SHARE

Gavya0

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनां ।।

Minds of great people are like water in the sea. Even under tumultuous conditions it does not breach its limits and does not get muddy when shaken.


शब्द सिन्धु


अपि (api) = also
अपीतेषु (apiiteshhu) = (Masc.Loc.Pl.) having not drunk(taken water)
अपुण्य (apuNya) = vice
अपुनरावृत्तिं (apunaraavRittiM) = to liberation
अपुष्प (apushhpa) = one without flowers
अपृथिव्योः (apRithivyoH) = to the earth
अपेक्ष् (apekSh.h) = to expect
अपेक्षा (apekShaa) = (f) expectation, hope
अपैशुनं (apaishunaM) = aversion to fault-finding
अपोहनं (apohanaM) = forgetfulness
अप्ययौ (apyayau) = disappearance
अप्रकाशः (aprakaashaH) = darkness
अप्रतिमप्रभाव (apratimaprabhaava) = O immeasurable power
अप्रतिष्ठं (apratishhThaM) = without foundation
अप्रतिष्ठः (apratishhThaH) = without any position
अप्रतीकारं (apratiikaaraM) = without being resistant
अप्रदाय (apradaaya) = without offering
अप्रमेय (aprameya) = the ununderstandable
अप्रमेयं (aprameyaM) = immeasurable
अप्रमेयस्य (aprameyasya) = immeasurable
अप्रवृत्तिः (apravRittiH) = inactivity
अप्राप्तत् (apraaptat.h) = uttained, obtained
अप्राप्य (apraapya) = failing to attain
अप्रामामाण्य (apraamaamaaNya) = Unjustified
अप्रियं (apriyaM) = the unpleasant
अप्रियः (apriyaH) = and the undesirable
अप्सु (apsu) = in water
अफल (aphala) = one without fruit
अफलप्रेप्सुना (aphalaprepsunaa) = by one without desire for fruitive result
अफलाकाङ्क्षिभिः (aphalaakaa.nkShibhiH) = by those devoid of desire for result
अबन्धु (abandhu) = one who does not have any brothers / kinmen
अबल (abala) = helpless (woman)
अबला (abalaa) = (helpless) Woman
अबुद्धयः (abuddhayaH) = less intelligent persons
अबोध (abodha) = Ignorance
अब्द (abda) = Season of plenty
अब्धि (abdhi) = sea
अब्धी (abdhii) = (m) ocean, sea
अब्रवीत् (abraviit.h) = spoke
अब्रह्मण्य (abrahmaNya) = Not kosher
अभक्ताय (abhaktaaya) = to one who is not a devotee
अभय (abhaya) = freedom from fear
अभयं (abhayaM) = fearlessness
अभये (abhaye) = and fearlessness
अभवत् (abhavat.h) = became
अभविष्यत् (abhavishhyat.h) = will become
अभावः (abhaavaH) = changing quality
अभावयतः (abhaavayataH) = of one who is not fixed
अभाषत (abhaashhata) = began to speak


पाठ


1 2 3

Try to understand this one liners without looking at translation. Write them down on card. Keep them at study table. Keep visiting them daily until you realize their meanings.

  • सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
  • सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
  • सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
  • संसर्गजाः दोषगुणाः भवन्ति ।
  • बलीयसी केवलमीश्वरेच्छा।
  • बुद्धिर्यस्य बलं तस्य।
  • बुभुक्षितं न प्रतिभाति किञ्चित्।
  • बुभुक्षितः किं न करोति पापम्।
  • बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।
  • ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।

सुभाषित


परिवर्तिनि संसारे मॄत: को वा न जायते |
स जातो येन जातेन याति वंश: समुन्न्तिम् ||

नितीशतक 32

In this ever-rotating wheel of birth and death, who that is dead, is not indeed born again? But he alone is (considered as) born by whose birth (his) family attains eminence.


पठन/स्मरण/मनन


बृहत्त्रयी के अंतर्गत तीन महाकाव्य आते हैं – “किरातार्जुनीय” “शिशुपालवध” और “नैषधीयचरित”।

Today, we will spend some time with महाकवि भारवि’s work.

