रीहनुमद्ध्यानम् मार्कण्डेयपुराणतः ॥

मरकतमणिवर्णं दिव्यसौन्दर्यदेहं
नखरदशनशस्त्रैर्वज्रतुल्यैः समेतम् ।
तडिदमलकिरीटं मूर्ध्नि रोमाङ्कितं च
हरितकुसुमभासं नेत्रयुग्मं सुफुल्लम् ॥ १॥

अनिशमतुलभक्त्या रामदेवस्य योग्या-
न्निखिलगुरुचरित्राण्यास्यपद्माद्वदन्तम् ।
स्फटिकमणिनिकाशे कुण्डले धारयन्तं
गजकर इव बाहुं रामसेवार्थजातम् ॥ २॥

अशनिसमद्रढिम्नं दीर्घवक्षःस्थलं च
नवकमलसुपादं मर्दयन्तं रिपूंश्च ।
हरिदयितवरिष्ठं प्राणसूनुं बलाढ्यं
निखिलगुणसमेतं चिन्तये वानरेशम् ॥ ३॥

इति मार्कण्डेयपुराणतः श्रीहनुमद्ध्यानम् ।

संस्कृत गोवीथि : : गव्य ४२ (पुराण विशेष) :: राजनीतिज्ञ राम

Gavya42रामका राज्यतंत्र – अग्निपुराणम्/अध्यायः २३९

one of the fundamental thing missing in Mr. Narendra Modi is that he cannot even harm those who are harming him!!

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।

He must punish those who deserve the punishment.

I wish he learns from Bhagvaan Raam!

This chapter of Agni Purana is a self-test for each new age politician in democracy. Citizens must demand these qualities from a leader.

Some of the notable qualities.

Good descent, good conduct, young, compassion, quick action, consistency, being fortunate (?), truthfullness, service to the aged, intellect, gratefulness,valor, faithfulness, foresightedness, zeal, purity,generosity, modesty!


शब्द सिन्धु


स्वयंप्रकाशित (svayaMprakaashita) = self-illumined like stars(Sun)
स्वया (svayaa) = by their own
स्वर (svara) = sound
स्वरन्धरा (svarandharaa) = (f) harmonium
स्वरूप (svaruupa) = one’s true nature
स्वरूपं (svaruupaM) = form
स्वर्ग (svarga) = heaven
स्वर्गं (svargaM) = to heaven
स्वर्गतिं (svargatiM) = passage to heaven
स्वर्गपराः (svargaparaaH) = aiming to achieve heavenly planets
स्वर्गलोकं (svargalokaM) = heaven
स्वर्गात् (svargaat.h) = (Masc.abl.S)heaven
स्वर्गे (svarge) = in heaven
स्वलीलया (svaliilayaa) = sva+lIlaya, through one’s play-like action
स्वल्प (svalpa) = little
स्वल्पं (svalpaM) = a little
स्वल्पतन्त्रं (svalpatantraM) = (n) oligarchy
स्वसंवेदन (svasa.nvedana) = the understanding of oneself
स्वस्ति (svasti) = all peace
स्वस्तिकासन (svastikaasana) = the prosperous posture
स्वस्तिनस्तार्क्ष्यो (svastinastaarkShyo) = let tArkshya or Garuda do good to us
स्वस्तिर्नो (svastirno) = good to us
स्वस्थः (svasthaH) = being situated in himself
स्वस्थैः (svasthaiH) = by healthy persons (ie , healthy in minds , their minds being well
स्वस्यः (svasyaH) = by his own
स्वहस्तः (svahastaH) = Signature
स्वक्षेत्र (svakShetra) = Planet in its own sign
स्वां (svaaM) = of Myself
स्वागतकक्षः (svaagatakaxaH) = (m) drawing room
स्वाति (svaati) = The fifteenth nakshatra. Can be spelt Svati
स्वाद (svaada) = (m) taste
स्वादते (svaadate) = (1 ap) to taste
स्वादु (svaadu) = sweet
स्वाधीन (svaadhiina) = dependent on the self
स्वाध्याय (svaadhyaaya) = self-study
स्वाध्यायः (svaadhyaayaH) = study of Vedic literature
स्वाध्यायान्मा (svaadhyaayaanmaa) = sva + adhyAyAt.h + mA:fromone’s learning + don’t
स्वाप (svaapa) = (m) sleep
स्वामि (svaami) = master
स्वामी (svaamii) = the master
स्वायत्त (svaayatta) = dependent only one onself
स्वाराज्य (svaaraajya) = `self-rule’, i.e., not being subordinate someone else
स्वार्थ (svaartha) = one’s own ends
स्वार्थी (svaarthii) = adj. self-centered
स्वीकरोति (sviikaroti) = to accept
स्वेन (svena) = by your own
स्वैरतन्त्रं (svairatantraM) = (n) autocracy
स्व्यं (svyaM) = of one’s own
स्व्रांजली (svraa.njalii) = Musical notes
ह (ha) = the sun
हंस (ha.nsa) = (masc) swan, goose
हंसः (ha.nsaH) = (m) swan
हंसासन (ha.nsaasana) = the swan posture
हट (haTa) = force, against one’s will
हटयोग (haTayoga) = union with the supreme via discipline
हतं (hataM) = killed
हतः (hataH) = being killed
हतान् (hataan.h) = already killed
हतानि (hataani) = (past.part.)having been killed
हतैः (hataiH) = having been killed
हत्या (hatyaa) = (f) assassination
हत्वा (hatvaa) = by killing
हनन (hanana) = killing
हनिष्ये (hanishhye) = I shall kill
हनुमत्प्रभुः (hanumatprabhuH) = the lord of Hanuman
हनुमान (hanumaana) = a monkey chief, son of Anjana and Vayu
हनुमानासन (hanumaanaasana) = the splits
हन्त (hanta) = O ! , Alas !
हन्तारं (hantaaraM) = the killer
हन्ति (hanti) = kills
हन्तुं (hantuM) = to kill
हन्तृ (hantRi) = desirous of killing
हन्यते (hanyate) = is killed
हन्यमाने (hanyamaane) = being killed
हन्युः (hanyuH) = may kill
हय (haya) = horse
हयैः (hayaiH) = horses
हर् (har.h) = to steal
हर (hara) = shankara
हरः (haraH) = shiva
हरति (harati) = (1pp) to take (away)


