SHARE

देव दुर्लभ श्रीमद्भागवत

Gavya45

श्रीमद्भागवत के माहात्म्य में कहा गया है- जब श्री शुकदेव जी परीक्षित को कथा सुनाने लगे तब देवता लोग आये। देवतओं ने कहा- ‘‘आप हम से अमृत ले लीजिये, राजा परीक्षित को पिला दीजिये। राजा परीक्षित अमर हो जायेंगे। यह कथासुधा हम को पिला दीजिये।’’ श्री शुकदेव जी ने कहा- ‘‘कहाँ कथा कहाँ सुधा? कहाँ मणि कहाँ काँच? मणि का मुकाबला काँच कर सकता है क्या? कथा का मुकाबला सुधा कर सकती है क्या?’’ अतः अनधिकारी समझकर देवताओं को कथामृत नहीं प्रदान किया, सुधा को ठुकरा दिया। ऐसा है सुरदुर्लभ यह श्रीमद्भागवत।

– Karapatri ji

चातुर्मास is a good time to seat with Bhagvat.

Read it in sanskrit here: http://sanskritdocuments.org/doc_purana/bhagpur.html?lang=hi

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ।। १-१-१ ।।

श्रीधर-स्वामि-टीका
अथ नानापुराणशास्त्रप्रबन्धैश्चित्तप्रसत्तिमलभमानस्तत्र तत्रापरितुष्यन्नारदोपदेशतः श्रीमद्भगवद्गुणानुवर्णनप्रधानं भागवतशास्त्रं प्रारिप्सुर्वेदव्यासस्तत्प्रत्यूहनिवृत्त्यादिसिद्धये तत्प्रतिपाद्यपरदेवतानुस्मरणलक्षणं मङ्गलमाचरति – जन्माद्यस्येति । परं परमेश्वरं धीमहि । ध्यायतेर्लिङि छान्दसम् । ध्यायेमेत्यर्थः । बहुवचनं शिष्याभिप्रायम् । तमेव स्वरूपतटस्थलक्षणाभ्यामुपलक्षयति । तत्र स्वरूपलक्षणं सत्यमिति । सत्यत्वे हेतुः – यत्र यस्मिन्ब्रह्मणि त्रयाणां मायागुणानां तमोरजःसत्त्वानां सर्गो भूतेन्द्रियदेवतारूपोऽमृषा सत्यः । यत्सत्यतया मिथ्यासर्गोऽपि सत्यवत्प्रतीयते तं परं सत्यमित्यर्थः अत्र दृष्टान्तः – तेजोवारिमृदां यथा विनिमय इति । विनिमयोव्यत्ययोऽन्यस्मिन्नन्यावभासः । स यथाऽधिष्ठानसत्तया सद्वत्प्रतीयत इत्यर्थः । तत्र तेजसि वारिबुद्धिर्मरीचितोये प्रसिद्धा । मृदि काचादौ वारिबुद्धिर्वारिणि च काचादिबुद्धिरित्यादि यथायथमूह्यम् । यद्वा तस्यैव परमार्थसत्यत्वप्रतिपादनाय तदितरस्य मिथ्यात्वमुक्तम् । यत्र मृषैवायं त्रिसर्गो न वस्तुतः सन्निति । यत्रेत्यनेन प्रतीतमुपाधिसंबन्धं वारयति । स्वेनैव धाम्ना महसा निरस्तं कुहकं कपटं मायालक्षणं यस्मिंस्तम् । तटस्थलक्षणमाह – जन्मादीति । अस्य विश्वस्य जन्मस्थितिभङ्गा यतो भवन्ति तं धीमहीति । तत्र हेतुः – अन्वयादितरतश्च । अर्थेष्वाकाशादिकार्येषु परमेश्वरस्य सद्रूपेणान्वयादकार्येभ्यश्च खपुष्पादिभ्यस्तद्व्यतिरेकात् । यद्वा अन्वयशब्देनानुवृत्तिः, इतरशब्देन व्यावृत्तिः । अनुवृत्तत्वात्सद्रूपं ब्रह्म कारणं मृत्सुवर्णादिवत् । व्यावृत्तत्वाद्विश्वं कार्यं घटकुण्डलादिवदित्यर्थः । यद्वा सावयवत्वादन्वयव्यतिरेकाभ्यां यदस्य जन्मादि तद्यतोभवतीति संबन्धः । तथा च श्रुतिः – ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति’ इत्याद्या । स्मृतिश्च – ‘यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये’ इत्याद्या । तर्हि किं प्रधानं जगत्कारणत्वाद्ध्येयमभिप्रेतं नेत्याह । अभिज्ञो यस्तम् । ‘स ईक्षत लोकान्नु सृजा इति । स इमाँल्लोकानसृजत’ इति श्रुतेः । ‘ईक्षतेर्नाशब्दम्’ इति न्यायाच्च । तर्हि किं जीवो ध्येयः स्यान्नेत्याह । स्वराट् स्वेनैव राजते यस्तम् । स्वतःसिद्धज्ञानमित्यर्थः । तर्हि किं ब्रह्मा ध्येयः ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्’ इति श्रुतेः । नेत्याह – तेन इति । आदिकवये ब्रह्मणेऽपि ब्रह्म वेदं यस्तेने प्रकाशितवान् । