SanskritGavya

SanskritGavya

संस्कृत गोवीथी : : गव्य 4 (धर्म)

Gavya_4


शब्द सिन्धु


धर्मसारथि –  charioteer of dharma
धर्मवत् – accompanied by dharman or the law
धर्मार्थ – religious merit and wealth
धर्मागम – Law book


पाठ १.३


 

Bookish

Capture

Capture१

Now, it is easy to understand following set of sentences.

Capture२Simple Sentences for daily usage

  • प्रयत्नं करोमि – I will try.
  • तथा न वदतु – Don’t say that!
  • अहं किं करोमि – What can I do?
  • अवश्यं आगच्छामि – Certainly, I will come

सुभाषित


विद्या मित्रं प्रवासेषु ,भार्या मित्रं गृहेषु च |व्याधितस्यौषधं मित्रं , धर्मो मित्रं मृतस्य च ||

अर्थात् : ज्ञान यात्रा में ,पत्नी घर में, औषध रोगी का तथा धर्म मृतक का ( सबसे बड़ा ) मित्र होता है |


पठन/मनन


पञ्चतन्त्रम् – इत्यस्मात् पुनर्निर्दिष्टम्
लेखक – विष्णुशर्मा
कथामुखम्
ओं नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः ।


ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिद्रः कुबेरः
चन्द्रादित्यौ सरस्वत्यदधियुगनगा वायुरुर्वीभुजङ्गाः ।
सिढा नद्यो श्विनौ श्रीर् दितिर् अदितिसुता मातरश् चंडिकाद्या
वेदास्तीर्थानि यक्षा गणवसुमुनयः पन्तु नित्यं ग्रहाश्च ॥
मनवे वाचस्पतये शुक्राय पराशराय ससुताय।
चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥०.१॥
सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम्।
तन्त्रैः पञ्चभिरैतच्चकार सुममोहरं शास्त्रम् ॥०.२॥
तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरङक्पमुकुटमणिम् अजरीचयचर्चितचरणयुगलः सकलकल्पपारंगतेऽमरशक्तिर्नाम राजा बभूव। तस्य त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः।
अथ राजा तान् शास्त्रविमुखान् आलोक्य सचिवान् आहूय प्रोवाच । भोः ज्ञातम् एतद् भवद्भिर्यः ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च। तदेतान् पश्यतो मे महदपि राज्यं न सौख्यम् आवहति । अथवा साध्विदम् उच्यते
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम्।
यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥०.३॥
वरं गर्भस्रवो वरं मृतेषु नैवाभिगमनम्
वरं जातः प्रोतो वरमपि च कंयैव जनिता।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिः
न चाविदग्धान् रूपद्रविणगुणयुक्तोऽपि तनयः॥ ०.४॥
किं तया क्रियते धेन्वा या न सूते न दुग्धदा।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान्॥ ०.५॥
तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायो नुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति।
ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति।
तत्रैकः प्रोवाचदेव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि आदीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि। एवञ्च ततो दर्मार्थकामशास्त्राणि ज्ञायन्ते। ततः प्रतिबोधनं भवति।
अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राह । अशाश्वतो यं जीवितव्यविषयः। प्रभूतकालज्ञेयानि शब्दशास्त्राणि। तत् सङ्क्षेपमात्रं शास्त्रं किञ्चितेतेषां प्रबोधनार्थं चिन्त्यतामिति। उक्तं च यतः
अनन्तपारं किल शब्दशास्त्रम्
स्वल्पं तथायुर्वहवश्च विघ्नाः।
सारं ततो ग्राह्यमपास्य फल्गु
हंसैर्ययथा क्षीरमिवाम्बुध्यात् ॥ ०.६॥
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमः छात्रसंसदि लब्धकीर्तिः। तस्मै समर्पयतु एतान्। स नूनं द्राक् प्रबुद्धान् करिष्यति इति।
स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच । भोः भगवन् मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग् यथानंयषड्दर्शनान् विदधासि तथा कुरु। तदाहं त्वां शासनशतेन योजयिष्यामि।
अथ विष्णुशर्मा तं राजानमाहदेव श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि। पुनरेतान् तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि।
अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मन्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्व्यतिम् आजगाम। विष्णुशर्मणापि तान् आदाय तदर्थं मित्रभॆदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशापरीक्षितकारकाणि चेति पञ्चन्त्राणि रचयित्वा पाठिताः ते राजपुत्राः। तेपि तानधीत्य मासषट्केन यथोक्ताः संवृत्ताः। ततः प्रभृत्येतत् पञ्चतन्त्रं नाम नीतिशास्त्रं बालबोधनार्थं भूतले प्रवृत्तम्। किं बहुना
अधीते य इदं नित्यं नीतिशास्त्रं श्रुणोति च।
न पराभवमवाप्नोति शक्रादपि कदाचन ॥०.७॥
इति कथामुखम्।

 

संस्कृत गोवीथि : : गव्य ३३ (शंकराचार्य विशेष)

Gavya33

कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः
तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च॥

Also those persons who are only clever in discussing about Reality but have no realisation, and are very much attached to worldly pleasures, are born and die again and again in consequence of their ignorance.

