SanskritLearning

SanskritLearning

संस्कृत गोवीथि : : गव्य ३० (शंकराचार्य विशेष)

Gavya30

स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि ।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥

The dream is unreal in waking, whereas the waking experience is absent in the dream. Both, however, are non-existent in deep sleep which, again, is not experienced in either.

 


शब्द सिन्धु


प्रयुंजानो (prayu.njaano) = combined
प्रयुक्तः (prayuktaH) = impelled
प्रयुक्तव्यं (prayuktavyaM) = should be used
प्रयुज्यते (prayujyate) = is used
प्रयुज्येत् (prayujyet.h) = is used
प्रयोग (prayoga) = practice
प्रयोगः (prayogaH) = (m) experiment
प्रयोगशाला (prayogashaalaa) = (f) laboratory
प्रयोजन (prayojana) = (n) reason
प्रयोजनीयं (prayojaniiyaM) = should use
प्रलपन् (pralapan.h) = talking
प्रलयं (pralayaM) = dissolution
प्रलयः (pralayaH) = annihilation
प्रलयान्तां (pralayaantaaM) = unto the point of death
प्रलये (pralaye) = in the annihilation
प्रलीनः (praliinaH) = being dissolved
प्रलीयते (praliiyate) = is annihilated
प्रलीयन्ते (praliiyante) = are annihilated
प्रलोभनं (pralobhanaM) = allure
प्रवचनेन (pravachanena) = (instr.sing.)thro’ discourse or lecture
प्रवदतां (pravadataaM) = of arguments
प्रवदन्ति (pravadanti) = say
प्रवर्तक (pravartaka) = (adj m) a promoter
प्रवर्तते (pravartate) = act
प्रवर्तन्ते (pravartante) = they flourish
प्रवर्तितं (pravartitaM) = established by the Vedas
प्रवक्ष्यामि (pravakShyaami) = I shall explain
प्रवक्ष्ये (pravakShye) = I shall explain
प्रवालाः (pravaalaaH) = twigs
प्रवासः (pravaasaH) = (m) journey, travel, trip
प्रवाह (pravaaha) = current
प्रवाहः (pravaahaH) = (m) current, flow
प्रविभक्तं (pravibhaktaM) = divided
प्रविभक्तानि (pravibhaktaani) = are divided


पाठ


We are in revision mode. Keep reading based on learning so far.

1 2

Use this sentences in daily life.

  • एकः प्रजायते जन्तुः एकः एव प्रलीयते।
  • एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
  • एति जीवन्तमानन्दो नरं वर्षशतादपि ।
  • कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
  • कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
  • कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
  • कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
  • कार्यकाले दुर्लभः पुरुषसमुदायः ।
  • कार्यं निदानाद्धि गुणानधीते ।
  • किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
  • कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
  • कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
  • कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
  • कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
  • क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
  • क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
  • क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
  • क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।

सुभाषित


कर्मोक्तिनर्मनिर्माणै: प्रात: प्रात: प्रधावताम्।
धनं धनं प्रलपतां निधनं विस्मृतं नृणाम्॥

By creating the pastime of various actions and running (to and fro) from morning to morning, talking of nothing but money, men forget that (such a thing as) death exists.


पठन -> मनन -> स्मरण -> आत्मसात


Today we will focus on स्वरूपानुसन्धानाष्टकम्

तपोयज्ञदानादिभिः शुद्धबुद्धि-
र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या .
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि .. १..
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य मत्या विचार्य स्वरूपम् .
यदाप्नोति तत्त्वं निदिध्यास विद्वान्-
परं ब्रह्म नित्यं तदेवाहमस्मि .. २..
यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदहीनम् .
अहंब्रह्मवृत्त्यैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ३..
यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे .
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ४..
निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् .
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ५..
यदानन्दलेशैः समानन्दि विश्वं
यदाभाति सत्त्वे तदाभाति सर्वम् .
यदालोकने रूपमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ६..
अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् .
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ७..
यदानन्द सिन्धौ निमग्नः पुमान्स्या-
दविद्याविलासः समस्तप्रपञ्चः .
तदा नः स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि .. ८..
स्वरूपानुसन्धानरूपां स्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः .
श्रुणोतीह वा नित्यमुद्युक्तचित्तो
भवेद्विष्णुरत्रैव वेदप्रमाणात् .. ९..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
स्वरूपानुसन्धानाष्टकम् संपूर्णम् ..

 

संस्कृत गोवीथि : : गव्य ४० (पुराण विशेष) :: वृक्ष प्रतिष्ठा

Gavya40

वृक्ष प्रतिष्ठा

This is finest example of how well we used to take care of trees and plants. They were setup in community as living beings.

आचार्ये द्विगुणं दद्यात्पूर्ववन्मण्डपादिकम् ।७०.००८
पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥७०.००८

Establishing trees and sacred groves can wipe out one’s sins and receives highest merits!

With the प्राण प्रतिष्ठा, life infusion, trees can last hundreds of years, but without it? Not our responsibility. Hence, it was compulsory to perform वृक्ष प्रतिष्ठा!

You believe it or not, trees can survive for long if they are infused by Prana of worshipers. This infusion of Prana, via trees, then spread to community for their well-being.

[Old note on same subject]

Planting tree is very sensitive activity. Equivalent to raising children.
No parents wish their children to die prematurely or live painful suffering life.
For the well-being of the tree-life, try to follow during plantation:

• Worship Varuna, Vishnu and Parjanya for the well being of the plant before planting it.
• Worship sapling or seed itself before planting it.
• Make oneself mentally pure and physically clean before starting planting activity.
• Planting in Uttara, Rohini, Anuradha, Chirta, Mrigsira, Ravati, Mula, Vishakha, Tishya, Sravan, Aswini and hasta Nakshatra influences a tree and helps it flourish at best potential.

Reference: Brihat Samhita and Agni puran

Educate children, friends and relatives involved in tree-planting and farming.


