SHARE
Sri Stuti
Sri Stuti

श्रीस्तुती is one of the many stotras of Sri Vedant Desika, also known as Venkatanatha (1268 AD – 1369 AD). He is perhaps the greatest of the Acaryas among the followers of the Visishtaavaita school of philosophy by the wealth of qualities, intellect and accomplishments.

He was a true “Sarva-tantra-svatantra” (Master of All Arts and Sciences).

Not only Sanskrit, he was equally great scholar of Tamil.

His Contribution: 9 works on Vedanta; 6 on logic and metaphysics; 34 Rahsyas; 5 Kavyas; 1 drama; 18 poems in Tamil; 29 Stotras; 3 on rituals; 7 on diverse subjects like Geography and sculpture. [1]

Sri Stuti is one of the 29 Stotras.

It is believed that reading and studying Śrī Stuti can bestow many kinds of riches to devotees – both spiritual and material. It is also filled with profound philosophical and devotional meaning.

While there have been several texts known as Śrī Stuti, this is the one handed down through Swami Vedanta Deśikan.

In the First Book – Śikṣā vallī section of Taittirīya Upanishad (chapter 4), there is a mantram passage known as “Lakśmyādhi Prārṭanā”:

आवहन्ती वितन्वाना ।
कुर्वाणाऽचीरमात्मनः । वासाँ सि मम गावश्च ।
अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
लोमशां पशुभिः सह स्वाहा ।

he brings and increases ever my clothes and cattle, food and drink, and does these quickly and for all time – therefore may Thou bring that Śrī, the goddess of fortune, to me along with the woolly (sheep) and cattle. Svāhā!

It is ‘Sri’ who blesses!

This is the prayer of Brahmachari engaged in the acquisition of knowledge Vedic wisdom) at the feet of a Sadāchāra and ready to enter Gṛihastha Āśrama.

In this prayer of “Śriyam āvaha” to Śrī Devi, the Brahmachari prays for the acquisition of the wealth in the form of the 3 Vedas. Śriyam (the wealth) is defined as “thrayī lakśaṇam”. This type of wealth in the form of the three Vedas is considered as “the immortal wealth of the virtuous.

Śrī Stuti of Swāmi Deśikan has 25 beautiful and powerful Ślokas that on recitation confers Sarva MangaLams (Auspicious Blessings) to the reciter.
The Kāmya Siddhi from reciting Individual Ślokas of  Śrī Stuti:
Each Of the 25 Ślokas have their own power to grant specific wishes.

In next few notes, we will revere Maa Lakshmi! May she bless us all!

In this note, we will focus on first 3 verses, which are invocation to Maa Lakshmi to bless the poet with power to praise her.

First verse is for the rise of all Auspiciousness

Second verse is for gaining control over speech

Third is for the desires’ fulfillment.

 

मानातीत प्रथित विभवां मङ्गलं मङ्गलानां
वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविक महिम प्रार्थिनीनां प्रजानां
श्रेयो मूर्ति श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ १ ॥

आविर्भावः कलश जलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा ।
भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा
स्तोक प्रज्ञैरनवधि गुणा स्तूयसे सा कथं त्वम् ॥ २ ॥

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितर गतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ ३ ॥

Sri! You are the auspicious of the auspicious and adorn the throne-like chest of the conqueror of Madhu with you lustre! Your greatness transcends measure and is well-renowned. You are the good incarnate of all the subjects that pray for a greatness cognizable by preception and scriptures. I seek refuge in You, destitute as I am!

Devi! You rose from the Milky Ocean and later from the Hall of scriptures; the cluster of lotuses and the broad check of Vishnu are your halls of residence. The Entire universe coupled with the Divine Cosmic Space is Your great wealth! You are great in every way and endowed with endless qualities; and how can the shallow minded like me praise you?

If the bodied men praise you, they immediately become praiseworthy in turn. When I, helpless, wish to sing your praise, my task becomes an accomplished fact already and I shall also be extolled by all the world. Tell me, who is there that will not benefited even by a wish to serve at your feet?