अपरोक्षानुभूति


शब्द सिन्धु


नदीनां (nadiinaaM) = of the rivers
ननन्दा (nanandaa) = (f) husband’s or wife’s sister
ननु (nanu) = really
नन्दः (nandaH) = nanda
नन्दति (nandati) = revels
नन्दत्येव (nandatyeva) = nandati+eva, revels alone/revels indeed
नन्दन (nandana) = child
नपुंसकं (napu.nsakaM) = neuter
नभः (nabhaH) = the sky
नभःस्पृशं (nabhaHspRishaM) = touching the sky
नभस्तल (nabhastala) = sky
नम् (nam.h) = to salute
नमः (namaH) = a salute
नमति (namati) = to bow
नमस्कार (namaskaara) = Salutation
नमस्कारनीचमनी (namaskaaraniichamanii) = Salutation to evil minded
नमस्कुरु (namaskuru) = offer obeisances
नमस्कृत्वा (namaskRitvaa) = offering obeisances
नमस्ते (namaste) = offering my respects unto You
नमस्यन्तः (namasyantaH) = offering obeisances
नमस्यन्ति (namasyanti) = are offering respects
नमामि (namaami) = I bow
नमाम्यहम् (namaamyaham.h) = namAmi+ahaM, bow+I
नमेरन् (nameran.h) = they should offer proper obeisances
नमो (namo) = salutation
नम्य (namya) = (adj) bendable
नयन (nayana) = eye
नयनं (nayanaM) = eyes
नयेत् (nayet.h) = must bring under
नर (nara) = Man
नरः (naraH) = a man


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

नास्ति गतिश्रमो यानवताम्।

नास्ति बुद्धिमतां शत्रु:।

निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।

निर्वाणदीपे किमु तैलदानम्?


सुभाषित


रूपयौवनसंपन्ना: विशालकुलसंभवा: |
विद्याहीना: न शोभन्ते निर्गन्धा: किंशुका: इव ||

Those who are born in a great family and are handsome and young, but do not possess any knowledge, are like a beautiful flower without fregnance.


पठन -> मनन -> स्मरण -> आत्मसात


For next few days, we will focus on शंकर भाष्य

मूल श्लोकः

श्री भगवानुवाच

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।

Sanskrit Commentary By Sri Shankaracharya

।।15.1।। — ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वाच्च ऊर्ध्वम् उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत्? तत् मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः। श्रुतेश्च — ऊर्ध्वमूलोऽर्वाक्शाख एषोऽश्वत्थः सनातनः (क0 उ0 2।6।1) इति। पुराणे च — अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोच्छ्रितः। बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः।।महाभूतविशाखश्च विषयैः पत्रवांस्तथा। धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः।।आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः। एतद्ब्रह्मवनं चैव ब्रह्माचरति नित्यशः।।एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना। ततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः।। इत्यादि। तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधःशाखं महदहंकारतन्मात्रादयः शाखा इव अस्य अधः भवन्तीति सोऽयं अधःशाखः? तम् अधःशाखम्। न श्वोऽपि स्थाता इति अश्वत्थः तं क्षणप्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्ति अव्ययं संसारमायायाः अनादिकालप्रवृत्तत्वात् सोऽयं संसारवृक्षः अव्ययः? अनाद्यन्तदेहादिसंतानाश्रयः हि सुप्रसिद्धः? तम् अव्ययम्। तस्यैव संसारवृक्षस्य इदम् अन्यत् विशेषणम् — छन्दांसि यस्य पर्णानि? छन्दांसि च्छादनात् ऋग्यजुःसामलक्षणानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि। यथा वृक्षस्य परिरक्षणार्थानि पर्णानि? तथा वेदाः संसारवृक्षपरिरक्षणार्थाः? धर्माधर्मतद्धेतुफलप्रदर्शनार्थत्वात्। यथाव्याख्यातं संसारवृक्षं समूलं यः तं वेद सः वेदवित्? वेदार्थवित् इत्यर्थः। न हि समूलात् संसारवृक्षात् अस्मात् ज्ञेयः अन्यः अणुमात्रोऽपि अवशिष्टः अस्ति इत्यतः सर्वज्ञः सर्ववेदार्थविदिति समूलसंसारवृक्षज्ञानं स्तौति।।तस्य एतस्य संसारवृक्षस्य अपरा अवयवकल्पना उच्यते –,

संस्कृत गोवीथि : : गव्य २३ (साहित्य विशेष)

Gavya23

स्वर्गे सतां शर्म परं न धर्मा
भ्रवन्तिं भूमाविह तच्च ते च । नैषधीयचरितम् – ६ – ९८ |

स्वर्गमें रहनेवालों को केवल सुख होता है , धर्मं नहीं | भारत भूमि में सुख है और धर्मं भी|


शब्द सिन्धु


अमंद (ama.nda) = not slow or dull, active, intelligent; sharp, strong, violent, not little
अमन्यत (amanyata) = believed
अमर्ष (amarshha) = (m) anger
अमल (amala) = without rubbish
अमलं (amalaM) = clean
अमलान् (amalaan.h) = pure
अमानित्वं (amaanitvaM) = humility
अमितविक्रमः (amitavikramaH) = and unlimited force
अमी (amii) = all those
अमुत्र (amutra) = in the next life
अमूढाः (amuuDhaaH) = unbewildered
अमूल्य (amuulya) = priceless, excellent
अमृत (amRita) = of ambrosia, potion to cause immortality
अमृतं (amRitaM) = veritable nectar
अमृतत्त्वाय (amRitattvaaya) = for liberation
अमृतबिन्दू (amRitabinduu) = a drop of nectar
अमृतभुजः (amRitabhujaH) = those who have tasted such nectar
अमृतस्य (amRitasya) = of the immortal
अमृतोद्भवं (amRitodbhavaM) = produced from the churning of the ocean
अमृतोपमं (amRitopamaM) = just like nectar
अमेध्यं (amedhyaM) = untouchable
अम्बन्ध (ambandha) = relation / connection
अम्बर (ambara) = aakaasha
अम्बरं (ambaraM) = sky, garment
अम्बा (ambaa) = mother
अम्बु (ambu) = water
अम्बुधि (ambudhi) = sea
अम्बुवेगाः (ambuvegaaH) = waves of the waters
अम्भस् (ambhas.h) = (n) water
अम्भसा (ambhasaa) = by the water
अम्भसि (ambhasi) = on the water
अम्भुरुहं (ambhuruhaM) = lotus
अम्ल (amla) = (m) sour
अयं (ayaM) = him (from idaM.h)
अयजन्त (ayajanta) = third person plur. imperfect aatmanepada of yaj, to worship
अयतिः (ayatiH) = the unsuccessful transcendentalist


पाठ


1 2 3 4


सुभाषित


सुवर्णपुष्पां पॄथिवीं चिन्वन्ति पुरूषास्त्रय: |
शूरश्र्च कॄतविद्यश्र्च यश्र्च जानाति सेवितुम् ||

Three kinds of people get the golden earth; Chivalrous, learned, and the ones who do service. (The Earth gives all its wealth to the three kinds of people.)