शब्द सिन्धु


हित्वा (hitvaa) = having given up/abandoned
हिनस्ति (hinasti) = degrade
हिमालयः (himaalayaH) = the Himalayan mountains
हिरण्यकश्यपु (hiraNyakashyapu) = a demon king, killed by Vishnu
हिरण्यगर्भ (hiraNyagarbha) = Effulgent, a name of Sun
हिरण्यगर्भः (hiraNyagarbhaH) = the Golden Embryo of life and form
हीनौ (hiinau) = bereft, having lost
हुत (huta) = offerings (usually made to a fire)
हुतं (hutaM) = offered
हुतभुक् (hutabhuk.h) = fire (one who eats offerings)
हुताशवक्त्रं (hutaashavaktraM) = fire coming out of Your mouth
हृ (hRi) = to steal
हृत (hRita) = deprived of
हृतत् (hRitat.h) = heart
हृत्स्थं (hRitsthaM) = situated in the heart
हृद् (hRid.h) = heart (neut)
हृदय (hRidaya) = heart
हृदयं (hRidayaM) = heart
हृदयस्थं (hRidayasthaM) = heart-stationed
हृदयानि (hRidayaani) = hearts
हृदयी (hRidayii) = in my heart
हृदयेषु (hRidayeshhu) = in the hearts of
हृदि (hRidi) = in the heart
हृद्देशे (hRiddeshe) = in the location of the heart
हृद्याः (hRidyaaH) = pleasing to the heart
हृषितः (hRishhitaH) = gladdened
हृषीकेश (hRishhiikesha) = O master of all senses
हृषीकेशं (hRishhiikeshaM) = unto Lord KRishhNa
हृषीकेशः (hRishhiikeshaH) = Hrsikesa (KRishhNa, the Lord who directs the senses of the devotees)
हृष्टरोमा (hRishhTaromaa) = with his bodily hairs standing on end due to his great ecstasy
हृष्यति (hRishhyati) = takes pleasure
हृष्यामि (hRishhyaami) = I am enjoying
हेतवः (hetavaH) = causes
हेतु (hetu) = intention
हेतुः (hetuH) = aim (Here: cause)
हेतुना (hetunaa) = for the reason
हेतुमद्भिः (hetumadbhiH) = with cause and effect
हेतोः (hetoH) = in exchange
हेमन् (heman.h) = gold
हेमन्त (hemanta) = (masc) winter
होरा (horaa) = A Varga. The Division of a sign into Solar and Lunar or Division into halves. Used for determining Wealth amongst other things
ह्यः (hyaH) = yesterday
ह्रस्वा (hrasvaa) = (adj) short
ह्रियते (hriyate) = is attracted
ह्रीः (hriiH) = modesty
क्षणं (kShaNaM) = one second
क्षणप्रभा (kShaNaprabhaa) = (f) lightning
क्षणवियोग (kShaNaviyoga) = momentary separation
क्षणवीक्षित (kShaNaviikshita) = glance
क्षत्रिय (kShatriya) = the caste of princes and warriors
क्षत्रियबलं (kShatriyabalaM) = the power or might of the kshatriyas or kings
क्षत्रियस्य (kShatriyasya) = of the ksatriya
क्षत्रियाः (kShatriyaaH) = the members of the royal order


पाठ


1 2


सुभाषित


सत्यं ब्रुयात् प्रियम् ब्रुयान्नब्रुयात् सत्यमप्रियम् |
प्रियम् च नानॄतम् ब्रुयादेष: धर्म: सनातन: ||

speak true, speak what is pleasant to others. don’t tell truth which is not pleasant (which is harmful) (similarly) even though pleasant, don’t speak false, this is Darmah


पठन -> मनन -> स्मरण -> आत्मसात


वृक्ष प्रतिष्ठा

भगवानुवाच
प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ।७०.००१
सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥७०.००१
वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत् ।७०.००२
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ॥७०.००२
हेमशलाकयाञ्जनञ्च वेद्यान्तु फलसप्तकम् ।७०.००३
अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं ॥७०.००३
इन्द्रादेरधिवासोऽथ होमः कार्यो वनस्पतेः ।७०.००४
वृक्षमध्यादुत्सृजेद्गां ततोऽभिषेकमन्त्रतः ॥७०.००४
ऋग्यजुःसाममन्त्रैश्च वारुणैर्मङ्गलै रवैः(१) ।७०.००५
वृक्षवेदिककुम्भकैश्च(२) स्नपनं द्विजपुङ्गवाः ॥७०.००५
तरूणां यजमानस्य कुर्युश्च यजमानकः ।७०.००६
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥७०.००६

क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।७०.००७
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७०.००७
आचार्ये द्विगुणं दद्यात्पूर्ववन्मण्डपादिकम् ।७०.००८
पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥७०.००८
स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु ।७०.००९
सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः ॥७०.००९

इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥

 

 

संस्कृत गोवीथि : : गव्य ४६ : कृष्ण जन्म विशेष : सांख्यकारिका

Gavya45

He personified himself as Kapil Rishi among all Rishi(s). Rishi Kapil is the founder of the Samkhya school of Hindu philosophy.

Today, we will study सांख्यकारिका. सांख्यकारिका सांख्य दर्शन का सबसे पुराना उपलब्ध ग्रन्थ है। इसके रचयिता ईश्वरकृष्ण हैं। संस्कृत के एक विशेष प्रकार के श्लोकों को “कारिका” कहते हैं।

आचार्यश्रीईश्वरकृष्णविरचिता सांख्यकारिका

दु:खत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्तोऽभावात् ॥ १ ॥

दृष्टवदानुश्रविक: स ह्यविशुद्धिक्षयातिशययुक्त्: ।
तद्विपरीत: श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥

मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतय: सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृति: पुरुष: ॥ ३ ॥

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धि: प्रमाणाद्धि ॥ ४ ॥

प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥। ५ ॥

सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥ ६ ॥

अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्च ॥ ७ ॥

सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धे: ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८ ॥

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९ ॥

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिंङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥

त्रिगुणमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥

प्रीत्यप्रीतिविषादात्मका: प्रकाशप्रवृत्तिनियमार्था: ।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणा: ॥ १२ ॥

सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रज: ।
गुरु वरणकमेव तम: प्रदीपवच्चार्थतो वृत्ति: ॥ १३ ॥

अविवेक्यादे: सिद्धिस्त्रैगुण्यात् तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥

भेदानां परिमाणात् समन्वयात् शक्तित: प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य ॥ १५ ॥

कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणत: समुदयाच्च ।
परिणामत: सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥

संघातपरार्थत्वात् त्रिगुणादिविपर्यादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥

जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥

तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीन: ॥ २० ॥

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृत: सर्ग: ॥ २१ ॥

प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशक: ।
तस्मादपि षोडशकात् पञ्चभ्य: पञ्चभूतानि ॥ २२ ॥

