SHARE

ब्रह्म संहिता

Gavya45

The Brahma Saṁhitā is a Sanskrit Pañcarātra text, composed of verses of prayer spoken by Brahma glorifying the supreme Lord Kṛṣṇa or Govinda at the beginning of creation. It is revered within Gauḍiya Vaiṣṇavism, whose founder, Caitanya Mahāprabhu (1486–1534),, re-discovered a part of the work, the 62 verses of Chapter 5, at the Adikeshav Temple in Thiruvattar, Tamil Nadu, South India in the 16th Century which had previously been lost for a few centuries.

(१)

ईश्वरः परमः कृष्णःसच्चिदानन्दविग्रहः

अनादिरादिर्गोविन्दःसर्वकारणकारणम्

 

(२)

त्रय्या प्रबुद्धोऽथ विधिर्

वीज्ञाततत्त्वसागरः

तुष्टाव वेदसारेण

स्तोत्रेणानेन केशवम्

 

(३)

चिन्तामणिप्रकरसद्मसु कल्पवृक्ष

लक्षावृतेषु सुरभिरभिपालयन्तम्

लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(४)

वेणुं क्वणन्तम् अरविन्ददलायताक्षम्

बर्हावतंसमसिताम्बुदसुन्दराङ्गम्

कन्दर्पकोटिकमनीयविशेषशोभं

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(५)

आलोलचन्द्रकलसद्वनमाल्यवंशी

रत्नाङ्गदं प्रणयकेलिकलाविलासम्

श्यामं त्रिभङ्गललितं नियतप्रकाशं

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(६)

अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति

पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति

आनन्दचिन्मयसदुज्ज्वलविग्रहस्य

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(७)

अद्वैतम् अच्युतम् अनादिम् अनन्तरूपम्

आद्यं पुराणपुरुषं नवयौवनं च

वेदेषु दुर्लभमदुर्लभम् आत्मभक्तौ

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(८)

पन्थास् तु कोटिशतवत्सरसम्प्रगम्यो

वायोरथापि मनसो मुनिपुङ्गवानाम्

सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(९)

एकोऽप्यसौ रचयितुं जगदण्डकोटिं

यच्छक्तिरस्ति जगदण्डचया यदन्तः

अण्डान्तरस्थपरमाणुचयान्तरस्थम्

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१०)

यद्भावभावितधियो मनुजास् तथैव

सम्प्राप्य रूपमहिमासनयानभूषाः

सूक्तैर्यमेव निगमप्रथितैः स्तुवन्ति

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(११)

आनन्दचिन्मयरसप्रतिभाविताभिस्

ताभिर्य एव निजरूपतया कलाभिः

गोलोक एव निवसत्यखिलात्मभूतो

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१२)

प्रेमाञ्जनच्छुरितभक्तिविलोचनेन

सन्तः सदैव हृदयेषु विलोकयन्ति

यं श्यामसुन्दरम् अचिन्त्यगुणस्वरूपं

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१३)

रामादिमूर्तिषु कलानियमेन तिष्ठन्

नानावतारमकरोद्भुवनेषु किन्तु

कृष्णः स्वयं समभवत् परमः पुमान् यो

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१४)

यस्य प्रभा प्रभवतो जगदण्डकोटि

कोटिष्वशेषवसुधादि विभूतिभिन्नम्

तद् ब्रह्म निष्कलमनन्तमशेषभूतं

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१५)

माया हि यस्य जगदण्डशतानि सूते

त्रैगुण्यतद्विषयवेदवितायमाना

सत्त्वावलम्बिपरसत्त्वं विशुद्धसत्त्वम्

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१६)

आनन्दचिन्मयरसात्मतया मनःसु

यः प्राणिनां प्रतिफलन् स्मरताम् उपेत्य

लीलायितेन भुवनानि जयत्यजस्रम्

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१७)

गोलोकनाम्नि निजधाम्नि तले च तस्य

देवि महेशहरिधामसु तेषु तेषु

ते ते प्रभावनिचया विहिताश् च येन

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१८)

सृष्टिस्थितिप्रलयसाधनशक्तिरेका

छायेव यस्य भुवनानि बिभर्ति दुर्गा

इच्छानुरूपमपि यस्य च चेष्टते सा

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(१९)