पठन/स्मरण


नैषधीयचरित, श्रीहर्ष द्वारा रचित संस्कृत महाकाव्य है। यह वृहत्त्रयी नाम से प्रसिद्ध तीन महाकव्यों में से एक है। महाभारत का नलोपाख्यान इस महाकाव्य का मूल आधार है।इस महाकाव्य का मूल आधार है “महाभारत” का “नलोपाख्यान”।

One fundamental that all Mahakavyas follow is : Their story base is from Itihas. They are dharma-centered.

Let us read first sarg’s 30 verses as a part of Sanskrit Learning.

प्रथमः सर्गः

निपीय यस्य क्षितिरक्षिणः कथाः
तथाद्रियन्ते न बुधाः सुधामपि ।
नला सितच्छत्रितकीर्तिमण्डलः
स राशिरासीन्महसां महोज्ज्वलः ॥1॥
रसैः कथा यस्य सुधावधीरणी
नलः स भूजानिरभूह्गुणाद्भुतः ।
सुवर्णदण्डैकसितातपत्रित
ज्वलत्प्रतापावलिकीर्तिमण्डलः ॥2॥
पवित्रमत्रातनुते जगद्युगे
स्मृता रसक्षालनयेव यत्कथा ।
कथं न सा मद्गिरमाविलामपि
स्वसेविनीमेव पवित्रयिष्यति ॥3॥
अधीतिबोधाचरणप्रचारणै
र्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कृतः स्वयं
न वेद्मि विद्यासु चतुर्दश स्वयम् ॥4॥
अमुष्य विद्या रसनाग्रनर्तकी
त्रयीव नीताङ्गगुणेन विस्तरम् ।
अगाहताष्टादशतां जिगीषया
नवद्वयद्वीपपृथग्जयश्रियाम् ॥5॥
दिगीशवृन्दांशविभूतिरीशिता
दिशां स कामप्रसरावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां
निजत्रिनेत्रावतरत्वबोधिकाम् ॥6॥
पदैश्चतुर्भिः सुकृते स्थिरीकृते
कृतेऽमुना के न तपः प्रपेदिरे ।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृश
न्दधावधर्मोऽपि कृशस्तपस्विताम् ॥7॥
यदस्य यात्रासु बलोद्धतं रजः
स्फुरत्प्रतापानलघूममञ्जिम ।
तदेव गत्वा पतितं सुधाम्बुधौ
दधाति पङ्कीभवदङ्कतां विधौ ॥8॥
स्फुरद्धनर्निस्वनतद्धनाशुग
प्रगल्भवृष्टिव्ययितस्य संगरे ।
निजस्य तेजः शिखिनः परश्शता
वितेनुरिङ्गालमिवायशः परे ॥9॥
अनल्पदग्धारिपुरानलोज्ज्वलैः
निजप्रतापैर्वलयं ज्वलद्भुवः ।
प्रदक्षिणीकृत्य जयाय सृष्ट्या
रराज नीराजनया स राजघः ॥10॥
निवारितास्तेन महीतलेऽखिले
निरीतिभावं गमितेऽतिवृष्टयः ।
न तत्यजुर्नूनमनन्यविश्रमाः
प्रतीपभूपालमृगीदृशां दृशः ॥11॥
सितांशुवर्णैर्वयति स्म तह्गुणैः
महासिवेम्नः सहकृत्वरी बहुम् ।
दिगङ्गनाङ्गावरणं रणाङ्गणे
यशः पटं तद्भटचातुरीतुरी ॥12॥
प्रतिपभूपैरिव किं ततो भिया
विरुद्धधर्मैरपि मेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्
विचारदृक्चारदृगप्यवर्तत ॥13॥
तदोजसस्तद्यशसः स्थिताविमौ
वृथेति चित्ते कुरुते यदा यदा ।
तनो ति भानोः परिवेषकैतवात्
तदा विधिः कुण्डलनां विधोरपि ॥14॥
अयं दरिद्रो भवितेति वैधसीं
विपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषां न चक्रेऽल्पितकल्पपादपः
प्रणीय दारिद्रदरिद्रतां नलः ॥15॥
विभज्य मेरुर्न यदर्थिसात्कृतो
न सिन्धुरुत्सर्गजलव्यययैर्मरुः ।
अमानि तत्तेन निजायशोयुगं
द्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥16॥
अजस्रमभ्यासमुपेयुषा समं
मुदैव देवः कविना बुधेन च ।
दधौ पटीयान्समयं नयन्नयं
दिनेश्वरश्रीरुदयं दिने दिने ॥17॥
अधोविधानात्कमलप्रवालयोः
शिरः सु दानादखिलक्षमाभुजाम् ।
पुरेदमूर्ध्व भवतीति वेधसा
पदं किमस्याङ्कितमूर्ध्वरेखया ॥18॥
जगज्जयं तेन च कोशमक्षयं
प्रणीतवान् शैशवशेषवानयम् ।
सखा रतीशस्य ऋतुर्यथा वनं
वपुस्तथालिङ्गदथास्य यौवनम् ॥19॥
अधारि पद्मेषु तदङ्घ्रिणा घृणा
क्व तच्छयच्छायलवोऽपि पल्लवे ।
तदास्यदास्येऽपि गतोऽधिकारितां
न शारदः पार्धिकशर्वरीश्वरः ॥20॥
किमस्य लोम्नां कपटेन कोटिभिः
विधिर्न लेखाभिरजीगणह्गुणान् ।
न रोमकूपौघमिषाज्जगत्कृता
कृताश्च किं दूषणशून्यबिन्दवः ॥21॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने
ध्रुवं गृहीतार्गलदीर्घपीनता ।
उरः श्रिया तत्र च गोपुरस्फुरत्
कपाटदुर्धर्षतिरः प्रसारिता ॥22॥
स्वकेलिलेशस्मितनिन्दितेन्दुनो
निजांशदृक्तर्जितपद्मसंपदः ।
अतद्द्वयीजित्वरसुन्दरान्तरे
न तन्मुखस्य प्रतिमा चराचरे ॥23॥
सरोरुहं तस्य दृशैव निर्जितं
जिताः स्मितेनैव विधोरपि श्रियः ।
कुतः परं भव्यमहो महीयसी
तदाननस्योपमितौ दरिद्रता ॥24॥
स्ववालभारस्य तदुत्तमाङ्गजैः
समं चमर्येव तुलाभिलाषिणः ।
अनागसे शंसति बालचापलं
पुनः पुनः पुच्छविलोलनच्छलात् ॥25॥
महीभृतस्तस्य च मन्मथश्रिया
निजस्य चित्तस्य च तं प्रतीच्छया ।
द्विधा नृपे तत्र जगत्त्रयीभुवां
नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥26॥
निमीलनभ्रंशजुषा दृशा भृशं
निपीय तं यस्त्रिदशीर्बिरर्जितः ।
अमूस्तमभ्यासभरं विवृण्वते
निमेषनिः स्वैरधुनापि लोचनैः ॥27॥
अदस्तदाकर्णि फलाढ्यजीवितं
दृशोर्द्वयं नस्तदवीक्षि चाफलम् ।
ति स्म चक्षुः श्रवसां प्रिया नले
स्तुवन्ति निन्दन्ति हृदातदात्मनः ॥28॥
विलोकयन्तीभिरजस्रभावना-
बलादमुं नेत्रनिमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने
न विघ्नलेशोऽपि निमेषनिर्मितिः ॥29॥
न का निशि स्वप्नगतं ददर्श
तं जगाद गोत्रस्खलिते च का न तम् ।
तदात्मताध्यातधवा रते च का
चकार वा न स्वमनोभवोद्भवम् ॥30॥