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥

अभिमानोऽहंकार: तस्माद्विविध: प्रवर्तते सर्ग: ।
एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव ॥ २४ ॥

सात्त्विक एकादशक: प्रवर्तते वैकृतादहंकारात् ।
भूतादेस्तन्मात्र: स तामसस्तैजसादुभयम् ॥ २५ ॥

बुद्धीन्द्रियाणि चक्षु:श्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहु: ॥ २६ ॥

उभयात्मकमत्र मन: सङ्कल्पमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥

रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्ति: ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥

स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्ति: प्राणाद्या वायव: पञ्च ॥ २९ ॥

युगपच्चतुष्टयस्य तु वृत्ति: क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य् तत्पूर्विका वृत्ति: ॥ ३० ॥

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥ ३१ ॥

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥

अन्त:करणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥

बुद्धिन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥

सान्त:करणा बुद्धि: सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥

एते प्रदीपकल्पा: परस्परविलक्षणा गुणविशेषा: ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥

सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धि: ।
सैव च विशिनष्टि पुन: प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्य: ।
एते स्मृता विशेषा: शन्ता घोराश्च मूढाश्च ॥ ३८ ॥

सूक्ष्मा मातापितृजा: सह प्रभूतैस्त्रिधा विशेषा: स्यु: ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥

चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथाच्छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥

सांसिद्धिकाश्च भावा: प्राकृतिका वैकृताश्च धर्माद्या: ।
दृष्टा: करणाश्रयिण: कार्याश्रयिणश्च कललाद्या: ॥ ४३ ॥

धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्ध: ॥ ४४ ॥

वैराग्यात् प्रकृतिलय: संसारो भवति राजसाद् रागात् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यास: ॥ ४५ ॥

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्य: ।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत् ॥ ४६ ॥

पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धि: ॥ ४७ ॥

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोह: ।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्र: ॥ ४८ ॥

एकादशेन्द्रियवधा: सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा बुद्धेर्विपर्ययात् तुष्टिसिद्धीनाम् ॥ ४९ ॥

आध्यात्मिक्यश्चतस्र: प्रकृत्युपादानकालभाग्याख्या: ।
बाह्या विषयोपरमात् पञ्च च नव तुष्टयोऽभिमता: ॥ ५० ॥

उह: शब्दोऽध्ययनं दु:खविघातास्त्रय: सुह्रत्प्राप्ति: ।
दानं च सिद्धयोऽष्टौ सिद्धे: पूर्वोऽङ्कुशस्त्रिविध: ॥ ५१ ॥

न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्ति: ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविध: प्रवर्तते सर्ग: ॥ ५२ ॥

अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुषकश्चैकविध: समासतो भौतिक: सर्ग: ॥ ५३ ॥

उर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलत: सर्ग: ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्त: ॥ ५४ ॥

तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष: ।
लिङ्गस्याविनिवृत्तेस्तस्माद् दु:खं स्वभावेन ॥ ५५ ॥

इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्त: ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भ: ॥ ५६ ॥

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्ति: प्रधानस्य ॥ ५७ ॥

औत्सुक्यविनिवृत्यर्थं यथा क्रियासु प्रवर्तते लोक: ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथाऽत्मानं प्रकाश्य विनिवर्तते प्रकृति: ॥ ५९ ॥

नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंस: ।
गुणवत्यगुणस्य सत: तस्यार्थमपार्थकं चरित ॥ ६० ॥

प्रकृते: सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥

तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कञ्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृति: ॥ ६२ ॥

रूपै: सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृति: ।
सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ ६३ ॥

एवं तत्वाभ्यास्यान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुष: प्रेक्षकवदवस्थित: स्वस्थ: ॥ ६५ ॥

रङ्गस्थ इत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयो: प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥

सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच् चक्रभ्रमिवद् धृतशरीर: ॥ ६७ ॥

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृतौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥

पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥

एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ॥ ७० ॥

शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्यादिभि: ।
संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥

सप्तत्यां किल येऽर्थास्तेऽर्था: कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिता: परवादविवर्जिताश्चापि ॥ ७२ ॥

संस्कृत गोवीथि : : गव्य ५२ : गणेश पूजा विशेष

Gavya51

॥ श्रीगणेशकवचम् ॥

श्रीगणेशाय नमः ॥

गौर्युवाच ।
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥

मुनिरुवाच ।
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३॥

विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४॥

ललाटं कश्यपः पातु भृयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८॥

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९॥

गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १०॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥

दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४॥

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५॥

राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् ।
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७॥

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥ १८॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥ २१॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥ २३॥

राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४॥

इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ २५॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६॥

यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७॥

इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ॥

संस्कृत गोवीथी : : गव्य 5

Gavya_4

 


शब्द सिन्धु


मरालस्य – हंस का

रसाल: – आम वृक्ष

वाक्पटुता – वाणी कुशलता

मूर्धजा – सर के बाल

 


पाठ


Bookish

Patha1 Patha2 PAtha3Meeting People

  • नमोनम: – Good Morning/Evening/afternoon
  • किं अत्र आगमनम्? – What made you come here?
  • आगच्छतु भो: गृहं गच्छाम: – Come, let us go home.

 


सुभाषित


अस्ति यद्यपि सर्वत्र । नीरं नीरज-मण्डितम् । रमते न मरालस्य । मानसं मानसं विना ।।

Even if water full of lotuses be there everywhere, mind of a swan is not joyous except in the मानस-lake.

 


पठन/मनन


रघु-कौत्स संवाद

Raghu1

तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम्|
उत्पातविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः॥ ५-१

स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः|
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः॥ ५-२

तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी|
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच॥ ५-३

अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते|
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः॥ ५-४

तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे|
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम्॥ ५-११

इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य|
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः॥ ५-१२

सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम्|
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा॥ ५-१३

शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः|
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः॥ ५-१५

तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये|
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि॥ ५-१७

एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य|
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त॥ ५-१८

ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय|
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे॥ ५-१९

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै|
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात्॥ ५-२०

निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः|
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति॥ ५-२१

इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण|
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः॥ ५-२३

गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम्|
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः॥ ५-२४

स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्निगारे|
द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम्॥ ५-२५

तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा|
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात्॥ ५-२६

प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः|
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः॥ ५-२९

स भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात्|
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्॥ ५-३०

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतानभिनन्द्यसत्त्वौ|
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च॥ ५-३१

Re-read above conversation 5 times.

