SHARE

Gavya24साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे ।

इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न ॥

 


शब्द सिन्धु


अयथावत् (ayathaavat.h) = imperfectly
अयनेषु (ayaneshhu) = in the strategic points
अयम (ayama) = length, extension, restraint
अयशः (ayashaH) = infamy
अयसः (ayasaH) = (m) iron
अयज्ञस्य (ayaGYasya) = for one who performs no sacrifice
अयुक्तः (ayuktaH) = one who is not in KRishhNa consciousness
अयुक्तस्य (ayuktasya) = of one who is not connected (with KRishhNa consciousness)
अयोगतः (ayogataH) = without devotional service
अयोजयिष्यत् (ayojayishhyat.h) = if one does not join or connect
अयोभाण्डम् (ayobhaaNDam.h) = (n) a wooden barrel
अरण्यम् (araNyam.h) = (n) jungle, forest
अरण्यौकसः (araNyaukasaH) = (Masc.poss.sing.) forester’s
अरतिः (aratiH) = being without attachment
अरागद्वेषतः (araagadveshhataH) = without love or hatred
अरि (ari) = enemies
अरिभाव (aribhaava) = the sixth house in a Rashi or bhaava chart
अरिषु (arishhu) = on enemies
अरिष्टनेमिः (arishhTanemiH) = the appelation to Garuda?
अरिसूदन (arisuudana) = O killer of the enemies
अरोगित (arogita) = diseaselessness
अर्क (arka) = essence, a name of Sun
अर्घ (argha) = value
अर्चति (archati) = (1 pp) to worship
अर्चितुं (archituM) = to worship
अर्जन (arjana) = obtaining
अर्जनं (arjanaM) = the earning or acquiring or acqusition
अर्जुन (arjuna) = a disciple of Krishna, hero of the Mahabharata
अर्जुनं (arjunaM) = unto Arjuna
अर्जुनः (arjunaH) = Arjuna
अर्जुनयोः (arjunayoH) = and Arjuna
अर्थ (artha) = money
अर्थं (arthaM) = wealth
अर्थः (arthaH) = is meant
अर्थन् (arthan.h) = and economic development
अर्थनैपुण (arthanaipuNa) = (n) efficient in polity
अर्थप्राप्तिर्भवति (arthapraaptirbhavati) = wealth-attainment becomes
अर्थयते (arthayate) = (10 pp) to request
अर्थवान् (arthavaan.h) = one with money
अर्थशास्त्र (arthashaastra) = ecomonics
अर्थस्य (arthasya) = (masc.poss.sing.) wealth or meaning
अर्थार्थी (arthaarthii) = one who desires material gain
अर्थियं (arthiyaM) = meant
अर्थे (arthe) = in meaning
अर्थोपार्जनाय (arthopaarjanaaya) = for earning maney
अर्ध (ardha) = half
अर्धगोल (ardhagola) = semicircle, dome
अर्धचन्द्रासन (ardhachandraasana) = the half-moon posture
अर्धनवासन (ardhanavaasana) = the half-boat posture
अर्धनारीनटेश्वर (ardhanaariinaTeshvara) = Shiva and his Shakti united as one
अर्धनारीश्वर (ardhanaariishvara) = Shiva and his Shakti united as one
अर्धनिचोलः (ardhanicholaH) = (m) frock
अर्धपद्मासन (ardhapadmaasana) = the half-lotus posture
अर्धमत्स्येन्द्रासन (ardhamatsyendraasana) = the half spinal-twist posture
अर्धशिर्षासन (ardhashirshhaasana) = the half headstand posture
अर्धसर्वाङ्गासन (ardhasarvaa.ngaasana) = the half-shoulderstand posture
अर्धसलभासन (ardhasalabhaasana) = the half-locust posture
अर्धोरुक (ardhoruka) = (n) half-pant
अर्धोरुकम् (ardhorukam.h) = (n) half-pant , shorts
अर्पण (arpaNa) = Offer


पाठ


1 2 3


सुभाषित


आदौ चित्ते तत: काये सतां सम्पद्यते जरा।
असतां तु पुन: काये नैव चित्ते कदाचन॥

Old age sets first into the mind and then into the body in the case of a good person even though the body becomes old and the mind never matures for the wicked.