पाठ


1 2


सुभाषित


धारणाद्धर्ममित्याहु: धर्मो धारयते प्रजा: |
यस्याद्धारणसंयुक्तं स धर्म इति निश्चय: ||

The word “dharma” is derived from verb “dhaaraNa”. it is “dharma” which holds society together. Hence if something is able to hold people together, no doubt it is dharma.


पठन -> मनन -> स्मरण -> आत्मसात


रामका राज्यतंत्र – अग्निपुराणम्/अध्यायः २३९

one of the fundamental thing missing in Mr. Narendra Modi is that he cannot even harm those who are harming him!!

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।

He must punish those who deserve the punishment.

I wish he learns from Bhagvaan Raam!

This chapter of Agni Purana is a self-test for each new age politician in democracy. Citizens must demand these qualities from a leader.


राम उवाच
स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृतं ।
परस्परोपकारीदं सप्ताङ्गं राकज्यमुच्य्ते ।। २३९.१ ।।

राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत् सदा ।
कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता ।। २३९.२ ।।

अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ।
दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता ।। २३९.३ ।।

शक्यसामन्तता चैव तथा च दृढभक्तिता२ ।
दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता ।। २३९.४ ।।

विनीतत्वं धार्मिकता साधोश्च नृपतेर्गुणाः ।
प्रख्यातवंशमक्रूरं लोकसङ्‌ग्राहिणं शुचिं ।। २३९.५ ।।

कुर्व्वीतात्महिताकाङ्क्षी परिचारं महीपतिः ।
वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ।। २३९.६ ।।

नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः ।
पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया ।। २३९.७ ।।

परवृत्तान्ववेक्षी च सन्धिविग्रहतत्तववित् ।
गूढमन्त्रप्रचारज्ञो देशकालविभागवित् ।। २३९.८ ।।

आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् ।
क्रोधलोभभयद्रोहदम्भचापलवर्ज्जितः ।। २३९.९ ।।

परोपतापपैशून्यमात्सर्येर्षानृतातिगः ।
वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः ।। २३९.१० ।।

गुणानुरागस्थितिमानात्मसम्पद्‌गुणा स्मृताः ।
सुलीनाः शुचयः शूराः श्रुतवन्तोऽनुरागिणः ।। २३९.११ ।।

दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्म्महीपतेः ।
सुविग्रहो जानपदः कुलशीलकलान्वितः ।। २३९.१२ ।।

वाग्मी प्रगल्भश्चक्षुष्मानुत्साही प्रतिपत्तिमान् ।
स्तम्भ्चापलहीनश्च मैत्रः क्लेशसहः शुचिः ।। २३९.१३ ।।

सत्यसत्त्वधृतिस्थैर्य्यप्रबावारोग्यसंयुतः ।
कृतशिल्पश्च७ दक्षश्च प्रज्ञावान् धारणान्वितः ।। २३९.१४ ।।

दृढभक्तिरकर्त्ता च वैराणां सचिवो भवेत् ।
स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश्चयः ।। २३९.१५

दृढता मन्त्रगुप्तिश्च मन्त्रिसम्पत् प्रकीर्त्तिता ।
त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः ।। २३९.१६ ।।

अथर्व्ववेदविहितं कुर्य्याच्छान्तिकपौष्टिकं ।
साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् ।। २३९.१७ ।।

चक्षुष्मत्तां च शिल्पञ्च परीक्षएत गुणद्वयं ।
स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं ।। २३९.१८ ।।

परिकर्म्म्सु दक्षञ्च विज्ञानं धारयिष्णुतां ।
गुणत्रयं परीक्षेत प्रागल्भ्यं प्रीतितां तथा ।। २३९.१९ ।।