Read English translation here: http://sanskritdocuments.org/sites/giirvaani/giirvaani/rv/sargas/05_rv.htm

 

संस्कृत गोवीथि : : गव्य ४9 : कृष्ण जन्म विशेष : विद्यारण्य रचित पंचदशी

विद्यारण्य रचित पंचदशी

The Panchadasi is a basic text which introduces into central doctrine of Advaita Vedantic philosophy. Deeper concepts are dealt in more advanced treatise the Upanishads, the Brahmasutras and the Bhagavadgita.

To understand Karma Yoga sung by Shri Krishan, these additional tools helps.

Gavya45

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते

नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते

व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ।३०।

The jIva perform actions for the purpose of enjoying. They enjoy having done the actions. They go from one birth to another like a worm caught up in a stream passes from one whirlpool to another; and they don’t get any happiness at all.

Here is the first chapter for Sanskrit Study

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने | सविलासमहामोहग्राहग्रासैककर्मणे ||१||

तत्पादाम्बुरुहद्वङ्द्वसेवानिमर्लचेतसाम् | सुखबोधाय तत्त्वस्य विवेदो’यं विधीयते ||२||

सब्दस्पर्शादयो वेद्यावैचित्र्याज्जागरे पृथक् | ततो विभक्ता तत्संवितैकरूप्यान्न भिद्यते ||३||

तथा स्वप्ने’त्र वेद्यं तु न स्थिरं जागरे स्थिरम् | तद्बेह्दो’तस्तयोः संविदेकरूपा न भिद्यते ||४||

सुपोत्थितस्य सौष्प्ततमोबोधो भवेत्स्मृतिः | सा चावबुद्धविषया’वबुद्धं तत्तदा तमः ||५||

स बोधो विषयाद्भिन्नो न बोधात्स्वप्नबोधवत् | एवं स्थान त्रये’प्येका संविद्तत्वद्दिनान्तरे ||६||

मासाब्दयुगकल्पेषु गतागम्येष्वनेकधा | नोदेति नास्तमेत्यका संविदेषा स्वयंप्रभा ||७||

इयमात्मा परानन्दः परप्रेमास्पदं यतः | मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ||८||

तत्प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनह् | अतसत्परमं तेन परमानन्दतात्मनः ||९||

इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् | परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ||१०||

अभाने न परं प्रेम भाने न विषये स्पृहा | अतो भाने’प्यभाता’सौ परमानन्दतात्मनः||११||

अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत् | भाने’प्यभानं भानस्य प्रतिबन्धेन युज्यते ||१२||

प्रतिबन्धो’स्तिभातीतिव्यवहारार्हवस्तुनि | तं निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ||१३||

तस्य हेतुः समानाभिहारः पुत्रध्वनिश्रुतौ | इहानादिरविद्यैव व्यामोहैकनिबन्धनम् ||१४||

चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता | तमोरजस्सत्वगुणा प्रकृतिर्दिविविधा च सा ||१५||

सत्वशुद्ध्यविशुद्धिभ्यां माया’विद्ये च ते मते | मायाबिम्बो वशीकृत्य तां स्यास्तर्वज्ञ ईश्वरः ||१६||

अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा | सा कारणशरीरं स्यात् प्राज्ञस् तत्रा भिमान वान् ||१७||

तमःप्रधानप्रकृतेस्तद्भोगायेश्र्वराज्ञया | वियत्पवनतेजो’म्बुभुवो भूतानि जज्ञिरे ||१८||

सत्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् | श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते ||१९||

तैरन्तःकरणं सर्वै वृत्ति भेदेन तद् द्विधा | मनो विमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका ||२०||

रजोंशैः पञ्चभिस्तेषां क्रमात्कर्मेनिन्द्रयाणि तु | वाक्पाणिपादपायुपस्थअभिधानानि जज्ञिरे ||२१||

तैः सर्वैः सहितैः प्राणो वृत्तिभेदात्स पञ्चधा | प्राणो’पानः समानश्चोदानव्यानौ च ते पुनः ||२२||

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया | शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ||२३||

प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते | हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥२४॥

समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् | तदभावात्ततो’न्ये तु कथ्यन्ते व्यष्टिसंज्ञया ||२५||

तद् भोगाय पुनर्भोग्यभोगायतनजन्मने | पञ्चीकरोति भगवान्प्रयेकं वियदादिकम् ||२६||

द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः| स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते ||२७||

तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद् भवः| हिरण्यगर्भः स्थूले’स्मिन्देहे वैश्वानरो भवेत् ||२८||

तैजसा विश्वतां याता देवतिर्यङ्नरादयः | ते पराग्दर्शिनः प्रत्यक्तत्त्वबोधविवर्जिताः ||२९||

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते|

नद्यां कीटा इवावर्तादावर्तांतरमाशु ते| व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ||३०||

सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः| प्राप्य तीरतरुच्छायां विश्रा यन्ति यथासुखम् ||३१||

उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः| पञ्चकोशविवेकेन लभन्ते निर्वृतिं पराम् ||३२||

अन्नं प्राणो मनो बुद्धिराननश्चेति पञ्च ते, कोशास्तैरावृतः स्वात्मा विस्मृत्या संसृतिं व्रजेत् ||३३||

स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलो’न्नसंज्ञाकः| लिङ्गे तु राजसै प्राङैः प्राङः कर्मेनिन्द्रियैः सह ||३४||

You can download the book with hindi translation here:

https://ia800503.us.archive.org/22/items/Panchadasi.by.Vidyaranya.Swami.Hindi/Panchadasi.by.Vidyaranya.Swami.pdf

संस्कृत गोवीथि : : गव्य २९ (शंकराचार्य विशेष)

Gavya29

 