पठन/स्मरण


नैषधीयचरितम्‌/षष्ठः सर्गः

दूत्याय दैत्यारिपतेः प्रवृत्तो द्विषां निषेद्धा निषाधप्रधानम् ।
स भीमभूमीपतिराजधानीं लक्षीचकाराथ रथस्य तस्य ॥ ६.१ ॥

भैम्या समं नाजगणद्वियोगं स दूतधर्मे स्थिरधीरधीशः ।
पयोधिपाने मुनिरन्तरायं दुर्वारमप्यौर्वमिवौर्वशेयः ॥ ६.२ ॥

नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवस्ते ।
तदध्ववीक्षार्थमिवानिमेषा देशस्य तस्याभरणीबभूवुः ॥ ६.३ ॥

तां कुण्डिनाख्यापदमात्रगुप्तामिन्द्रस्य भूमेरमरावतीं सः ।
मनोरथः सिद्धिमिव क्षणेन रथस्तदीयः पुरमाससाद ॥ ६.४ ॥

भैमीपदस्पर्शकृतार्थरथ्या सेयं पुरीत्युत्कलिकाकुलस्ताम् ।
नृपो निपीय क्षणमीक्षणाभ्यां भृशं निशश्वास सुरैः क्षताशः ॥ ६.५ ॥

स्विद्यत्प्रमोदाश्रुलवेन वामं रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ।
अन्यत्पुनः कम्प्रमपि स्फुरत्त्वात्तस्याः पुरः प्राप नवोपभोगम् ॥ ६.६ ॥

रथादसौ सारथिना सनाथाद्राजावतीर्याथ पुरं विवेश ।
निर्गत्य बिम्बादिव भानवीयात्सौधाकरं मण्डलमंशुसङ्घः ॥ ६.७ ॥

चित्रं तदा कुण्डिनवेशिनः षा नलस्य मूर्तिर्ववृते न दृश्या ।
बभूव तञ्चित्रतरं तथापि विश्वैकदृश्यैव यदस्य मूर्तिः ॥ ६.८ ॥

जनैर्विदग्धैर्भवनैश्च मुग्धैः पदे पदे विस्मयकल्पवल्लीम् ।
तां गाहमानास्य चिरं नलस्य दृष्टिर्ययौ राजकुलातिथित्वम् ॥ ६.९ ॥

हेलां दधौ रक्षिजनेऽस्त्रिसज्जे लीनश्चरामीति हृदा ललज्जे ।
द्रक्ष्यामि भैमीमिति संतुतोष दूतं विचिन्त्य स्वमसौ शुशोच ॥ ६.१ ॥

अथोपकार्याममरेन्द्रकार्यात्कक्षासु रक्षाधिकृतैरदृष्टः ।
भैमीं दिदृक्षुर्बहुदिक्षु चक्षुर्दिशन्नसौ तामविशद्विशङ्कः ॥ ६.११ ॥

अयं क इत्यन्यनिवारकाणां गिरा विभुर्द्वारि विभुज्य कण्ठम् ।
दृशं ददौ विस्मयनिस्तरङ्गां स लङ्घितायामपि राजसिंहः ॥ ६.१२ ॥

अन्तःपुरान्तः स विलोक्य बालां कांचित्समालब्धुमसंवृतोरुम् ।
निमीलिताक्षः परया भ्रमन्त्या संघट्टमासाद्य चमच्चकार ॥ ६.१३ ॥

अनादिसर्गस्रजि वानुभूता चित्रेषु वा भीमसुता नलेन ।
जातेव यद्वा जितशम्बरस्य सा शाम्बरीशिल्पमलक्षि दिक्षु ॥ ६.१४ ॥