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ इति श्रुतेः । ननु ब्रह्मणोऽन्यतो वेदाध्ययनमप्रसिद्धम् । सत्यम्, तत्तु हृदा मनसैव तेनेविस्तृतवान् । अनेन बुद्धिवृत्तिप्रवर्तकत्वेन गायत्र्यर्थो दर्शितः । वक्ष्यति हि – ‘प्रचोदिता येन पुरा सरस्वती वितन्वताऽजस्य सतीं स्मृतिं हृदि ।। स्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्’ इति । ननु ब्रह्मा स्वयमेव सुप्तप्रतिबुद्धन्यायेन वेदमुपलभतां नेत्याह । यद्यस्मिन्ब्रह्मणि सूरयोऽपि मुह्यन्तीति । तस्माद्ब्रह्मणोऽपि पराधीनज्ञानत्वात्स्वतःसिद्धज्ञानः परमेश्वर एव जगत्कारणम् । अत एव सत्योऽसतः सत्ताप्रदत्वाच्च परमार्थसत्यः सर्वज्ञत्वेन च निरस्तकुहकस्तम् । धीमहीति गायत्र्या प्रारम्भेण च गायत्र्याख्यब्रह्मविद्यारूपमेतत्पुराणमिति दर्शितम् । यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे – ‘यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तारः ।। वृत्रासुरवधोपेतं तद्भागवतमिष्यते ।। लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमं पदम् । अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्’ ।। पुराणान्तरे च – ‘ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसंमितः ।। हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ।। गायत्र्या च समारम्भस्तद्वै भागवतं विदुः’ ।। पद्मपुराणेऽम्बरीषं प्रति गौतमोक्तिः – ‘अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु ।। पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम्’ इति । अत एव भागवतं नामान्यदित्यपि न शङ्कनीयम् ।। १ ।।

Gita Press translation – We meditate on that transcendent Reality (God) from whom this universe springs up, in whom it abides and into whom it returns – because He is invariably present in all existing things and is distinct from all non-entities – who is self-conscious and self-effulgent, who revealed to Brahmā (the very first seer) by His mere will the Vedas that cause bewilderment even to the greatest sages, in whom this threefold creation(consisting of Sattva, Rajas and Tamas), though unreal, appears as real (because of the reality of its substratum) – even as the sun’s rays (which are made up of the elemental of fire) are mistaken for water (in a mirage), water for earth and earth for water – and who ever excludes Māyā by His own self-effulgent glory (1).

Source: http://avg-sanskrit.org/2015/07/09/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%83-mns/

 

LEAVE A REPLY