शब्द सिन्धु


यज्ञ (yaGYa) = a sacrifice
यज्ञं (yaGYaM) = sacrifice
यज्ञः (yaGYaH) = performance of yajna
यज्ञभाविताः (yaGYabhaavitaaH) = being satisfied by the performance of sacrifices
यज्ञविदः (yaGYavidaH) = conversant with the purpose of performing sacrifices
यज्ञशिष्ट (yaGYashishhTa) = of the result of such performances of yajna
यज्ञशिष्टा (yaGYashishhTaa) = of food taken after performance of yajna
यज्ञक्षपित (yaGYakShapita) = being cleansed as the result of such performances
यज्ञाः (yaGYaaH) = sacrifices
यज्ञात् (yaGYaat.h) = from the performance of sacrifice
यज्ञानां (yaGYaanaaM) = sacrifices
यज्ञाय (yaGYaaya) = for the sake of Yajna (KRishhNa)
यज्ञार्थात् (yaGYaarthaat.h) = done only for the sake of Yajna, or Visnu
यज्ञे (yaGYe) = in sacrifice
यज्ञेन (yaGYena) = by sacrifice
यज्ञेशः (yaGYeshaH) = lord of all sacrifices, worshipping rites
यज्ञेषु (yaGYeshhu) = in the performances of yajna, sacrifice
यज्ञैः (yaGYaiH) = with sacrifices
या (yaa) = to go
याचक (yaachaka) = begger
याचते (yaachate) = (1 ap) to beg, to plead
याजि (yaaji) = worshiper
यातयामं (yaatayaamaM) = food cooked three hours before being eaten
याता (yaataa) = (f) husband’s brother’s wife
याति (yaati) = goes
यात्रा (yaatraa) = maintenance
याथार्थ्यमेव (yaathaarthyameva) = the original nature of things or the natural states + alone
यादसां (yaadasaaM) = of all aquatics
यादृक् (yaadRik.h) = as it is
यान् (yaan.h) = those who
यान्ति (yaanti) = undergo
याभिः (yaabhiH) = by which
याम (yaama) = one-eighth part of day, three yaamaas constitute one night
यामिनि (yaamini) = night
यामिमां (yaamimaaM) = all these
यामुन (yaamuna) = of the yamunaa river
यावच्च||न्द्रश्च (yaavachcha||ndrashcha) = yAvat.h + chandraH + cha:till the moon and (sun last)
यावत् (yaavat.h) = by the time when
यावन्तः (yaavantaH) = as many as
यावान् (yaavaan.h) = all that
यास्यसि (yaasyasi) = you will go
युक्त (yukta) = used
युक्तः (yuktaH) = dovetailed
युक्तचेतसः (yuktachetasaH) = their minds engaged in Me
युक्ततमः (yuktatamaH) = the greatest yogi
युक्ततमाः (yuktatamaaH) = most perfect in yoga
युक्तस्य (yuktasya) = engaged
युक्ता (yuktaa) = with
युक्ताः (yuktaaH) = engaged
युक्तात्म (yuktaatma) = having the mind firmly set on
युक्तात्मा (yuktaatmaa) = self-connected
युक्ति (yukti) = utility ; proportion
युक्ते (yukte) = being yoked
युक्तेन (yuktena) = being engaged in meditation
युक्तैः (yuktaiH) = engaged
युक्त्वा (yuktvaa) = being absorbed
युग (yuga) = World Ages
युगपत् (yugapat.h) = simultaneously
युगले (yugale) = dual
युगे (yuge) = millennium
युज् (yuj.h) = to yoke, join, concentrate on
युज्यते (yujyate) = is engaged
युज्यस्व (yujyasva) = engage (fight)
युञ्जतः (yuJNjataH) = constantly engaged
युञ्जन् (yuJNjan.h) = practicing
युञ्जीत (yuJNjiita) = must concentrate in KRishhNa consciousness
युञ्ज्यात् (yuJNjyaat.h) = should execute
युत (yuta) = equipped with
युतक (yutaka) = (n) shirt
युद्ध (yuddha) = Planetary War
युद्धं (yuddhaM) = war
युद्धविशारदाः (yuddhavishaaradaaH) = experienced in military science
युद्धात् (yuddhaat.h) = than fighting
युद्धाय (yuddhaaya) = for the sake of fighting
युद्धे (yuddhe) = in the fight
युधामन्युः (yudhaamanyuH) = Yudhamanyu
युधि (yudhi) = in the fight
युधिष्ठिरः (yudhishhThiraH) = Yudhisthira
युध्य (yudhya) = fight
युध्यते (yudhyate) = (4 ap) to fight
युध्यस्व (yudhyasva) = fight
युयुत्सवः (yuyutsavaH) = desiring to fight
युयुत्सुं (yuyutsuM) = all in a fighting spirit
युयुधानः (yuyudhaanaH) = Yuyudhana
युवन् (yuvan.h) = young
युवा (yuvaa) = the two youths
युष्मासु (yushhmaasu) = (Masc.Loc.Pl.) among yourselves
यूथ (yuutha) = (neut) collection, troop
ये (ye) = those who
येथेच्चया (yethechchayaa) = (adverb) at will
येन (yena) = by whom
येनकेनचित् (yenakenachit.h) = with anything
येषां (yeshhaaM) = whose


पाठ


Please read below lesson and understand it based on previous lessons.

1 2

सूक्तयः

  • इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ।
  • इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
  • ईर्ष्या कलहमूलं स्यात् ।
  • उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
  • उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
  • उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
  • उदारचरितानां तु वसुधैव कुटुम्बकम्।
  • उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
  • उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
  • उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
  • उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
  • उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
  • उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।

सुभाषित


सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् ।
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥

Just as things made up of Gold will has nature of Gold, so a being born of Brahman has always the nature of Brahman.