अलीकभैमीसहदर्शनान्न तस्यान्यकन्याप्सरसो रसाय ।
भैमीभ्रमस्यैव ततः प्रसादाद्भैमीभ्रमस्तेन न तास्वलम्भि ॥ ६.१५ ॥

भैमीनिराशे हृदि मन्मथेन दत्तस्वहस्ताद्विरहाद्विहस्तः ।
स तामलीकामवलोक्य तत्र क्षणादपश्यन्व्यषदद्विबुद्धः ॥ ६.१६ ॥

प्रियां विकल्पोपहृतां स यावद्दिगीशसंदेशमजल्पदल्पम् ।
अदृश्यवाग्भीषितभूरिभीरुर्भवो रवस्तावदचेतयत्तम् ॥ ६.१७ ॥

पश्यन्स तस्मिन्मरुतादि तन्व्याः स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ ।
अक्षान्तपक्षान्तमृगाङ्कमास्यं दधार तिर्यन्वलितं विलक्षः ॥ ६.१८ ॥

अन्तःपुरे विस्तृतवागुरोऽपि बालावलीनां वलितैर्गुणौघैः ।
न कालसारं हरिणं तदक्षिद्वयं प्रभुर्बन्द्धुमभून्मनोभूः ॥ ६.१९ ॥

दोर्मूलमालोक्य कचं रुरुत्सोस्ततः कुचौ तावनुलेपयन्त्याः ।
नाभीमथैष श्लथवाससोऽनु मिमील दिक्षु क्रमकृष्टचक्षुः ॥ ६.२ ॥

मीलन्न शेकेऽभिमुखागताभां धर्तुं निपीड्य स्तनसान्तराभ्याम् ।
स्वाङ्गान्यपेतो विजगौ स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते ॥ ६.२१ ॥

निमीलनस्पष्टविलोकनाभ्यां कदर्थितस्ताः कलयन्कटाक्षैः ।
स रागदर्शीव भृशं ललज्जे स्वतः सतां ह्रीः परतोऽतिगुर्वी ॥ ६.२२ ॥

रोमाञ्चिताङ्गीमनु तत्कटाक्षैर्भ्रान्तेन कान्तेन रतेर्निदिष्टः ।
मोघः शरौघः कुसुमानि नाभूत्तद्धैर्यपूजां प्रति पर्यवस्यन् ॥ ६.२३ ॥

हित्वैव वर्त्मैकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ।
चतुष्पथस्याभरणं बभूव लोकावलोकाय सतां स दीपः ॥ ६.२४ ॥

उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद्द्रुतैव ।
वियोगिवैरात्कुचयोर्नखाङ्कैरर्धेन्दुलीलैर्गलहस्तितेव ॥ ६.२५ ॥

तन्वीमुखं द्रागधिगत्य चन्द्रं वियोगिनस्तस्य निमीलिताभ्याम् ।
द्वयं द्रढीयः कृतमीक्षणाभ्यां तदिन्दुता च स्वसरोजता च ॥ ६.२६ ॥

चतुष्पथे तं विनिमीलिताक्षं चतुर्दिगेताः सुखमग्रहीष्यन् ।
संघट्ट्य तस्मिन्भृशभीनिवृत्तास्ता एव तद्वत्र्म न चेददास्यन् ॥ ६.२७ ॥

संघट्टयन्त्यास्तरसात्मभूषाहीराङ्कुरप्रोतदुकूलहारी ।
दिशा नितम्बं परिधाप्य तन्व्यास्तत्पापसंतापमवाप भूपः ॥ ६.२८ ॥

हतः कयाचित्पथि कन्दुकेन संघट्ट्य भिन्नः करजैः कयापि ।
कयाचनाक्तः कुचकुङ्कुमेन संभुक्तकल्पः स बभूव ताभिः ॥ ६.२९ ॥