 

 

संस्कृत गोवीथि : : गव्य ५३ : उच्छिष्ट-गणपति

Gavya51

Note: I am not into tantra. This study is part of my personal swadhyay.

उच्छिष्ट-गणपति

Uchchhishta Ganapati (Sanskritउच्छिष्ट-गणपतिUcchiṣṭa Gaṇapati) is an Tantric aspect of the Hindu god Ganesha(Ganapati). He is the primary deity of the Uchchhishta Ganapatya sect, one of six major schools of the Ganapatyas.

The gaNas of which he is the pati represent the limitless vidyA-vrttis which aid the upAsaka in overcoming various vighnas that hinder Atma-vichAra. The same is stated in the yAmaLa:

utkR^iShTAshchApi shiShTAshcha praLaye nAshavarjitAH |
gaNA ucChiShTasaMjnADhyAsteShAM cha patirIshvaraH |
ucChiShTagaNapashcheti guNeshasambhavaH smR^itaH ||

A similar explanation can be seen in the rahasya-hR^idaya of this special form:

utkR^iShTAH j~nAninaH siddhAH kAraNabrahmalokagAH |
praLaye nAsharahitAH shiShTAste yogapAragAH |
ucChiShTAshcheti kathitAH teShAM cha pataye namaH ||

He is said to have chosen as his shakti sarasvatI, the daughter of brahmA and shAradA and puShTi-lakShmIH, the daughter of mahAviShNu and ramA:

sarasvatIM brahmaputrIM puShTilakShmIM hareH sutAm |
jagrAha vidhipUrvaM tu devocChiShTagaNAdhipaH ||

॥ श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।

श्रीभैरव उवाच ।
शृणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥

श्रीदेव्युवाच ।
ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः ।
श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥

श्रीभैरव उवाच ।
प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे ।
मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥

तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः ।
विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥

तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः ।
तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥

तदद्य तव भक्त्याहं साधकानां हिताय च ।
महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥

ॐ अस्य श्रीउच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः ।
गायत्री छन्दः । श्रीमहागणपतिर्देवता ।
गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् ।
मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥

ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी ।
गुणाढ्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥

विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदा शान्तो जगत्त्राता विश्वावर्तो विभाकरः ॥ ८॥

विश्रम्भी विजयो वैद्यो वारान्निधिरनुत्तमः ।
अणिमाविभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥

सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः ।
पतिः पीतविभूषाङ्को रक्ताक्षो लोहिताम्बरः ॥ १०॥

विरूपाक्षो विमानस्थो विनीतः सदस्यः सुखी । सात्वतः
सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥

नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः ।
दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥

सारात्मा विश्वसारश्च विश्वसारो(२) विलेपनः ।
परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥

विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धनः ।
भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥

विनर्तको विनीतोऽपि विनतानन्दनार्चितः ।
वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥

विराटको विराटश्च विदग्धो विधुरात्मभूः ।
पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥

पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः ।
अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥

अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः ।
लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥

लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः ।
सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥

नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः ।
विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥

सुजो बुद्धः सदारूपः सुखदः सुखसेवितः ।
विकर्तनो विपच्चारी विनटो नटनर्तकः ॥ २१॥

नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः ।
गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२।
गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः ।
गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥

गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा ।
गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥

गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥

गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः ।
गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥

गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः ।
गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥

विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तकः ।
करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥

कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ।
विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥

उरुरभ्यमुखो रक्तो देवतादयितौरसः ।
महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥

उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ।
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥

असितात्मा भैरवेशो भाग्यवान्भगवान्भवः ।
गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥

शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः ।
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥

विद्याप्रदो वेदरसो वैदिको वेदपारगः ।
वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥

तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः ।
शिवशङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥

शैत्यः श्वेतः शतमुखो मुग्धो मोदकभूषणः ।
देवो दिनकरो धीरो घृतिमान्द्युतिमान्धवः ॥ ३६॥

शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ।
शरण्यः शौनकः शूरः शरदम्भोजधारकः ॥ ३७॥ न्
दारकः शिखिवाहेष्टः सितः शङ्करवल्लभः ।
शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥

लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ।
भ्रमणः शशिभृत्सुर्यः शनिर्धरणिनन्दनः ॥ ३९॥

बुधो विबुधसेव्यश्च बुधराजो बलंधरः ।
जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥

जनको जनमार्गज्ञो जनरक्षणतत्परः ।
जनानन्दप्रदाता च जनकाह्लादकारकः ॥ ४१।
विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः ।
गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥

गच्छराजोथ गच्छेथो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥

गच्छप्रभुर्गच्छचरो गच्छप्रियकृताद्यमः ।
गच्छगीतगुणोगर्तो मर्यादाप्रतिपालकः ॥ ४४॥

गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता ।
गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥

परम्पदं परन्धाम परमात्मा कविः कुजः ।
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥

ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ।
पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥

वनेचरो वनस्पतिर्वनवासी स्मरोपमः ।
पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥

पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः ।
युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥

यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः ।
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥

मीनध्वजो मनोहारी योगिनां योगवर्धनः ।
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥

तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः ।
सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥

सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः ।
सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥

रुचको मेचकस्तुष्टः प्रभुस्तोमरघातकः ।
दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥

कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः ।
भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥

जालन्धरो जगद्वासी हास्यकृद्गहनो गुहः ।
हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥

सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः ।
हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥ ५७॥

शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः ।
कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥

दविष्ठो दमनो हृष्टो दाता त्राता पितासमः ।
निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥

जनजीवो जितारातिर्जगद्व्यापी जगन्मयः ।
चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥

रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः ।
पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥

पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः ।
कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥

लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् ।
ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥

अङ्गुल्यग्रस्थभुवनो भुवनैकमलापहः ।
सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥

सतीपतिः समरसः सनकः सरलः सरः ।
सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥

वित्तदो वित्तनाथश्च धनिनां धनदायकः ।
राजीवनयनः स्मार्तः स्मृतिदः कृत्तिकाम्बरः ॥ ६६॥

अश्विनोऽश्वमुखः शुभ्रो हरिणो हरिणीप्रियः ।
कृत्तिकासनकः कोलो रोहिणीरमणोपमः ॥ ६७॥

रौहिणेयप्रेमकरो रोहिणीमोहनो मृगः ।
मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥

आर्द्राननो महाबुद्धिर्महोरगविभूषणः ।
भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥

पुनर्देव: पुनर्जेता पुनर्जीवः पुनर्वसुः ।
तिमिरास्तिमिकेतुश्च तिमिषासुरघातनः ॥ ७०॥

तिष्यस्तुलाधरो जृम्भो विश्लेषाश्लेषदानराट् ।
मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥

मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः ।
पूर्वफाल्गुनिकः स्फीत फल्गुरुत्तरफाल्गुनः ॥ ७२॥

फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः ।
घोणाहस्तश्चतुर्हस्तो हस्तिवन्ध्यो हलायुधः ॥ ७३॥

चित्राम्बरार्चितपदः स्वस्तिदः स्वस्तिनिग्रहः ।
विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥

अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः ।
अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥

ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः ।
शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥

श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः ।
श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥

शातातपः शातकुम्भः शरज्ज्योतिः शताभिषक् ।
पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥

रेणुकातनयो रामो रेवतीरमणो रमी ।
आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ । ७९॥

पोषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः ।
राज्यदोऽभिजिदात्मेयस्तारेशस्तारकद्युतिः ॥ ८०॥

प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः ।
परहा पञ्चभूः पञ्चवायुपूज्यपरिग्रहः ॥ ८१॥

पुराणागमविद्योगी महिषो रासभोऽग्रजः ।
ग्रहो मेषो मृषो मन्दो मन्मथो मिथुनाकृतिः ॥ ८२॥

कल्पभृत्कटको दीपो मर्कटः कर्कटो धृणिः ।
कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥

सिंहा सिंहासनाभूष्यो मद्गुर्मूषकवाहनः ।
पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥

अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिकः ।
अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥

कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥

प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः ।
त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥

चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः ।
षड्रसास्वादविज्ञानः षष्ठीषष्टिकवत्सलः ॥ ८८॥

सप्तार्णवगतिः सारः सप्तमीश्वररोहितः ।
अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥

दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः ।
एकादशात्मगणयो द्वादशीयुगचर्चितः ॥ ९०॥

त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः ।
चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥

दर्शदर्शो दर्शनश्च वानप्रस्थो महेश्वरः ।
मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥

महागजो जितक्रोधो जितशत्रुर्जयाश्रयः ।
रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥

भवप्रियो भवानीष्टो भारभृद्भूतभावनः ।
गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्टरश्रवाः ॥ ९४॥

वृत्रहा विघ्नहा सीरः समस्तदुःखतापहा ।
मञ्जुलो मार्जरो मत्तो दुर्गापुत्रो दुरालसः ॥ ९५॥

अनन्तचित्सुधाधोरो वीरो वीर्यैकसाधकः ।
भास्वन्मुकुटमाणिक्यः कूजत्किङ्किंणिजालकः ॥ ९६॥

शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः ।
पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥ ९७॥