पठन -> मनन -> स्मरण


॥ स्वात्मप्रकाशिका ॥

॥श्रीः॥

॥स्वात्मप्रकाशिका॥

जगत्कारणमज्ञानमेकमेव चिदन्वितम्।
एक एव मनः साक्षी जानात्येवं जगत्त्रयम्॥१॥

विवेकयुक्तबुद्ध्याहं जानाम्यात्मानमद्वयम्।
तथापि बन्धमोक्षादिव्यवहारः प्रतीयते॥२॥

विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा।
इति संशयपाशेन बद्धोऽहं छिन्द्धि संशयम्॥३॥

एवं शिष्यवचः श्रुत्वा गुरुराहोत्तरं स्फुटम्।
नाज्ञानं न च बुद्धिश्च न जगन्न च साक्षिता॥४॥

गन्धमोक्षादयः सर्वे कृताः सत्ये'द्वये त्वयि।
भातीत्युक्ते जगत्सर्वं सद्रूपं ब्रह्म तद्भवेत्॥५॥

सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम्।
प्रपञ्चाधाररूपेण वर्तते तज्जगन्न हि॥६॥

यथेक्षुमभिसंव्याप्य शर्करा वर्तते तथा।
आश्चर्यब्रह्मरूपेण त्वं व्याप्तोऽसि जगत्त्रयम्॥७॥

मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत्।
जगत्त्रयमिदं सर्वं चिन्मात्रं सुविचारतः॥८॥

ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनस्त्वयि कल्पिताः।
बुद्बुदादितरङ्गान्ता विकाराः सागरे यथा॥९॥

तरङ्गत्वं ध्रुवं सिन्धुर्न वाञ्छति यथा तथा।
विषयानन्दवाञ्छा ते महदानन्दरूपतः॥१०॥

पिष्टं व्याप्य गुडं यद्वन्माधुर्यं न हि वाञ्छति।
पूर्णानन्दो जगद्व्याप्य तदानन्दं न वाञ्छति॥११॥

दारिद्र्याशा यथा नास्ति संपन्नस्य तथा तव।
ब्रह्मानन्दनिमग्नस्य विषयाशा न संभवेत्॥१२॥

विषं दृष्ट्वामृतं दृष्ट्वा विषं त्यजति बुद्धिमान्।
आत्मानमपि दृष्ट्वा त्वं त्यजानात्मानमादरात्॥१३॥

घटावभासको भानुर्घटनाशे न नश्यति।
देहावभासकः साक्षी देहनाशे न नश्यति॥१४॥

निराकारं जगत्सर्वं निर्मलं सच्चिदात्मकम्।
द्वैताभावात्कथं कस्माद्भयं पूर्णस्य मे वद॥१५॥

ब्रह्मादिकं जगत्सर्वं त्वय्यानन्दे प्रकल्पितम्।
त्वय्येव लीनं जगत्त्वं कथं लीयसे वद॥१६॥

न हि प्रपञ्चो न हि भूतजातं
न चेन्द्रियं प्राणगणो न देहः।
न बुद्धिचित्तं न मनो न कर्ता
ब्रह्मैव सत्यं परमात्मरूपम्॥१७॥

सर्वं सुखं विद्धि सुदुःखनाशा-
त्सर्वं च सद्रूपमसत्यनाशात्।
चिद्रूपमेव प्रतिभानयुक्तं
तस्मादखण्डं परमात्मरूपम्॥१८॥

चिदेव देहस्तु चिदेव लोका-
श्चिदेव भूतानि चिदिन्द्रियाणि।
कर्ता चिदन्तःकरणं चिदेव
चिदेव सत्यं परमार्थरूपम्॥१९॥

न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः।
मायामात्रविलासो हि मायातीतोऽहमद्वयः॥२०॥

राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः।
दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवाम्भसा॥२१॥

पुण्यानि पापकर्माणि स्वप्नगानि न जाग्रति।
एवं जाग्रत्पुण्यपापकर्माणि न हि मे प्रभोः॥२२॥

कायः करोतु कर्माणि वृथा वागुच्यतामिह।
राज्यं ध्यायतु वा बुद्धिः पूर्णस्य मम का क्षतिः॥२३॥

प्राणाश्चरन्तु तद्धर्मैः कामैर्वा हन्यतां मनः।
आनन्दामृतपूर्णस्य मम दुःखं कथं भवेत्॥२४॥

आनन्दाम्बुधिमग्नोऽसौ देही तत्र न दृश्यते।
लवणं जलमध्यस्थं यथा तत्र लयं गतम्॥२५॥

इन्द्रियाणि मनः प्राणा अहंकारः परस्परम्।
जाड्यसंगतिमुत्सृज्य मग्ना मयि चिदर्णवे॥२६॥

आत्मानमञ्जसा वेद्मि त्वज्ञानं प्रपलायितम्।
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित्॥२७॥

चिदमृतसुखराशौ चित्तफेनं विलीनं
क्षयमधिगत एव वृत्तिचञ्चत्तरङ्गः।
स्तिमितसुखसमुद्रो निर्विचेष्टः सुपूर्णः
कथमिह मम दुखं सर्वदैकोऽहमस्मि॥२८॥

आनन्दरूपोऽहमखण्डबोधः
परात्परोऽहं घनचित्प्रकाशः।
मेघा यथा व्योम न च स्पृशन्ति
संसारदुःखानि न मां स्पृशन्ति॥२९॥

अस्थिमांसपुरीषान्त्रचर्मलोमसमन्वितः।
अन्नादः स्थूलदेहः स्यादतोऽहं शुद्धचिद्घनः॥३०॥

स्थूलदेहाश्रिता एते स्थूलाद्भिन्नस्य मे न हि।
लिङ्गं जडात्मकं नाहं चित्स्वरूपोऽहमद्वयः॥३१॥

क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः।
लिङ्गदेहाश्रिता ह्येते नैवालिङ्गस्य मे विभोः॥३२॥

अनाद्यज्ञानमेवात्र कारणं देहमुच्यते।
नाहं कारणदेहोऽपि स्वप्रकाशो निरञ्जनः॥३३॥

जडत्वप्रियमोदत्वधर्माः कारणदेहगाः।
न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः॥३४॥

जीवाद्भिन्नः परेशोऽस्ति परेशत्वं कुतस्तव।
इत्यज्ञजनसंवादो विचारः क्रियतेऽधुना॥३५॥

अधिष्ठानं चिदाभासो बुद्धिरेतत्त्रयं यदा।
अज्ञानादेकवद्भाति जीव इत्युच्यते तदा॥३६॥

अधिष्ठानं न जीवः स्यात्प्रत्येकं निर्विकारतः।
अवस्तुत्वाच्चिदाभासो नास्ति तस्य च जीवता॥३७॥

प्रत्येकं जीवता नास्ति बुद्धेरपि जडत्वतः।
जीव आभासकूटस्थबुद्धित्रयमतो भवेत्॥३८॥

मायाभासो विशुद्धात्मा त्रयमेतन्महेश्वरः।
मायाभासोऽप्यवस्तुत्वात्प्रत्येकं नेश्वरो भवेत्॥३९॥

पूर्णत्वान्निर्विकारत्वाद्विशुद्धत्वान्महेश्वरः।
जडत्वहेतोर्मायायामीश्वरत्वं नु दुर्घटम्॥४०॥

तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत्।
इति जीवेश्वरौ भातः स्वाज्ञानान्न हि वस्तुतः॥४१॥

घटाकाशमठाकाशौ महाकाशे प्रकल्पितौ।
एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ॥४२॥

मायातत्कार्यविलये नेश्वरत्वं च जीवता।
ततः शुद्धचिदेवाहं चिद्व्योमनिरुपाधितः॥४३॥

सत्यचिद्धनमनन्तमद्वयं
सर्वदृश्यरहितं निरामयम्।
यत्पदं विमलमद्वयं शिवं
तत्सदाहमिति मौनमाश्रये॥४४॥

पूर्णमद्वयमखण्डचेतनं
विश्वभेदकलनादिवर्जितम्।
अद्वितीयपरसंविदंशकं
तत्सदाहमिति मौनमाश्रये॥४५॥

जन्ममृत्युसुखदुःखवर्जितं
जातिनीतिकुलगोत्रदूरगम्।
चिद्विवर्तजगतोऽस्य कारणं
तत्सदाहमिति मौनमाश्रये॥४६॥

उलूकस्य यथा भानावन्धकारः प्रतीयते।
स्वप्रकाशे परानन्दे तमो मूढस्य भासते॥४७॥

यथा दृष्टिनिरोधार्तो सूर्यो नास्तीति मन्यते।
तथाज्ञानावृतो देही ब्रह्म नास्तीति मन्यते॥४८॥

यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते।
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशयन्॥४९॥

स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः।
स्वल्पोऽपि बोधो महतीमविद्यां शमयेत्तथा॥५०॥

चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम।
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति तत्त्रयम्॥५१॥

कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि।
अहंकारादि देहान्तं जगन्नास्त्यहमद्वयः॥५२॥

भानौ तमःप्रकाशत्वान्नाङ्गीकुर्वन्ति सज्जनाः।
तमस्तत्कार्यसाक्षीति भ्रान्तबुद्धिरहो मयि॥५३॥

यथा शीतं जलं वह्निसंबन्धादुष्णवद्भवेत्।
बुद्धितादात्म्यसंबन्धात्कर्तृत्वं वस्तुतो न हि॥५४॥

जलबिन्दुभिराकाशं न सिक्तं न च शुध्यति।
तथा गङ्गाजलेनायं न शुद्धो नित्यशुद्धतः॥५५॥

वृक्षोत्पन्नफलैर्वृक्षो यथा तृप्तिं न गच्छति।
मय्यध्यस्तान्नपानाद्यैस्तथा तृप्तिर्न विद्यते॥५६॥

स्थाणौ प्रकल्पितश्चोरः स स्थाणुत्वं न बाधते।
स्वस्मिन्कल्पितजीवश्च स्वं बाधितुमशक्यते॥५७॥

अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः।
विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत्॥५८॥

बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते।
विकारादिविहीनत्वाज्जागरो मे न विद्यते॥५९॥

सूक्ष्मनाडीषु संचारो बुद्धेः स्वप्नः प्रजायते।
संचारधर्मरहिते स्वप्नो नास्ति तथा मयि॥६०॥

परिपूर्णस्य नित्यस्य शुद्धस्य ज्योतिषो मम।
आगन्तुकमलाभावात्किं स्नानेन प्रयोजनम्॥६१॥

देशाभावात्क्व गन्तव्यं स्थानाभावात्क्व वा स्थितिः।
पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः॥६२॥

प्राणसंचारसंशोषात्पिपासा जायते खलु।
शोषणानर्हचिद्रूपे मय्येषा जायते कथम्॥६३॥

नाडीषु पीड्यमानासु वाय्वग्निभ्यां भवेत्क्षुधा।
तयोः पीडनहेतुत्वात्संविद्रूपे कथं मयि॥६४॥

शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम्।
जरा भवति सा नास्ति निरंशे मयि सर्वगे॥६५॥

योषित्क्रीडा सुखस्यान्तर्गर्वाढ्यं यौवनं किल।
आत्मानन्दे परे पूर्णे मयि नास्ति हि यौवनम्॥६६॥

मूढबुद्धिपरिव्याप्तं दुःखानामालयं सदा।
बाल्यं कोपनशीलान्तं न मे सुखजलाम्बुधेः॥६७॥

एवं तत्त्वविचाराब्धौ निमग्नानां सदा नृणाम्।
परमाद्वेतविज्ञानमपरोक्षं न संशयः॥६८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
स्वात्मप्रकाशिका संपूर्णा॥

Trailblazing Sanskrit Learning : New Beginning

0

As the Vikram Samvat 2074 Begins, I decided to trail-blaze a formal path of learning Sanskrit.

I will be following several sources but primarily, I will follow Sanskrit Swayam Shikshak book by Pandit Satvalekar.

6077_sanskritshikshak

Not knowing Sanskrit restricts me in several researches. Better late than never. May Maa Saraswati bless!

संस्कृत गोवीथी : : गव्य 3

Gavya_3


शब्द सिन्धु

Work


  • कार्यप्रवाह – workflow
  • कार्यभार – workload
  • कार्यक्रमस्वचालन – workflow automation
  • कर्मसारथि – co-worker
  • कर्मकरगण – workforce
  • परिबृंहण – additional work

पाठ १.३


Work Theme

  • अहं आगामिवर्षे करिष्यामि | – Next year, I will work.
  • मम अन्यत् कार्यम् अस्ति| – I have some other work.
  • गृहकार्यं सर्वं समाप्तं वा? – Finished your household work?
  • ममापि बहुनि कार्याणि सन्ति – I have a lot of work to do myself.
अहं पठामि में पढ़ता हूँ
त्वं पठसि तू पढ़ता है
स: पठति वह पढ़ता है
अहं खादामि में खाता हूँ
त्वं खादसि तू खाता है
स: खादति वह खाता है
अहं पश्यामि में देखता हूँ
त्वं पश्यसि तू देखता है
स: पश्यति वह देखता है
  • अहं वाणिज्यशास्त्रं पठामि|
  • नवमकक्श्यायां पठामि|
  • संस्कृतं पठामि|
  • त्वं प्रातः किं खादसि?
  • त्वं फलानि अपि खादसि?
  • पुनः कदाचित् पश्यामि (Meet you again)
  • मासे कति चित्राणि पश्यति? – How often do you go to films in a month?