छायामयः प्रैक्षि कयापि हारे निजे स गच्छन्नथ नेक्ष्यमाणः ।
तच्चिन्तयान्तर्निरचायि चारु स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥ ६.३ ॥

तच्छायसौन्दर्यनिपीतधैर्याः प्रत्येकमालिङ्गदमू रतीशः ।
रतिप्रतिद्वन्द्वितमासु नूनं नामूषु निर्णीतरतिः कथंचित् ॥ ६.३१ ॥

तस्माददृश्यादपि नातिबिभ्युस्तच्छायरूपाहितमोहलोलाः ।
मन्यन्त एवादृतमन्मथाज्ञाः प्राणानपि स्वान्सुदृशस्तृणानि ॥ ६.३२ ॥

जागर्ति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन्विससर्प कम्पः ।
द्रुते द्रुतं तत्पदशब्दभीत्या स्वहस्तितश्चारुदृशां परं सः ॥ ६.३३ ॥

उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः ।
अश्मैव रत्यास्तदनर्ति पत्या छेदेऽप्यबोधं यदहर्षि रोम ॥ ६.३४ ॥

यस्मिन्नलस्पृष्टकमेत्य हृष्टा भूयोऽपि तं देशमगान्मृगाक्षी ।
निपत्य तत्रास्य धरारजःस्थे पादे प्रसीदेति शनैरवादीत् ॥ ६.३५ ॥

भ्रमन्नमुष्यामुपकारिकायामायस्य भैमीविरहात्क्रशीयान् ।
असौ मुहुः सौधपरम्पराणां व्यधत्त विश्रान्तिमधित्यकासु ॥ ६.३६ ॥

उल्लिख्य हंसेन दले नलिन्यास्तस्मै यथादर्शि तथैव भैमी ।
तेनाभिलिख्योपहृतस्वहारा कस्या न दृष्टाजनि विस्मयाय ॥ ६.३७ ॥

कौमारगन्धीनि निवारयन्ती वृत्तानि रोमावलिवेत्रचिह्ना ।
सालिख्य तेनैक्ष्यत यौवनीयद्वाःस्थामवस्थां परिचेतुकामा ॥ ६.३८ ॥

पश्याः पुरंध्रीः प्रति सान्द्रचन्द्ररजाःकृतक्रीडकुमारचक्रे ।
चित्राणि चक्रे ध्वनि चक्रवर्तिचिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥ ६.३९ ॥

तारुण्यपुण्यामवलोकयन्त्योरन्योन्यमेणेक्षणयोरभिख्याम् ।
मध्ये मुहूर्तं स बभूव गच्छन्नाकस्मिकाच्छादनविस्मयाय ॥ ६.४ ॥

पुरःस्थितस्य क्वचिदस्य भूपारत्नेषु नार्यः प्रतिबिम्बितानि ।
व्योमन्यदृश्येषु निजान्यपश्यन्विस्मित्य विस्मित्य सहस्रकृत्वः ॥ ६.४१ ॥

तस्मिन्विषज्याऋधपथात्तपातं तदङ्गरागच्छुरितं निरीक्ष्य ।
विस्मेरतामापुरविस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥ ६.४२ ॥

पुंसि स्वभर्तृव्यतिरिक्तभूते भूत्वाप्यनीक्षानियमव्रतिन्यः ।
छायासु रूपं भुवि वीक्ष्य तस्य फलं दृशोरानशिरे महिष्यः ॥ ६.४३ ॥

विलोक्य तच्छायमतर्कि ताभिः पतिं प्रति स्वं वसुधापि धत्ते ।
यथा वयं किं मदनं तथैनं त्रिनेत्रनेत्रानलकीलनीलम् ॥ ६.४४ ॥

रूपं प्रतिच्छायिकयोपनीतमालोकि ताभिर्यदि नाम कामम् ।
तथापि नालोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् ॥ ६.४५ ॥