 

|| श्री स्तुती  ||

मानातीत प्रथित विभवां मङ्गलं मङ्गलानां
वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविक महिम प्रार्थिनीनां प्रजानां
श्रेयो मूर्ति श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ १ ॥

आविर्भावः कलश जलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा ।
भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा
स्तोक प्रज्ञैरनवधि गुणा स्तूयसे सा कथं त्वम् ॥ २ ॥

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितर गतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ ३ ॥

यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
जन्म स्थेम प्रलय रचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥ ४ ॥

निष्प्रत्यूह प्रणय घटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्य लक्ष्यम् ।
शेषश्चित्तं विमल मनसां मौलयश्च श्रुतीनां
सम्पद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥ ५ ॥

उद्देश्यत्वं जननि भजतोरुज्झितोपाधि गन्धं
प्रत्यग्रूपे हविषि युवयोरेक शेषित्व योगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥

पश्यन्तीषु श्रुतिषु परितः सूरि बृन्देन सार्धं
मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् ।
विश्वाधीश प्रणयिनि सदा विभ्रम द्यूत वृत्तौ
ब्रह्मेशाद्या दधति युवयोरक्ष शार प्रचारम् ॥ ७ ॥

अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधि तनया विष्णु पत्नीन्दिरेति ।
यन्नामानि श्रुति परिपणान्येवमावर्तयन्तो
नावर्तन्ते दुरित पवन प्रेरिते जन्म चक्रे ॥ ८ ॥

त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किं तैरन्तः कलह मलिनैः किञ्चिदुत्तीर्य मग्नैः ।
त्वत्सम्प्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दम्पती दैवतं नः ॥ ९ ॥

आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य विष्णोः
आचख्युस्त्वां प्रिय सहचरिमैकमत्योपपन्नाम् ।
प्रादुर्भावैरपि सम तनुः प्राध्वमन्वीयसे त्वं
दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥ १० ॥

धत्ते शोभां हरि मरकते तावकी मूर्तिराद्या
तन्वी तुङ्ग स्तनभर नता तप्त जाम्बूनदाभा ।
यस्यां गच्छन्त्युदय विलयैर्नित्यमानन्द सिन्धौ
इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥ ११ ॥

आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद् भ्रू भङ्गात् कुसुम धनुषः किङ्करो मेरु धन्वा ।
यस्यां नित्यं नयन शतकैरेक लक्ष्यो महेन्द्रः
पद्मे तासां परिणतिरसौ भाव लेशैस्त्वदीयैः ॥ १२ ॥

अग्रे भर्तुः सरसिज मये भद्र पीठे निषण्णाम्
अम्भो राशेरधिगत सुधा सम्प्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगित भुवनैः पुष्कलावर्तकाद्यैः
कॢप्तारम्भाः कनक कलशैरभ्यषिञ्चन् गजेन्द्राः ॥ १३ ॥

आलोक्य त्वाममृत सहजे विष्णु वक्षःस्थलस्थां
शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः
सर्वाकार स्थिर समुदयां सम्पदं निर्विशन्ति ॥ १४ ॥

आर्त त्राण व्रतिभिरमृतासार नीलाम्बुवाहैः
अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वते सम्पदोघाः ॥ १५ ॥

योगारम्भ त्वरित मनसो युष्मदैकान्त्य युक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।
तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥

श्रेयस्कामाः कमलनिलये चित्रमाम्नाय वाचां
चूडापीडं तव पद युगं चेतसा धारयन्तः ।
छत्र च्छाया सुभग शिरसश्चामर स्मेर पार्श्वाः
श्लाघाशब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥

ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
दूरीकर्तुं दुरित निवहं त्यक्तुमाद्यामविद्याम् ।
अम्ब स्तम्बावधिक जनन ग्राम सीमान्त रेखाम्
आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥ १८ ॥

जाताकाङ्क्षा जननि युवयोरेक सेवाधिकारे
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते
वेलाभङ्गः प्रशमन फलं वैदिकं धर्मसेतुम् ॥ १९ ॥

सेवे देवि त्रिदश महिला मौलि मालार्चितं ते
सिद्धि क्षेत्रं शमित विपदां सम्पदां पाद पद्मम् ।
यस्मिन्नीषन्नमित शिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २० ॥

सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः
अम्ब स्निग्धैरमृत लहरी लब्ध सब्रह्यचर्यईः ।
धर्मे ताप त्र य विरचिते गाढ तप्तं क्षणं माम्
आकिञ्चन्य ग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥ २१ ॥

सम्पद्यन्ते भव भय तमी भानवस्त्वत्प्रसादात्
भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।
याचे किं त्वामहमिह यतः शीतलोदार शीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥

माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः ।
दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं
किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥ २३ ॥

कल्याणानामविकल निधिः काऽपि कारुण्य सीमा
नित्यामोदा निगम वचसां मौलि मन्दार माला ।
सम्पद्दिव्या मधु विजयिनः सन्निधत्तां सदा मे
सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥ २४ ॥

उपचित गुरु भक्तेरुत्थितं वेङ्कटेशात्
कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् ।
सरसिज निलयायाः स्तोत्रमेतत् पठन्तः
सकल कुशल सीमाः सार्वभौमा भवन्ति ॥ २५ ॥

 

[1] ‘Sri Desika – His life and works’ by  Setlur Sri Narasimhacharya

LEAVE A REPLY