संस्कृत गोवीथि : : गव्य ३० (शंकराचार्य विशेष)

Nisarg Joshi

Sanskrit, SanskritGavya, SanskritLearning

Gavya30

स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि ।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥

The dream is unreal in waking, whereas the waking experience is absent in the dream. Both, however, are non-existent in deep sleep which, again, is not experienced in either.

 


शब्द सिन्धु


प्रयुंजानो (prayu.njaano) = combined
प्रयुक्तः (prayuktaH) = impelled
प्रयुक्तव्यं (prayuktavyaM) = should be used
प्रयुज्यते (prayujyate) = is used
प्रयुज्येत् (prayujyet.h) = is used
प्रयोग (prayoga) = practice
प्रयोगः (prayogaH) = (m) experiment
प्रयोगशाला (prayogashaalaa) = (f) laboratory
प्रयोजन (prayojana) = (n) reason
प्रयोजनीयं (prayojaniiyaM) = should use
प्रलपन् (pralapan.h) = talking
प्रलयं (pralayaM) = dissolution
प्रलयः (pralayaH) = annihilation
प्रलयान्तां (pralayaantaaM) = unto the point of death
प्रलये (pralaye) = in the annihilation
प्रलीनः (praliinaH) = being dissolved
प्रलीयते (praliiyate) = is annihilated
प्रलीयन्ते (praliiyante) = are annihilated
प्रलोभनं (pralobhanaM) = allure
प्रवचनेन (pravachanena) = (instr.sing.)thro’ discourse or lecture
प्रवदतां (pravadataaM) = of arguments
प्रवदन्ति (pravadanti) = say
प्रवर्तक (pravartaka) = (adj m) a promoter
प्रवर्तते (pravartate) = act
प्रवर्तन्ते (pravartante) = they flourish
प्रवर्तितं (pravartitaM) = established by the Vedas
प्रवक्ष्यामि (pravakShyaami) = I shall explain
प्रवक्ष्ये (pravakShye) = I shall explain
प्रवालाः (pravaalaaH) = twigs
प्रवासः (pravaasaH) = (m) journey, travel, trip
प्रवाह (pravaaha) = current
प्रवाहः (pravaahaH) = (m) current, flow
प्रविभक्तं (pravibhaktaM) = divided
प्रविभक्तानि (pravibhaktaani) = are divided


पाठ


We are in revision mode. Keep reading based on learning so far.

1 2

Use this sentences in daily life.

  • एकः प्रजायते जन्तुः एकः एव प्रलीयते।
  • एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
  • एति जीवन्तमानन्दो नरं वर्षशतादपि ।
  • कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
  • कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
  • कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
  • कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
  • कार्यकाले दुर्लभः पुरुषसमुदायः ।
  • कार्यं निदानाद्धि गुणानधीते ।
  • किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
  • कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
  • कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
  • कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
  • कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
  • क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
  • क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
  • क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
  • क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।

सुभाषित


कर्मोक्तिनर्मनिर्माणै: प्रात: प्रात: प्रधावताम्।
धनं धनं प्रलपतां निधनं विस्मृतं नृणाम्॥

By creating the pastime of various actions and running (to and fro) from morning to morning, talking of nothing but money, men forget that (such a thing as) death exists.


पठन -> मनन -> स्मरण -> आत्मसात


Today we will focus on स्वरूपानुसन्धानाष्टकम्

तपोयज्ञदानादिभिः शुद्धबुद्धि-
र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या .
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि .. १..
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य मत्या विचार्य स्वरूपम् .
यदाप्नोति तत्त्वं निदिध्यास विद्वान्-
परं ब्रह्म नित्यं तदेवाहमस्मि .. २..
यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदहीनम् .
अहंब्रह्मवृत्त्यैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ३..
यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे .
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ४..
निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् .
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ५..
यदानन्दलेशैः समानन्दि विश्वं
यदाभाति सत्त्वे तदाभाति सर्वम् .
यदालोकने रूपमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ६..
अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् .
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ७..
यदानन्द सिन्धौ निमग्नः पुमान्स्या-
दविद्याविलासः समस्तप्रपञ्चः .
तदा नः स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ८..
स्वरूपानुसन्धानरूपां स्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः .
श्रुणोतीह वा नित्यमुद्युक्तचित्तो
भवेद्विष्णुरत्रैव वेदप्रमाणात् .. ९..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
स्वरूपानुसन्धानाष्टकम् संपूर्णम् ..

 

Leave a Comment

The Prachodayat.in covers various topics, including politics, entertainment, sports, and business.

Have a question?

Contact us