भवन्नदृश्यः प्रतिबिम्बदेहव्यूहं वितन्वन्मणिकुट्टिमेषु ।
पुरं परस्य प्रविशन्वियोगी योगीव चित्रं स रराज राजा ॥ ६.४६ ॥

पुमानिवास्पर्शि मया व्रजन्त्या छाया मया पुंसः इव व्यलोकि ।
ब्रुवन्निवातर्कि मयापि कश्चिदिति स्म स स्त्रैणगिरः शृणोति ॥ ६.४७ ॥

अम्बां प्रणत्योपनता नताङ्गी नलेन भैमी पथि योगमाप ।
स भ्रान्तिभैमीषु न तां व्यविक्त सा तं च नादृश्यतया ददर्श ॥ ६.४८ ॥

प्रसूप्रसादाधिगता प्रसूनमाला नलस्योद्भ्रमवीक्षितस्य ।
क्षिप्तापि कण्ठाय तयोपकण्ठं स्थितं तमालम्बत सत्यमेव ॥ ६.४९ ॥

स्रग्वासनादृष्टजनप्रसादः सत्येयमित्यद्भुतमाप भूपः ।
क्षिप्तामदृश्यत्वमितां च मालामालोक्य तां विस्मयते स्म बाला ॥ ६.५ ॥

अन्योन्यमन्यत्रवदीक्षमाणो परस्परेणाध्युषितेऽपि देशे ।
अलिङ्गितालीकपरस्परान्तस्तथ्यं मिथस्तौ परिषस्वजाते ॥ ६.५१ ॥

स्पर्शं तमस्याधिगतापि भैमी मेने पुनर्भ्रान्तिमदर्शनेन ।
नृपः स पश्यन्नपि तामुदीतः स्तम्भो न धर्तुं सहसा शशाक ॥ ६.५२ ॥

स्पर्शाटिहर्षादृतसत्यमत्या प्रवृत्य मिथ्याप्रतिलब्धबाधौ ।
पुनर्मिथस्तथ्यमपि स्पृशन्तौ न श्रद्दधाते पथि तौ विमुग्धौ ॥ ६.५३ ॥

सर्वत्र संवाद्यमबाधमानौ रूपश्रियातिथ्यकरं परं तौ ।
न शेकतुः केलिरसाद्विरन्तुमलीकमालोक्य परस्परं तु ॥ ६.५४ ॥

परस्परस्पर्शरसोर्मिसेकात्तयोः क्षणं चेतसि विप्रलम्भः ।
स्नेहातिदानादिव दीपिकार्चिर्निमिष्य किंचिद्विगुणं दिदीपे ॥ ६.५५ ॥

वेश्माप सा धैर्यवियोगयोगाद्बोधं च मोहं च मुहुर्दधाना ।
पुनःपुनस्तत्र पुरः स पश्यन्बभ्राम तां सुभ्रुवमुद्भ्रमेण ॥ ६.५६ ॥

पद्म्यां नृपः संचरमाण एष चिरं परिभ्रम्य कथंकथंचित् ।
विदर्भराजप्रभवाभिरामं प्रासादमभ्रंकषमाससाद ॥ ६.५७ ॥

सखीशतानां सरसैर्विलासैः स्मरावरोधभ्रममावहन्तीम् ।
विलोकयामास सभां स भैम्यास्तस्य प्रतोलीमणिवेदिकायाम् ॥ ६.५८ ॥

कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः सूचयति त्रिरेखः ।
इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ॥ ६.५९ ॥

एतं नलं तं दमयन्ति पश्य त्यजार्तिमित्या लिकुलप्रबोधान् ।
श्रुत्वा स नारीकरवर्तिसारीमुखात्स्वमाशङ्कत यत्र दृष्टम् ॥ ६.६ ॥