क्षीरं यथा दधि विकारविशेषयोगात्

सञ्जायते न हि ततः पृथग् अस्ति हेतोः

यः शम्भुतामपि तथा समुपैति कार्याद्

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२०)

दीपार्चिरेव हि दशान्तरम् अभ्युपेत्य

दीपायते विवृतहेतुसमानधर्मा

यस्तादृगेव हि च विष्णुतया विभाति

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२१)

यः कारणार्णवजले भजति स्म योग

निद्रामनन्तजगदण्डसरोमकूपः

आधारशक्तिम् अवलम्ब्य परां स्वमूर्तिं

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२२)

यस्यैकनिश्वसितकालमथावलम्ब्य

जीवन्ति लोमविलजा जगदण्डनाथाः

विष्णुर्महान् स इह यस्य कलाविशेषो

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२३)

भास्वान् यथाश्मशकलेषु निजेषु तेजः

स्वीयम् कियत् प्रकटयत्यपि तद्वदत्र

ब्रह्मा य एष जगदण्डविधानकर्ता

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२४)

यत्पादपल्लवयुगं विनिधाय कुम्भ

द्वन्द्वे प्रणामसमये स गणाधिराजः

विघ्नान् विहन्तुम् अलमस्य जगत्त्रयस्य

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२५)

अग्निर् महि गगनमम्बु मरुद्दिशश्च

कालस् तथात्ममनसीति जगत्त्रयाणि

यस्माद्भवन्ति विभवन्ति विशन्ति यं च

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२६)

यच्चक्षुरेष सविता सकलग्रहाणां

राजा समस्तसुरमूर्तिरशेषतेजाः

यस्याज्ञया भ्रमति सम्भृतकालचक्रो

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२७)

धर्मोऽथ पापनिचयः श्रुतयस्तपांसि

ब्रह्मादिकीटपतगावधयश्च जीवाः

यद्दत्तमात्रविभवप्रकटप्रभावा

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२८)

यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म

बन्धानुरूपफलभाजनम् आतनोति

कर्माणि निर्दहति किन्तु च भक्तिभाजां

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(२९)

यं क्रोधकामसहजप्रणयादिभीति

वात्सल्यमोहगुरुगौरवसेव्यभावैः

सञ्चिन्त्य तस्य सदृशीं तनुमापुरेते

गोविन्दमादिपुरुषंतम् अहं भजामि

 

(३०)

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो

द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम्

कथा गानं नाट्यं गमनमपि वंशी प्रियसखि

चिदानन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च

 

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्

निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः

भजे श्वेतद्वीपं तम् अहम् इह गोलोकमिति यं

विदन्तस् ते सन्तः क्षितिविरलचाराः कतिपये

 

(३१)

अथोवाच महाविष्णुर्

भगवन्तं प्रजापतिम्

ब्रह्मन् महत्त्वविज्ञाने

प्रजासर्गे च चेन् मतिः

पञ्चश्लोकीमिमां विद्यां

वत्स दत्तां निबोध मे

 

(३२)

प्रबुद्धे ज्ञानभक्तिभ्याम्

आत्मन्यानन्दचिन्मयी

उदेत्यनुत्तमा भक्तिर्

भगवत्प्रेमलक्षणा

 

(३३)

प्रमाणैस्तत्सदाचारैस्

तदभ्यासैर्निरन्तरम्

बोधयन् आत्मनात्मानं

भक्तिमप्युत्तमां लभेत्

 

(३४)

यस्याः श्रेयस्करं नास्ति

यया निर्वृतिमाप्नुयात्

या साधयति माम् एव

भक्तिं तामेव साधयेत्

 

(३५)

धर्मान् अन्यान् परित्यज्य

माम् एकं भज विश्वसन्

यादृशी यादृशी श्रद्धा

सिद्धिर्भवति तादृशी

 

कुर्वन्निरन्तरं कर्म

लोकोऽयमनुवर्तते

तेनैव कर्मणा ध्यायन्

मां परां भक्तिमिच्छति

 

(३६)

अहं हि विश्वस्य चराचरस्य

बीजं प्रधानं प्रकृतिः पुमांश् च

मयाहितं तेज इदं बिभर्षि

विधे विधेहि त्वमथो जगन्ति

 

 

 

LEAVE A REPLY