SHARE

Gavya25

शिशुपालवधम्

शिशुपालवध महाकवि माघ द्वारा रचित संस्कृत काव्य है। २० सर्गों तथा १८०० अलंकारिक छन्दों में रचित यह ग्रन्थ संस्कृत के छः महाकाव्यों में गिना जाता है। इसमें कृष्ण द्वारा शिशुपाल के वध की कथा का वर्णन है।

उपमा कालिदासस्य भारवेरर्खगौरवम्।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥
(कालिदास उपमा में, भारवि अर्थगौरव में, और दण्डी पदलालित्य में बेजोड़ हैं। लेकिन माघ में ये तीनों गुण हैं।)

कवि माघ’s characters are alive. They are alive due to his appropriate usage of उपमा | Be it description of Narad or Shri Krishna!

For example : In below verse, he beautifully paints child-form of early morning sun!

उदयशिखरिशगृङ्गप्राङ्गणेष्वेव रिङ्गन्सकमलमुखहास वीक्षित पद्मिनीभि. |

विततमृदुकराग्र’ शब्दयन्त्या वैयोभि, परिपतति दिवोऽङ्के हेलया बालसूर्य. ॥

अर्थ:

उदयकालिक बालसूर्य उदयाचलके विस्तृत शिखरोंके आँगनमें घूमता हुआ, पद्मिनियो द्वारा कमाल्रुपी मुखके हास्यके साथ देखा जाता हुआ, मनो पक्षियोंके कलरवमें बुलाती अपनी माताकी गोदमें अपने कोमल करोके अग्रभाग फैलाता हुआ लीलापुर्वक चला जा रहा है|

Amazing!! Such poetic reading enhances your दृष्टि , your outlook!

 


शब्द सिन्धु


म||न्दोऽपि (ma||ndo.api) = mandaH + api:though dull or slow
मंगलं (ma.ngalaM) = (Nr. nom. + accc.S)auspiciousness
मंत्रस्य (ma.ntrasya) = mantra’s
मंत्रेण (ma.ntreNa) = thro’ the mantra
मंद (ma.nda) = Dull
मंदिर (ma.ndira) = temple
मंस्यन्ते (ma.nsyante) = they will consider
मकर (makara) = crocodile
मकरः (makaraH) = crocodile
मकरासन (makaraasana) = the crocodile posture
मखत्राता (makhatraataa) = the protector, saviour of makha (Indra)
मग्न (magna) = (adj) immersed
मघा (maghaa) = Also known as makka. Tenth nakshatra
मङ्गल (ma.ngala) = Mars. Also Auspiciousness and well-being
मङ्गलवार (ma.ngalavaara) = Tuesday
मच्चित्तः (machchittaH) = in consciousness of Me
मच्चित्ताः (machchittaaH) = their minds fully engaged in Me
मजिन (majina) = deer skin?
मज्जत् (majjat.h) = one who takes a dip
मज्जति (majjati) = (6 pp) to sink, to drown
मञ्चः (maJNchaH) = (m) bed
मणि (maNi) = gem
मणिगणाः (maNigaNaaH) = pearls
मणिपुर (maNipura) = a chakra near or at the navel
मणिबन्धः (maNibandhaH) = (m) wrist
मण्डल (maNDala) = circle
मण्डित (maNDita) = shining
मण्डुक (maNDuka) = a frog
मण्डुकासन (maNDukaasana) = the frog posture
मत् (mat.h) = upon Me (KRishhNa)
मत (mata) = Opinion
मतं (mataM) = injunctions
मतः (mataH) = is considered
मता (mataa) = is considered
मताः (mataaH) = are considered
मतिं (matiM) = intellect
मतिः (matiH) = intellect , thought ,opinion
मतिरापनेया (matiraapaneyaa) = matiH + ApaneyA:mind + to be led
मतिर्भिन्नः (matirbhinnaH) = mind +different (different opinions or views)
मतिर्मम (matirmama) = my opinion
मतुरा (maturaa) = the city of mathura
मतृ (matRi) = mother
मते (mate) = in the opinion
मतैक्यं (mataikyaM) = (n) consensus
मत्कर्म (matkarma) = My work
मत्कर्मकृत् (matkarmakRit.h) = engaged in doing My work
मत्कुण (matkuNa) = bed-bug
मत्कुणः (matkuNaH) = (m) bedbug, khatamal
मत्तः (mattaH) = beyond Me
मत्परं (matparaM) = subordinate to Me
मत्परः (matparaH) = in relationship with Me
मत्परमः (matparamaH) = considering Me the Supreme
मत्परमाः (matparamaaH) = taking Me, the Supreme Lord, as everything
मत्पराः (matparaaH) = being attached to Me
मत्परायणः (matparaayaNaH) = devoted to Me
मत्प्रसादात् (matprasaadaat.h) = by My mercy
मत्वा (matvaa) = having thought ,thinking that
मत्संस्थां (matsa.nsthaaM) = the spiritual sky (the kingdom of God)
मत्सर (matsara) = Anger, Jealousy, Envy, Hostility
मत्स्थानि (matsthaani) = in Me
मत्स्य (matsya) = a fish
मत्स्यण्डी (matsyaNDii) = (n) molasses
मत्स्यासन (matsyaasana) = the fish posture
मत्स्येन्द्रासन (matsyendraasana) = the posture of Matsyendra
मद्भक्तः (mad.hbhaktaH) = My devotee
मद्भक्तिं (mad.hbhaktiM) = My devotional service
मद्भावं (mad.hbhaavaM) = transcendental love for Me
मद्व्यपाश्रयः (mad.hvyapaashrayaH) = under My protection
मद (mada) = Intoxication
मदं (madaM) = illusion