यत्रैकयालीकनलीकृतालीकण्ठे मृषाभीमभवीभवन्त्या ।
तद्दृक्पथे दौहदिकोपनीता शालीनमाधायि मधूकमाला ॥ ६.६१ ॥

चन्द्राभमाभ्रं तिलकं दधाना तद्वन्निजास्येन्दुकृतानुबिम्बम् ।
सखीमुखे चन्द्रसमे ससर्ज चन्द्रनवस्थामिव कापि यत्र ॥ ६.६२ ॥

दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् ।
तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी नखलेखिनीभिः ॥ ६.६३ ॥

विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र ।
अशाकि लीलाकमलं न पाणिरपारि कर्णोत्पलमक्षि नैव ॥ ६.६४ ॥

भैमीमुपावीणयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः ।
गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालैकधुरीणवीणः ॥ ६.६५ ॥

नावा स्मरः किं हरभीतिगुप्ते पयोधरे खेलति कुम्भ एव ।
इत्यर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी यत्र सखीभिरूचे ॥ ६.६६ ॥

स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः ।
स्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय ॥ ६.६७ ॥

यत्रावदत्तामतिभीय भैमी त्यज त्यजेदं सखि साहसिक्यम् ।
त्वमेव कृत्वा मदनाय दत्से बाणान्प्रसूनानि गुणेन सज्जान् ॥ ६.६८ ॥

आलिख्य सख्याः कुचपत्त्रभङ्गीमध्ये सुमध्या मकरीं करेण ।
यत्रालपत्तामिदमालि यानं मन्ये त्वदेकावलिनाकनद्याः ॥ ६.६९ ॥

तामेव सा यत्र यगाद भूयः पयोधियादः कुचकुम्भयोस्ते ।
सेयं स्थिता तावकहृच्छयाङ्कप्रियास्तु विस्तारयशःप्रशस्तिः ॥ ६.७ ॥

शारीं चरन्तीम् सखि मारयैतामित्यक्षदाये कथिते कयापि ।
यत्र स्वघातभ्रमभीरुशारीकाकूत्थसाकूतहसः स जज्ञे ॥ ६.७१ ॥

भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् ।
कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानमूहे ॥ ६.७२ ॥

तस्मिन्नियं सेति सखीसमाजे नलस्य संदेहमथ व्युदस्यन् ।
अपृष्ट एव स्फुटमाचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥ ६.७३ ॥

भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् ।
नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्बं मणिवेदिकायाम् ॥ ६.७४ ॥

हुताशकीनाशजलेशदूतीर्निराकरिष्णोः कृतकाकुयाञ्चाः ।
भैम्या वचोभिः स निजां तदाशां न्यवर्तयद्दूरमपि प्रयाताम् ॥ ६.७५ ॥

विज्ञप्तिमन्तःसभयः स भैम्या मध्येसभं वासवसम्भलीयाम् ।
संभालयामास भृशं कृशाशस्तदालिवृन्दैरभिनन्द्यमानाम् ॥ ६.७६ ॥

लिपिर्न दैवी सुपठा भुवीति तुभ्यं मयि प्रेरितवाचिकस्य ।
इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानैः ॥ ६.७७ ॥

सलीलमालिङ्गनयोपपीडमनामयं पृच्छति वासवस्त्वाम् ।
शेषस्त्वदाश्लेषकथापनिद्रैस्तद्रोमभिः संदिदिशे भवत्यै ॥ ६.७८ ॥

यः प्रेर्यमाणोऽपि हृदा मघोनस्त्वदर्थनायां ह्रियमापदागः ।
स्वयंवरस्थानजुषस्त्वमस्य बधान कण्ठं वरणस्रजाशु ॥ ६.७९ ॥

नैनं त्यज क्षीरधिमन्थनाद्यैरस्यानुजायोद्गमितामरैः श्रीः ।
अस्मै विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥ ६.८ ॥

लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः ।
किंकर्तुमर्थी यदि सोऽपि रागाज्जागर्ति कक्षा किमतः परापि ॥ ६.८१ ॥