 

Bookish..

Untitled

Untitled2

Untitled3

 


सुभाषित


विवेक-चूड़ामणि

चित्तस्य शुद्धये कर्म न तु वस्तुपलब्धये।
वस्तुसिद्धिर्विचारेण न किंचित कर्मकोटीभि:।।11।।

Work leads to purification of the mind, not to perception of the Reality. The realisation of Truth is brought about by discrimination and not in the least by ten million of acts.

कर्म चित्त की शुद्धि के लिये ही है, वस्तुपलब्धि (तत्वदृष्टि) – के लिये नहीं। वस्तु-सिद्धि तो विचार से ही होती है, करोड़ों कर्मों से कुछ भी नहीं हो सकता।


पठन/मनन


Following excerpt is from Kathak griha sutra. It is commenraty by Devapala on first Sun sighting Sanskar for newborn. Try to interpret it by self.

KathakGrihasutra_0

KathakGrihasutra

 

 

 

संस्कृत गोवीथि : : गव्य ३५ (शंकराचार्य विशेष)

Gavya35

एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्वाधितं दृश्यताम्।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिश्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम्॥५॥

एकांत के सुख का सेवन करें, परब्रह्म में चित्त को लगायें, परब्रह्म की खोज करें, इस विश्व को उससे व्याप्त देखें, पूर्व कर्मों का नाश करें, मानसिक बल से भविष्य में आने वाले कर्मों का आलिंगन करें, प्रारब्ध का यहाँ ही भोग करके परब्रह्म में स्थित हो जाएँ ॥५॥

Enjoy in solitude, meditate on the Lord, search for the Lord, see this world as pervaded by Him. Destroy the effects of the previous deeds, welcome the future with all your mental strength. Exhaust the remaining effects of past actions here and get established in the Lord ॥5॥

-साधन पंचकम्


शब्द सिन्धु


विषाण (vishhaaNa) = horns
विषादं (vishhaadaM) = moroseness
विषादि (vishhaadi) = morose
विषीदन् (vishhiidan.h) = while lamenting
विषीदन्तं (vishhiidantaM) = lamenting
विषुस्पृश (vishhuspRisha) = touched, tinged with poison (poison-tipped arrow?)
विषेशाधिकारः (vishheshaadhikaaraH) = (m) privilege
विषेषता (vishheshhataa) = difference
विषोपमेयं (vishhopameyaM) = poison-like
विष्टभ्य (vishhTabhya) = pervading
विष्ठितं (vishhThitaM) = situated
विष्णु (vishhNu) = the preserver of life
विष्णुः (vishhNuH) = the Lord MahaavishhNu
विष्णुत्वं (vishhNutvaM) = the quality/state of Brahman/god-realisation
विष्णो (vishhNo) = O Lord Visnu
विष्लेषण (vishhleshhaNa) = analysis
विसंमोहन (visaMmohana) = infatuation
विसर्गः (visargaH) = creation
विसृजन् (visRijan.h) = giving up
विसृजामि (visRijaami) = I create
विसृज्य (visRijya) = putting aside
विस्तरः (vistaraH) = the expanse
विस्तरशः (vistarashaH) = in detail
विस्तरस्य (vistarasya) = to the extent
विस्तरेण (vistareNa) = in detail
विस्तारं (vistaaraM) = the expansion
विस्तारः (vistaaraH) = (m) amplitude
विस्तारित (vistaarita) = expanded
विस्फुरणै (visphuraNai) = by emanation
विस्मयः (vismayaH) = wonder
विस्मयपदं (vismayapadaM) = object of wonder
विस्मयाविष्टः (vismayaavishhTaH) = being overwhelmed with wonder
विस्मिताः (vismitaaH) = in wonder
विहग (vihaga) = bird
विहगः (vihagaH) = Bird, cloud, arrow, sun, moon, a planet in general, some thing that moves in the sky
विहाय (vihaaya) = giving up
विहार (vihaara) = in relaxation
विहारस्य (vihaarasya) = recreation
विहारिणि (vihaariNi) = one who strolls
विहिआ (vihiaa) = vihitA?, understood
विहित (vihita) = prescribed
विहितं (vihitaM) = directed
विहिताः (vihitaaH) = used
विहितान् (vihitaan.h) = arranged
विहीन (vihiina) = without
विहीना (vihiinaa) = bereft
विहृ (vihRi) = to roam
विक्षिप्त (vikShipta) = mental aggitation
विक्षेप (vikShepa) = confusion
विज्ञातं (viGYaataM) = has been known
विज्ञातुं (viGYaatuM) = to know
विज्ञान (viGYaana) = comprehension, Science
विज्ञानं (viGYaanaM) = numinous knowledge
विज्ञानमय (viGYaanamaya) = full of greater(scientific in a way) knowledge
विज्ञानी (viGYaanii) = scientist
विज्ञाय (viGYaaya) = after understanding


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

पाषाणादिष्टिका वरा।

पिण्डे पिण्डे मतिर्भिन्ना|

पिण्डेन ब्रह्माण्डपरीक्षणं स्यात्।

पुरुषकारम् अनुवर्तते दैवम्।

पुरुषार्थहीना: भुवि भारभूता:|


सुभाषित


अग्निशेषमृणशेषं शत्रुशेषं तथैव च |
पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||

If a fire, a loan, or an enemy continues to exist even to a small extent, it will grow again and again; so do not let any one of it continue to exist even to a small extent. यदि कोई आग, एक ऋण, या एक शत्रु अस्तित्व ही रहेगी को भी एक छोटी-सी सीमा तक, इससे बार-बार बढ़ने; अत: ऐसा न होने दीजिए यह किसी एक के अस्तित्व को जारी करने के लिए भी एक छोटी-सी हद तक ।


For next few days, we will focus on शंकर भाष्य

मूल श्लोकः

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।

संभवः सर्वभूतानां ततो भवति भारत।।14.3।।

Sanskrit Commentary By Sri Shankaracharya

।।14.3।। –,मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम्। सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यते। तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम्? अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थः। संभवः उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत।।

Popular Posts

My Favorites

Modern Shopping : Adult habit forced on Children

Shopping is an adult habit. Especially, modern shopping is very exclusively recently developed (Post 1991 liberalization) habit in society where majority of us surrounded...

Moon, Mind and Life