पाठ


1 2 3


सुभाषित


नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन इति महति विरोधे विद्यमाने समाने नॄपतिजनपदानां दुर्लभ: कार्यकर्ता

A person who works for benefit the ruler, is disliked by the people. The one who works for the welfare of the people, is disliked by the ruler. So, it is difficult to find a person who can work for benefit of the both, where he is facing equally strong opposition from both the sides. ( it will be very difficult do something which is liked by both sides, if their interests are clashing.) This Subhashita is suitable for a situation where rulers are not particularly contributing towards the welfare of their subjects, and their actions are primarily driven by their own vested interests.


पठन/स्मरण


शिशुपालवध महाकवि माघ द्वारा रचित संस्कृत काव्य है। २० सर्गों तथा १८०० अलंकारिक छन्दों में रचित यह ग्रन्थ संस्कृत के छः महाकाव्यों में गिना जाता है। इसमें कृष्ण द्वारा शिशुपाल के वध की कथा का वर्णन है।

Read first 30 verses of Sarga 1

 

श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥

गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वं ज्वलनम हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥

चयस्त्विषामित्यवधारितं पुरस्ततः शरीरिति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥

नवानधोsधो बृहतः पयोधरान्‌ समूढकर्पूरपरागपाण्डुरम्‌ ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥ ४ ॥

दधानमम्भोरुहकेसरद्युती र्जटाः शरच्चन्द्रमरीचिरोचिष‌म्‌ ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥ ५ ॥

पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्‌ ॥ ६ ॥

विहङ्गराजाङ्गरुहैरिवाततै र्हिरण्यमयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै र्घनं धनान्ते तडितां गुणैरिव ॥ ७ ॥

निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्म्णा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारूचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्‌ ॥ ८ ॥

अजस्रमास्फालितवल्लकीगुण क्षतोज्ज्वलांगुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्द्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥

रण्द्भिराघट्टनया नभस्वतः पृथग्विभिनाश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छना मवेक्षमाणं महतीं मूहुर्मूहुः ॥ १० ॥

निवर्त्य सो नुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत्‌ सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ॥ ११ ॥

पतन्‌ पतङ्गप्रतिमस्तपोनिधिः पुरो स्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥

अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥

तमर्ध्यमर्ध्यादिकयादिपूरुषः सपर्यया साधु स पर्य्यपूपुजत्‌ ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥

न यावदेतावुदपश्यदुत्थितौ जनस्तुषारासाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमास्ने मुनि श्चिरंतनस्तावदभिन्यवीविशत्‌ ॥ १५ ॥

महामहानीलशिलारुचः पुरो निषेदिवान्‌ कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायकमुच्च्कै रचूचुरच्च्न्द्रमसो भिरामताम्‌ ॥ १६ ॥

विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्‌ परिचर्यया मूहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥

अशेषतीर्थीपहृताः कमण्डलोर्निधाय पाणावृषिणाभ्युदीरिताः ।
अधौधविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १८ ॥

स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिघाय जम्बूजनितश्रियः श्रियं सुमेरुश्रुङ्गस्य तदा तदासनम्‌ ॥ १९ ॥

स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ।
वोदोद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥

रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥

प्रफुल्ततापिच्छनिभैरभीशुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥

युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ २३ ॥

निधाघधामानमिवाधिदीधितिं मुदा विकासं यतिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पूण्डरीकाक्ष इति स्फुटो भवत्‌ ॥ २४ ॥

सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्‌ ।
द्‍विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥

हरत्ययं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालतत्रितये पि योग्यताम्‌ ॥ २६ ॥

जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुत्तमनुत्तमं तमः ॥ २७ ॥

कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगे पि गुरुस्त्वमक्षतिर्निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥

विलोकनेनैव तवामुना मुने कृतः कृताथो स्मि निबृंहितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरो थवा श्रेयसि केन तृप्यते ॥ २९ ॥

गतस्पृहो प्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम्‌ ॥ ३० ॥

LEAVE A REPLY