कथायोगेषु बुद्ध्येत वाग्‌मित्वं सत्यवादितां ।
उत्साहं च प्रभावं च तथा क्लेशसहिष्णुतां ।। २३९.२० ।।

धृतिं चैवानुरागं च स्थैर्य्यञ्चापदि लक्ष्येत् ।
भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः ।। २३९.२१ ।।

संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च ।
अस्तव्धतामचापल्यं वैराणां चाप्यकार्त्तनं ।। २३९.२२ ।।

प्रत्यक्षतो विजानीयाद भद्रतां क्षुद्रतामपि ।
फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।। २३९.२३ ।।

शस्याकरवती पुण्या खनिद्रव्यसमन्विता ।
गोहिता भूरिसलिला पुन्यैर्जनपदैर्युता ।। २३९.२४ ।।

रम्या सकुञ्जरबला वारिस्थलपथान्विता ।
अदेवमातृका चेति शस्यते भूरिभूतये ।। २३९.२५ ।।

शूद्रकारुवणिक्‌प्रायो महारम्भः कृषीबलः ।
सानुरागो रिपुद्वेषी पीड़ासहकरः पृथुः ।। २३९.२६ ।।

नानादेश्यैः समाकीर्णो धार्म्मिकः पशुमान् बली ।
ईदृक्‌जनपदः शस्तोऽमूर्खव्यसनिनायकः।। २३९.२७ ।।

पृथुसीमं महाखातमुच्चप्राकारतोरणं ।
पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ।। २३९.२८ ।।

जलवद्धान्यधनवद्‌दुर्गं कालसहं महत् ।
औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट् ।। २३९.२९ ।।

ईप्सितद्रव्यसम्पूर्णः पितृपैताम्होचितः ।
धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये ।। २३९.३० ।।

पितृपैतामहो वश्यः संहतो दत्तवेतनः ।
विख्यातपौरुषो जन्यः कुशलः शकुनैर्वृतः ।। २३९.३१ ।।

नानाप्रहरणोपेतो नानायुद्धविशारदः ।
नानायोधसमाकीर्णो नीराजितहयद्विपः ।। २३९.३२ ।।

प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः ।
अद्वैधक्षत्रियपयो दण्डो दण्डवतां मतः ।। २३९.३३ ।।

योगविज्ञानसत्त्वाढ्यं महापक्षं प्रियम्बदं ।
आयतिक्षममद्वैधं मित्रं कुर्वीत सत्कुल ।। २३९.३४ ।।

दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा ।
वाक्‌ सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः ।। २३९.३५ ।।

धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं ।
औरसं तत्र सन्नद्धं१६ तथा वंशक्रमागतं ।। २३९.३६ ।।

रक्षइतं व्ससनेभ्यश्च मित्रं ज्ञेयं चतुर्विधं ।
मित्रे गुणाः सत्यताद्याः समानसुखदुःखता ।। २३९.३७ ।।

वक्ष्येऽनुजीविनां वृत्तं सेवी सेवेत भूपतिं ।
दक्षता भद्रता दार्ढ्य क्षान्तिः क्लेशसहिष्णुता ।। २३९.३८ ।।

सन्तोषः शीलभुत्साहो मण्डयत्यनुजीविनं ।
यथाकालमुपासीत राजानं सेवको नयात् ।। २३९.३९ ।।

परस्थानगमं क्रौर्य्यमौद्धत्यं मत्सरन्त्यजेत् ।
विगृह्य कथनं भृत्यो न कुर्य्याज् ज्यायसा सह ।। २३९.४० ।।

गुह्यं मर्म्म च मन्त्रञ्च न च भर्त्तुः प्रकाशयेत् ।
रक्ताद् वृत्तिं समीहेत् विरक्तं सन्त्यजेन्नृपं ।। २३९.४१ ।।

आजीव्यः सर्व्वसत्त्वानां राजा पर्जन्यवद्भवेत् ।
आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च ।। २३९.४२ ।।

कुर्य्यादुद्योगसम्पन्नानध्यक्षआन् सर्वकर्म्मसु ।
कृषिर्व्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ।। २३९.४३ ।।

खन्याकरबलादानं शुन्यानां च निवेशनं ।
अष्टवर्गमिमं राजा साधुवृत्तोऽनुपालयेत् ।। २३९.४४ ।।

आमुक्तिकेभ्यश्चौरेभ्यः पौरेब्यो राजवल्लभात् ।
पृथिवीपतिलोभाच्च चप्रजानां पञ्चधा भयं ।। २३९.४५ ।।

अवेक्ष्यैतद्भ्यं काले आददीत करं नृपः ।
अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च रक्षयेत् ।। २३९.४६ ।।

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।
स्त्रियः पुत्रांश्च शत्रुभ्यो विश्वसेन्न कदाचन ।। २३९.४७ ।।

इत्यादिमहापुराणे आग्नेये राजधर्म्मो नाम ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ।।

Popular Posts

My Favorites

Mighty Guru and Mother : Need of the hour

Where are Ramdas the mighty Guru and Jijabai the mighty maa! We need you back! We pray that you mold one more Shivaji for...

Deodorant :The Aroma Madness