पदं शतेनाप मखैर्यदिन्द्रस्तस्मै स ते याचनचाटुकारः ।
कुरु प्रसादं तदलंकुरुष्व स्वीकारकृद्भ्रूनटनशृअमेण ॥ ६.८२ ॥

मन्दाकिनीनन्दनयोर्विहारे देवे धवे देवरि माधवे वा ।
श्रेयः श्रियां यातरि यच्च सख्यां तच्चेतसा भाविनि भावयस्व ॥ ६.८३ ॥

रज्यस्व राज्ये जगतामितीन्द्राद्याच्ञाप्रतिष्ठां लभसे त्वमेव ।
लघूकृतस्वं बलियाचनेन तत्प्राप्तये वामनमामनन्ति ॥ ६.८४ ॥

यानेव देवान्नमसि त्रिकालं न तत्कृतघ्नीकृतिरौचिती ते ।
प्रसीद तानप्यनृणान्विधातुं पतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥ ६.८५ ॥

इत्युक्तवत्या निहितादरेण भैम्या गृहीता मघवत्प्रसादः ।
स्रक्पारिजातस्य ऋते नलाशां वासैरशेषामपुपूरदाशाम् ॥ ६.८६ ॥

आर्ये विचार्यालमिहेति कापि योग्यं सखि स्यादिति काचनायि ।
ओंकार एवोत्तरमस्तु वस्तु मङ्गल्यमत्रेति च काप्यवोचत् ॥ ६.८७ ॥

अनाश्रवा वः किमहं कदापि वक्तुं विशेषः परमस्ति शेषः ।
ईतीरिते भीमजया न दूतीमालिङ्गदालीश्च मुदामियत्ता ॥ ६.८८ ॥

भैमीं च दूत्यं च न किंचिदापमिति स्वयं भावयतो नलस्य ।
आलोकमात्राद्यदि तन्मुखेन्दोरभून्न भिन्नं हृदयारविन्दम् ॥ ६.८९ ॥

ईषत्स्मितक्षालितसृक्वभागा दृक्संज्ञया वारिततत्तदालिः ।
स्रजा नमस्कृत्य तयैव शक्रं तां भीमभूरुत्तरयांचकार ॥ ६.९ ॥

स्तुतौ मघोनस्त्यज साहसिक्यं वक्तुं कियत्तं यदि वेद वेदः ।
मृषोत्तरं साक्षिणि हृत्सु न्ṝपामज्ञातृविज्ञापि ममापि तस्मिन् ॥ ६.९१ ॥

आज्ञां तदीयामनु कस्य नाम नकारपारुष्यमुपैतु जिह्वा ।
प्रह्वा तु तां मूर्ध्नि विधाय मालां बालापराध्यामि विशेषवाग्भिः ॥ ६.९२ ॥

तपःफलत्वेन हरेः कृपेयमिमं तपस्येव जनं नियुङ्क्ते ।
भवत्युपायं प्रति हि प्रवृत्तावुपेयमाधुर्यमधैर्यसर्जि ॥ ६.९३ ॥

शुश्रूषिताहे तदहं तमेव पतिं मुदेऽपि व्रतसंपदेऽपि ।
विशेषलेशोयऽमदेवदेहमंशागतं तु क्षितिभृत्तयेह ॥ ६.९४ ॥

अश्रौषमिन्द्रादरिणीर्गिरस्ते सतीव्रतातिप्रतिलोमतीव्राः ।
स्वं प्रागहं प्रादिषि नामराय किंनाम तस्मै मनसा नराय ॥ ६.९५ ॥

तस्मिन्विमृश्यैव वृते हृदैषा मैन्द्री दया मामनुतापिकाभूत् ।
निर्वातुकामं भवसंभवानां धीरं सुखानामवधीरणेव ॥ ६.९६ ॥