उद्घृताधरदन्ताढ्यो मालाभूषणभूषितः ।
मारदो वारणो लोलश्रवणः शूर्पकर्णकः ॥ ९८॥

बृहदुल्लासनासाढ्यो व्याप्तत्रैलोक्यमण्डलः ।
रत्नमण्डलमध्यस्थः कृशानुरूपशीलकः ॥ ९९॥

बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः ।
बृहदास्यरवाक्रान्तभीतब्रह्माण्डभाण्डकः ॥ १००॥

बृहत्पादसमाक्रान्तसप्तपातालदीपितः ।
बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ १०१॥

बृहद्धस्तधृताशेषायुधनिर्जितदानवः ।
स्फूरत्सिन्दूरवदनः स्फूरत्तेजोऽग्निलोचनः ॥ १०२॥

उद्दीपितमणिः स्फूर्जन्नूपुरध्वनिनादितः ।
चलत्तोयप्रवाहाढ्यो नदीजलकणाकरः ॥ १०३॥

भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः ।
ब्रह्माच्युतमहारुद्रपुरस्सरसुरार्चितः ॥ १०४॥

अशेषशेषप्रभृतिव्यालजालोपसेवितः ।
गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः ॥ १०५॥

हाहाहूहूगतात्युग्रस्वरविभ्रान्तमानसः ।
पञ्चाशद्वर्णबीजाख्यमन्त्रमन्त्रितविग्रहः ॥ १०६॥

वेदान्तशास्त्रपीयूषधाराऽऽप्लावितभूतलः ।
शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १०७॥

चिन्तामणिर्महामल्लो बल्लहस्तो बलिः कविः ।
कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १०८॥

द्वापरः परलोकैकः कर्मध्वान्तसुधाकरः ।
सुधाऽऽसिक्तवपुर्व्यासो ब्रह्माण्डादिकबाहुकः ॥ १०९॥

अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः ।
अकाराकारप्रोद्गीतताननादनिनादितः ॥ ११०॥

इकारेकारमत्राढ्यमालाभ्रमणलालसः ।
उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १११॥

ऋवर्णाङ्कितॠकारिपद्मद्वयसमुज्ज्वलः ।
लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ ११२॥

एकारैककारगिरिजास्तनपानविचक्षणः ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ ११३॥

अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्झरः ॥ ११४॥

खगेशध्वजरत्नाङ्ककिरीटारुणपादकः ।
गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ ११५॥

घनवाहनवागीशपुरस्सरसुरार्चितः ।
ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ ११६॥

चन्द्रकुङ्कुमजम्बाललिप्तसिन्दूरविग्रहः ।
छत्रचामररत्नाढ्यभ्रुकुटालङ्कृताननः ॥ ११७॥

जटाबद्धमहानर्घमणिपङ्क्तिविराजितः ।
झङ्कारिमधुपव्रातगाननादविनादितः ॥ ११८॥

ञवर्णकृतसंहारदैत्यासृक्पर्णमुद्गरः ।
टकाराख्याफलास्वादवेपिताशेषमूर्धजः ॥ ११९॥

ठकाराद्यडकाराङ्कढकारानन्दतोषितः ।
णवर्णामृतपीयूषधाराधारसुधाकरः ॥ १२०॥

ताम्रसिन्दूरपूजाढ्यललाटफलकच्छविः ।
थकारघनपङ्क्त्यातिसन्तोषिताद्विजव्रजः ॥ १२१॥

दयामृतहृदम्भोजधृतत्रैलोक्यमण्डलः ।
धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १२२॥

नमिताशेषदेवौघकिरीटमणिरञ्जितः ।
परवर्गापवर्गादिभोगेच्छेदनदक्षकः ॥ १२३॥

फणिचक्रसमाक्रान्तगलमण्डलमण्डितः ।
बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरसुरः ॥ १२४॥

भवानीहृदयानन्दवर्द्धनैकनिशाकरः ।
मदिराकलशस्फीतकरालैककराम्बुजः ॥ १२५॥

यज्ञान्तरायसङ्घातसज्जीकृतवरायुधः ।
रत्नाकरसुताकान्तिक्रान्तिकीर्तिविवर्धनः ॥ १२६॥

लम्बोदरमहाभीमवपुर्दीप्तकृतासुरः ।
वरुणादिदिगीशानस्वर्चितार्चनचर्चितः ॥ १२७॥

शङ्करैकप्रियप्रेमनयनान्दवर्द्धनः ।
षोडशस्वरितालापगीतगानविचक्षणः ॥ १२८॥

समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः ।
हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १२९॥

क्षमापूरितहृत्पद्मसंरक्षितचराचरः ।
ताराङ्कमन्त्रवर्णैकाविग्रहोज्ज्वलविग्रहः ॥ १३०॥

अकारादिक्षकारान्तविद्याभूषितविग्रहः ।
ॐ श्रीविनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ॥ १३१॥

हेरम्बो मोदकाहारो वक्रतुण्डो विधिः स्मृतः ।
वेदान्तगीतो विद्यार्थिसिद्धमन्त्रः षडक्षरः ॥ १३२॥

गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः ।
सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १३३॥

गाङ्गेयो गणसेव्यश्च ॐ श्रीद्वैमातुरः शिवः ।
ॐ ह्रीं श्रीं क्लीं ग्लौं गँ देवो महागणपतिः प्रभुः ॥ १३४॥

इदं नामसहस्रं तु महागणपतेः स्मृतम् ।
गुह्यं गोप्यतमं सिद्धं सर्वतन्त्रेषु गोपितम् ॥ १३५॥

सर्वमन्त्रमयं दिव्यं सर्वविघ्नविनाशनम् ।
ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १३६॥

सर्वाविद्यामयं ब्रह्मसाधनं साधकप्रियम् ।
गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १३७॥

यथेष्टफलदं लोके मनोरथप्रपूरणम् ।
अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम् ॥ १३८॥

