SHARE

 

Gavya21

सहसा विदधीत न क्रियामविवेक: परमापदां पदम्‌।
वृणुते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेवसम्पद:॥1:30॥

[बिना सोचे-विचारे सहसा किसी काम को अंजाम नहीं देना चाहिए. अविवेक बड़ी विपत्तियों का घर है. सम्पत्तियाँ (सफलताएँ) तो गुणों पर लुब्ध होती हैं और विचारशील व्यक्ति का स्वयं ही वरण करती हैं.]


शब्द सिन्धु


अभि (abhi) = preposition
अभि+तड् (abhi+taD.h) = to strike
अभिकथनं (abhikathanaM) = (n) allegation
अभिक्रम (abhikrama) = in endeavouring
अभिचार (abhichaara) = black magic
अभिजनवान् (abhijanavaan.h) = surrounded by aristocratic relatives
अभिजातः (abhijaataH) = born of
अभिजातस्य (abhijaatasya) = of one who is born of
अभिजानन्ति (abhijaananti) = they know
अभिजानाति (abhijaanaati) = does know
अभिजायते (abhijaayate) = becomes manifest
अभिजित (abhijita) = A nakshatra between uttaraashhDhaa and shravaNa mainly centred on the star Vega. For some reason it is not usually included in the 27 nakshatras although it would make 28 if it was. adhipatii – Lord
अभिजिन्मुहूर्त (abhijin.hmuhuurta) = the most auspicious moment
अभितः (abhitaH) = everywhere
अभिद्रोहः (abhidrohaH) = (m) insurgency
अभिधानं (abhidhaanaM) = (n) designation
अभिधास्यति (abhidhaasyati) = explains
अभिधीयते (abhidhiiyate) = is called
अभिनन्दती (abhinandatii) = praises
अभिनय (abhinaya) = acting
अभिनिवेश (abhinivesha) = possessiveness
अभिन्यासः (abhinyaasaH) = (m) layout
अभिपुष्टिः (abhipushhTiH) = (f) affirmation
अभिप्रवृत्तः (abhipravRittaH) = being fully engaged
अभिप्रायः (abhipraayaH) = (m) opinion
अभिभवति (abhibhavati) = transforms
अभिभवात् (abhibhavaat.h) = having become predominant
अभिभूय (abhibhuuya) = surpassing
अभिमनः (abhimanaH) = conceit
अभिमान (abhimaana) = self-importance
अभिमुखाः (abhimukhaaH) = towards


पाठ (सातवलेकर पाठमाला से)


1 2 3

Try to understand this one liners without looking at translation. Write them down on card. Keep them at study table. Keep visiting them daily until you realize their meanings.

  • न कञ्च न वसतौ प्रत्याचक्षीत ।
  • न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
  • न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
  • न जातु कामः कामानामुपभोगे न शाम्यति।
  • न जातु कामः कामानाम् उपभोगे न शाम्यति।
  • न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
  • न नश्यति तमो नाम कृतया दीपवार्तया ।
  • न रत्नम् अन्विष्यति मृग्यते हि तत्।
  • न वक्तुमिच्छन्ति मृषा हितैषिणः ।
  • न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
  • न वारिणा शुद्ध्यति चान्तरात्मा ।
  • न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
  • न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
  • न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
  • न हि कृतमुपकारं साधवो विस्मरन्ति ।
  • न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
  • न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
  • न हि सर्वः सर्वं जानाति ।
  • न ह्यमूला जनश्रुतिः।

सुभाषित


येषां बाहुबलं न अस्ति येषां न अस्ति मनोबलम् ।
तेषां चंद्रबलं देवः किं करोति अम्बरे स्थितम् ॥ ॥

Those who do not have armstrength (physical strength) and those who do not have mental strength, What good can moon’s strength do to them being resident in the sky ?


पठन/स्मरण


You will always notice two points about Sanskrit Mahakavya(s).

  1. Vivid detailed description of mother nature and her changing colors with season
  2. Dharma / Niti

Sharing some notable excerpts from किरातार्जुनीयम्

धर्म/व्यवहार/निति अंश

क्रियासु युक्तैर्नृपचारचक्षुषो न वञ्चनीया: प्रभवोsनुजीविभि:।
अतोsर्हसि क्षंतुमसाधु साधु वा हितं मनोहारि च दुर्लभं वच:।।1:4।।
स किंसखा साधु न शास्ति योsधिपं हितान्न य: संश्रृणुते स किंप्रभु:।
सदाsनुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसंपद: ॥1:5॥

व्रजंति ते मूढधिप:है पराभवं भवन्ति मायाविषु ये न मायिन:।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषव:॥1:30॥

अवंध्यकोपस्य विहन्तुरापदां भवंति वश्या: स्वमेव देहिन:।
अमर्षशून्येन जनस्य जन्तुना न जातदार्हेन न विद्विषादर:॥1:33॥

सहसा विदधीत न क्रियामविवेक: परमापदां पदम्‌।
वृणुते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेवसम्पद:॥1:30॥

नैसर्गिक वर्णन

Read following one from Sarga 5

उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिजसम्भवः परागः ।
वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीं ।। ५.३९ ।।

I must share translation for this.