वर्षेषु यद्भारतमार्युधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ।
तत्रास्मि पत्युर्वरिवस्ययेह शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥ ६.९७ ॥

स्वर्गे सतां शर्म परं न धर्मा भवन्ति भूमाविह तच्च ते च ।
शक्या मखेनापि मुदोऽमराणां कथं विहाय त्रयमेकमीहे ॥ ६.९८ ॥

साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे ।
इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न ॥ ६.९९ ॥

प्रक्षीण एवायुषि कर्मकृष्टे नरान्न तिष्ठत्युपतिष्ठते यः ।
बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापातसुखोन्मुखं कः ॥ ६.१ ॥

इतीन्द्रदूत्याः प्रतिवाचमर्धे प्रत्युह्य सैषाभिदधे वयस्याः ।
किंचिद्विवक्षोल्लसदोष्ठलक्ष्मीजितापनिद्रद्दलपङ्कजास्याः ॥ ६.१०१ ॥

अनादिधाविस्वपरम्पराया हेतुस्रजः स्रोतसि वेश्वरे वा ।
आयत्तधीरेष जनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः ॥ ६.१०२ ॥

नित्यं नियत्या परवत्यशेषे कः संविदानोऽप्यनुयोगयोग्यः ।
अचेतना सा च न वाचमर्हेद्वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते ॥ ६.१०३ ॥

क्रमेलकं निन्दति कोमलेच्छुः क्रमेलकः कण्टकलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः समायां मध्यस्थता नैकतरोपहासः ॥ ६.१०४ ॥

गुणा हरन्तोऽपि हरेर्नरं मे न रोचमानं परिहापयन्ति ।
न लोकमालोकयथापवर्गात्त्रिवर्गमर्वाञ्चममुञ्चमानम् ॥ ६.१०५ ॥

आकीटमाकैटभवैरि तुल्यः स्वाभीष्टलाभात्कृतकृत्यभावः ।
भिन्नस्पृहाणां प्रति चार्थमर्थं द्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥ ६.१०६ ॥

अध्वाग्रजाग्रन्निभृतापदन्धुर्बन्धुर्यदि स्यात्प्रतिबन्धुमर्हः ।
जोषं जनः कार्यविदस्तु वस्तु प्रच्छया निजेच्छा पदवीं मुदस्तु ॥ ६.१०७ ॥

इत्थं प्रतीपोक्तिमतिं सखीनां विलुप्य पाण्डित्यबलेन बाला ।
अपि श्रुतस्वर्पतिमन्त्रिसूक्तिं दूतीं बभाषेऽद्भुतलोलमौलिम् ॥ ६.१०८ ॥

परेतभर्तुर्मनसेव दूतीं नभस्वतेवानिलसख्यभाजः ।
त्रिस्रोतसेवाम्बुपतेस्तदाशु स्थिरास्थमायातवतीं निरास्थम् ॥ ६.१०९ ॥

भूयोऽर्थमेनं यदि मां त्वमात्थ तदा पदावालभसे मघोनः ।
सतीव्रतैस्तीव्रमिमं तु मन्तुमन्तर्वरं वज्रिणि मार्जितास्मि ॥ ६.११ ॥

इत्थं पुनर्वागवकाशनाशान्महेन्द्रदूत्यामपयातवत्याम् ।
विवेश लोलं हृदयं नलस्य जीवः पुनः क्षीबमिव प्रबोधः ॥ ६.१११ ॥

श्रवणपुटयुगेन स्वेन साधूपनीतं दिगधिपकृपयाप्तादीदृशः संविधान्
अलभत मधु बाला रागवागुत्थमित्थं निषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥ ६.११२ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं शृईहीरः सुषुवे जितेन्द्रियचयं ममल्लदेवी च यम् ।
षष्ठः खण्डनखण्डतोऽपि सहजात्क्षोदक्षमे तन्महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ ६.११३ ॥

LEAVE A REPLY