विनार्चनं विना होमं विनान्यासं विना जपम् ।
अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १३९॥

चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे ।
लिखेद्भूर्जे महादेवि ! पुण्यं नामसहस्रकम् ॥ १४०॥

धारयेत्तं चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे ।
योषिद्वामकरे चैव पुरुषो दक्षिणे भुजे ॥ १४१॥

स्तम्भयेदपि ब्रह्याणं मोहयेदपि शङ्करम् ।
वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १४२॥

उच्चाटयेच्च गीर्वाणं शमयेच्च धनञ्जयम् ।
वन्ध्या पुत्रं लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १४३॥

त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे ।
नग्नः शक्तियुतो देवि भुक्त्वा भोगान्यथेप्सितान् ॥ १४४॥

प्रत्यक्षवरदं पश्येद्गणेशं साधकोत्तमः ।
य इदं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १४५॥

तस्य वित्तादिविभवोदारायुः सम्पदः सदा ।
रणे राजमये द्यूते पठेन्नामसहस्रकम् ॥ १४६॥

सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ॥ १४७॥

इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ।
महागणपतेः पुण्यं गोपनीयं स्वयोनिवत् ॥ १४७॥

॥ इति श्रीरुद्रयामलतन्त्रे
श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥

संस्कृत गोवीथि : : गव्य ४२ (पुराण विशेष) :: राजनीतिज्ञ राम

Gavya42रामका राज्यतंत्र – अग्निपुराणम्/अध्यायः २३९

one of the fundamental thing missing in Mr. Narendra Modi is that he cannot even harm those who are harming him!!

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।

He must punish those who deserve the punishment.

I wish he learns from Bhagvaan Raam!

This chapter of Agni Purana is a self-test for each new age politician in democracy. Citizens must demand these qualities from a leader.

Some of the notable qualities.

Good descent, good conduct, young, compassion, quick action, consistency, being fortunate (?), truthfullness, service to the aged, intellect, gratefulness,valor, faithfulness, foresightedness, zeal, purity,generosity, modesty!


शब्द सिन्धु


स्वयंप्रकाशित (svayaMprakaashita) = self-illumined like stars(Sun)
स्वया (svayaa) = by their own
स्वर (svara) = sound
स्वरन्धरा (svarandharaa) = (f) harmonium
स्वरूप (svaruupa) = one’s true nature
स्वरूपं (svaruupaM) = form
स्वर्ग (svarga) = heaven
स्वर्गं (svargaM) = to heaven
स्वर्गतिं (svargatiM) = passage to heaven
स्वर्गपराः (svargaparaaH) = aiming to achieve heavenly planets
स्वर्गलोकं (svargalokaM) = heaven
स्वर्गात् (svargaat.h) = (Masc.abl.S)heaven
स्वर्गे (svarge) = in heaven
स्वलीलया (svaliilayaa) = sva+lIlaya, through one’s play-like action
स्वल्प (svalpa) = little
स्वल्पं (svalpaM) = a little
स्वल्पतन्त्रं (svalpatantraM) = (n) oligarchy
स्वसंवेदन (svasa.nvedana) = the understanding of oneself
स्वस्ति (svasti) = all peace
स्वस्तिकासन (svastikaasana) = the prosperous posture
स्वस्तिनस्तार्क्ष्यो (svastinastaarkShyo) = let tArkshya or Garuda do good to us
स्वस्तिर्नो (svastirno) = good to us
स्वस्थः (svasthaH) = being situated in himself
स्वस्थैः (svasthaiH) = by healthy persons (ie , healthy in minds , their minds being well
स्वस्यः (svasyaH) = by his own
स्वहस्तः (svahastaH) = Signature
स्वक्षेत्र (svakShetra) = Planet in its own sign
स्वां (svaaM) = of Myself
स्वागतकक्षः (svaagatakaxaH) = (m) drawing room
स्वाति (svaati) = The fifteenth nakshatra. Can be spelt Svati
स्वाद (svaada) = (m) taste
स्वादते (svaadate) = (1 ap) to taste
स्वादु (svaadu) = sweet
स्वाधीन (svaadhiina) = dependent on the self
स्वाध्याय (svaadhyaaya) = self-study
स्वाध्यायः (svaadhyaayaH) = study of Vedic literature
स्वाध्यायान्मा (svaadhyaayaanmaa) = sva + adhyAyAt.h + mA:fromone’s learning + don’t
स्वाप (svaapa) = (m) sleep
स्वामि (svaami) = master
स्वामी (svaamii) = the master
स्वायत्त (svaayatta) = dependent only one onself
स्वाराज्य (svaaraajya) = `self-rule’, i.e., not being subordinate someone else
स्वार्थ (svaartha) = one’s own ends
स्वार्थी (svaarthii) = adj. self-centered
स्वीकरोति (sviikaroti) = to accept
स्वेन (svena) = by your own
स्वैरतन्त्रं (svairatantraM) = (n) autocracy
स्व्यं (svyaM) = of one’s own
स्व्रांजली (svraa.njalii) = Musical notes
ह (ha) = the sun
हंस (ha.nsa) = (masc) swan, goose
हंसः (ha.nsaH) = (m) swan
हंसासन (ha.nsaasana) = the swan posture
हट (haTa) = force, against one’s will
हटयोग (haTayoga) = union with the supreme via discipline
हतं (hataM) = killed
हतः (hataH) = being killed
हतान् (hataan.h) = already killed
हतानि (hataani) = (past.part.)having been killed
हतैः (hataiH) = having been killed
हत्या (hatyaa) = (f) assassination
हत्वा (hatvaa) = by killing
हनन (hanana) = killing
हनिष्ये (hanishhye) = I shall kill
हनुमत्प्रभुः (hanumatprabhuH) = the lord of Hanuman
हनुमान (hanumaana) = a monkey chief, son of Anjana and Vayu
हनुमानासन (hanumaanaasana) = the splits
हन्त (hanta) = O ! , Alas !
हन्तारं (hantaaraM) = the killer
हन्ति (hanti) = kills
हन्तुं (hantuM) = to kill
हन्तृ (hantRi) = desirous of killing
हन्यते (hanyate) = is killed
हन्यमाने (hanyamaane) = being killed
हन्युः (hanyuH) = may kill
हय (haya) = horse
हयैः (hayaiH) = horses
हर् (har.h) = to steal
हर (hara) = shankara
हरः (haraH) = shiva
हरति (harati) = (1pp) to take (away)