स्थल-कमलिनी का वन. उसमें फूले हुए कमल. वायु-चक्र के कारण चारों ओर फूलों से उड़ते पराग-कण. ऊपर आकाश में पहुंचकर वे मंडलाकार फैल जाते हैं. लगता है जैसे सुवर्णमय छत्र तन गया हो.

In 4th Sarga, there is beautiful description of Sharad Ritu!

किरातार्जुनीयम्/चतुर्थः सर्गः

ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणां ।
उपाससादोपजनं जनप्रियः प्रियां इवासादितयौवनां भुवं ।। ४.१ ।।

विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ।। ४.२ ।।

निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरीविवृत्तयः ।। ४.३ ।।

तुतोष पश्यन्कलमस्य स अधिकं सवारिजे वारिणि रामणीयकं ।
सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीं अनुरूपसंगमे ।। ४.४ ।।

नुनोद तस्य स्थलपद्मिनीगतं वितर्कं आविष्कृतफेनसंतति ।
अवाप्तकिञ्जल्कविभेदं उच्चकैर्विवृत्तपाठीनपराहतं पयः ।। ४.५ ।।

कृतोर्मिरेखं शिथिलत्वं आयता शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्ष्ॐअविपाण्डु सैकतं ।। ४.६ ।।

मनोरमं प्रापितं अन्तरं भ्रुवोरलंकृतं केसररेणुणाणुना ।
अलक्तताम्राधरपल्लवश्रिया समानयन्तीं इव बन्धुजीवकं ।। ४.७ ।।

नवातपालोहितं आहितं मुहुर्महानिवेशौ परितः पयोधरौ ।
चकासयन्तीं अरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ।। ४.८ ।।

कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीं अवतंसकोत्पलं ।
सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ।। ४.९ ।।

उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गां ।
तं उत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ।। ४.१० ।।

परीतं उक्षावजये जयश्रिया नदन्तं उच्चैः क्षतसिन्धुरोधसं ।
ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पं इवाधिपं गवां ।। ४.११ ।।

विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ।। ४.१२ ।।

गतान्पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।
ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ।। ४.१३ ।।

परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः ।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ।। ४.१४ ।।

निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः ।
व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ।। ४.१५ ।।

व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनां उन्मदयत्सु योषितः ।
मुहुः प्रणुन्नेषु मथां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरं ।। ४.१६ ।।

स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः ।
निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ।। ४.१७ ।।

पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः ।
रथाङ्गसीमन्तितसान्द्रकर्दमान्प्रसक्तसम्पातपृथक्कृतान्पथः ।। ४.१८ ।।

जनैरुपग्रामं अनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणैर्वृताः ।
भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ।। ४.१९ ।।

ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषं ।
उवाच यक्षस्तं अचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ।। ४.२० ।।

इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः ।
जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ।। ४.२१ ।।

उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यं अपङ्कता महीं ।
नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ।। ४.२२ ।।

पतन्ति नास्मिन्विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः ।
तथापि पुष्णाति नभः श्रियं परां न रम्यं आहार्यं अपेक्षते गुणं ।। ४.२३ ।।

विपाण्डुभिर्ग्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः ।
इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ।। ४.२४ ।।

विहाय वाञ्छां उदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ।। ४.२५ ।।

अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुं इवासितोत्पलं ।। ४.२६ ।।

मृणालिनीनां अनुरञ्जितं त्विषा विभिन्नं अम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डं इवाहिविद्विषः ।। ४.२७ ।।

विपाण्डु संव्यानं इवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः ।
अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ।। ४.२८ ।।

अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपं ।
ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ।। ४.२९ ।।

सितच्छदानां अपदिश्य धावतां रुतैरमीषां ग्रथिताः पतत्रिणां ।
प्रकुर्वते वारिदरोधनिर्गताः परस्परालापं इवामला दिशः ।। ४.३० ।।

विहारभूमेरभिघोषं उत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः ।
असक्तं ऊधांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ।। ४.३१ ।।

जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेयुषी ।
द्युतिं समग्रां समितिर्गवां असावुपैति मन्त्रैरिव संहिताहुतिः ।। ४.३२ ।।

कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने ।
इदं जिघत्सां अपहाय भूयसीं न सस्यं अभ्येति मृगीकदम्बकं ।। ४.३३ ।।

असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि ।
उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुतां ।। ४.३४ ।।

अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुं अलं शिलीमुखाः ।। ४.३५ ।।

मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती ।
शुकावलिर्व्यक्तशिरीषक्ॐअला धनुःश्रियं गोत्रभिदोऽनुगच्छति ।। ४.३६ ।।

इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः ।
विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ।। ४.३७ ।।

तं अतनुवनराजिश्यामितोपत्यकान्तं नगं उपरि हिमानीगौरं आसद्य जिष्णुः ।
व्यपगतमदरागस्यानुसस्मार लक्ष्मीं असितं अधरवासो बिभ्रतः सीरपाणेः ।। ४.३८ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्थः सर्गः ।

 

LEAVE A REPLY