किरातार्जुनीयम् महाकवि भारवि द्वारा सातवीं शती ई. में रचित महाकाव्य है जिसे संस्कृत साहित्य में महाकाव्यों की ‘वृहत्त्रयी’ में स्थान प्राप्त है। महाभारत में वर्णित किरातवेशी शिव के साथ अर्जुन के युद्ध की लघु कथा को आधार बनाकर कवि ने राजनीति, धर्मनीति, कूटनीति, समाजनीति, युद्धनीति, जनजीवन आदि का मनोरम वर्णन किया है। यह काव्य विभिन्न रसों से ओतप्रोत है किन्तु यह मुख्यतः वीर रस प्रधान रचना है।

इतिहासकथुब्भूतं, सन्तसन्‍निस्सयम्पि वा।

काव्यादर्श अलंकारशास्त्राचार्य दंडी (६ठी – ७वीं शती ई.) द्वारा रचित संस्कृतकाव्यशास्त्र संबंधी प्रसिद्ध ग्रंथ है।

Not all Kavya(s) are called Mahakavya. It is not the length but many other criteria that decides the status of Kavya as Mahakavya. For example: It has to be इतिवृत. Story of Mahakavya should be based on Itihas or well-known popular benevolent person. It is story based on Mahabharata, referenced from Vana parva.

विभावभावानुभाव सञ्चार्यौचित्यचारूणः । विधिः कथाशरीरस्य वृर्त्तस्योत्प्रेक्षितस्य वा।

ध्वन्यालोकः/उद्द्योतः ३ – १०

Not only that, कवि’s job is to instill and maintain रस in portion of इतिहास where it is missing as per Kavi.

 

Let us read this first Sarg. Tomorrow, we will explore notable quotes from this KAvya.

 

किरातार्जुनीयम्/प्रथमः सर्गः

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ।। १.१ ।।

कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ।। १.२ ।।

द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ।। १.३ ।।

क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ।। १.४ ।।

स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ।। १.५ ।।

निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमबोधि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ।। १.६ ।।

विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ।। १.७ ।।

तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन्भूतिमनार्यसंगमाद्वरं विरोधोऽपि समं महात्मभिः ।। १.८ ।।

कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तंदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ।। १.९ ।।

सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ।। १.१० ।।

असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ।। १.११ ।।

निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियां ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ।। १.१२ ।।

वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवं ।। १.१३ ।।

विधाय रक्षान्परितः परेतरानशङ्किताकारमुपैति शङ्कितः ।
क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ।। १.१४ ।।

अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाम् ।
फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसम्पदः ।। १.१५ ।।

अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरं ।
नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ।। १.१६ ।।

सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन्कुरवश्चकासति ।। १.१७ ।।

महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ।। १.१८ ।।

उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ।। १.१९ ।।

महीभुजां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः ।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ।। १.२० ।।

न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् ।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ।। १.२१ ।।

स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ।। १.२२ ।।

प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः ।
स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ।। १.२३ ।।

कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद्व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ।। १.२४ ।।

तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ।। १.२५ ।।

इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् ।
प्रविश्य कृष्णा सदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ।। १.२६ ।।

निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ।। १.२७ ।।

भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ।। १.२८ ।।

अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ।। १.२९ ।।

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ।। १.३० ।।

गुणानुरक्तां अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इवापहारयेन्मनोरमां आत्मवधूं इव श्रियं ।। १.३१ ।।

भवन्तं एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कं इवाग्निरुच्छिखः ।। १.३२ ।।

अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयं एव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ।। १.३३ ।।

परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति ते कच्चिदयं वृकोदरः ।। १.३४ ।।

विजित्य यः प्राज्यं अयच्छदुत्तरान्कुरूनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन्करोति मन्युं न कथं धनंजयः ।। १.३५ ।।

वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वं एतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुं ।। १.३६ ।।

इमां अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ।। १.३७ ।।

पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भां अधिशय्य स स्थलीं जहासि निद्रां अशिवैः शिवारुतैः ।। १.३८ ।।

पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ।। १.३९ ।।

अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषां ।। १.४० ।।

द्विषन्निमित्ता यदियं दशा ततः समूलं उन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनां ।। १.४१ ।।

विहाय शान्तिं नृप धाम तत्पुनः प्रसीद संधेहि वधाय विद्विषां ।
व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ।। १.४२ ।।

पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारं ईदृशं ।
भवादृशाश्चेदधिकुर्वते परान्निराश्रया हन्त हता मनस्विता ।। १.४३ ।।

अथ क्षमां एव निरस्तसाधनश्चिराय पर्येषि सुखस्य साधनं ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधीह पावकं ।। १.४४ ।।

न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ।। १.४५ ।।

विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलबलं अगाधे मग्नं आपत्पयोधौ ।
रिपुतिमिरं उदस्योदीयमानं दिनादौ दिनकृतं इव लक्ष्मीस्त्वां समभ्येतु भूयः ।। १.४६ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये प्रथमः सर्गः ।

 

LEAVE A REPLY