पाठ


1 2


सुभाषित


धारणाद्धर्ममित्याहु: धर्मो धारयते प्रजा: |
यस्याद्धारणसंयुक्तं स धर्म इति निश्चय: ||

The word “dharma” is derived from verb “dhaaraNa”. it is “dharma” which holds society together. Hence if something is able to hold people together, no doubt it is dharma.


पठन -> मनन -> स्मरण -> आत्मसात


रामका राज्यतंत्र – अग्निपुराणम्/अध्यायः २३९

one of the fundamental thing missing in Mr. Narendra Modi is that he cannot even harm those who are harming him!!

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।

He must punish those who deserve the punishment.

I wish he learns from Bhagvaan Raam!

This chapter of Agni Purana is a self-test for each new age politician in democracy. Citizens must demand these qualities from a leader.


राम उवाच
स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृतं ।
परस्परोपकारीदं सप्ताङ्गं राकज्यमुच्य्ते ।। २३९.१ ।।

राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत् सदा ।
कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता ।। २३९.२ ।।

अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ।
दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता ।। २३९.३ ।।

शक्यसामन्तता चैव तथा च दृढभक्तिता२ ।
दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता ।। २३९.४ ।।

विनीतत्वं धार्मिकता साधोश्च नृपतेर्गुणाः ।
प्रख्यातवंशमक्रूरं लोकसङ्‌ग्राहिणं शुचिं ।। २३९.५ ।।

कुर्व्वीतात्महिताकाङ्क्षी परिचारं महीपतिः ।
वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ।। २३९.६ ।।

नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः ।
पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया ।। २३९.७ ।।

परवृत्तान्ववेक्षी च सन्धिविग्रहतत्तववित् ।
गूढमन्त्रप्रचारज्ञो देशकालविभागवित् ।। २३९.८ ।।

आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् ।
क्रोधलोभभयद्रोहदम्भचापलवर्ज्जितः ।। २३९.९ ।।

परोपतापपैशून्यमात्सर्येर्षानृतातिगः ।
वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः ।। २३९.१० ।।

गुणानुरागस्थितिमानात्मसम्पद्‌गुणा स्मृताः ।
सुलीनाः शुचयः शूराः श्रुतवन्तोऽनुरागिणः ।। २३९.११ ।।

दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्म्महीपतेः ।
सुविग्रहो जानपदः कुलशीलकलान्वितः ।। २३९.१२ ।।

वाग्मी प्रगल्भश्चक्षुष्मानुत्साही प्रतिपत्तिमान् ।
स्तम्भ्चापलहीनश्च मैत्रः क्लेशसहः शुचिः ।। २३९.१३ ।।

सत्यसत्त्वधृतिस्थैर्य्यप्रबावारोग्यसंयुतः ।
कृतशिल्पश्च७ दक्षश्च प्रज्ञावान् धारणान्वितः ।। २३९.१४ ।।

दृढभक्तिरकर्त्ता च वैराणां सचिवो भवेत् ।
स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश्चयः ।। २३९.१५

दृढता मन्त्रगुप्तिश्च मन्त्रिसम्पत् प्रकीर्त्तिता ।
त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः ।। २३९.१६ ।।

अथर्व्ववेदविहितं कुर्य्याच्छान्तिकपौष्टिकं ।
साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् ।। २३९.१७ ।।

चक्षुष्मत्तां च शिल्पञ्च परीक्षएत गुणद्वयं ।
स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं ।। २३९.१८ ।।

परिकर्म्म्सु दक्षञ्च विज्ञानं धारयिष्णुतां ।
गुणत्रयं परीक्षेत प्रागल्भ्यं प्रीतितां तथा ।। २३९.१९ ।।

कथायोगेषु बुद्ध्येत वाग्‌मित्वं सत्यवादितां ।
उत्साहं च प्रभावं च तथा क्लेशसहिष्णुतां ।। २३९.२० ।।

धृतिं चैवानुरागं च स्थैर्य्यञ्चापदि लक्ष्येत् ।
भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः ।। २३९.२१ ।।

संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च ।
अस्तव्धतामचापल्यं वैराणां चाप्यकार्त्तनं ।। २३९.२२ ।।

प्रत्यक्षतो विजानीयाद भद्रतां क्षुद्रतामपि ।
फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।। २३९.२३ ।।

शस्याकरवती पुण्या खनिद्रव्यसमन्विता ।
गोहिता भूरिसलिला पुन्यैर्जनपदैर्युता ।। २३९.२४ ।।

रम्या सकुञ्जरबला वारिस्थलपथान्विता ।
अदेवमातृका चेति शस्यते भूरिभूतये ।। २३९.२५ ।।

शूद्रकारुवणिक्‌प्रायो महारम्भः कृषीबलः ।
सानुरागो रिपुद्वेषी पीड़ासहकरः पृथुः ।। २३९.२६ ।।

नानादेश्यैः समाकीर्णो धार्म्मिकः पशुमान् बली ।
ईदृक्‌जनपदः शस्तोऽमूर्खव्यसनिनायकः।। २३९.२७ ।।

पृथुसीमं महाखातमुच्चप्राकारतोरणं ।
पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ।। २३९.२८ ।।

जलवद्धान्यधनवद्‌दुर्गं कालसहं महत् ।
औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट् ।। २३९.२९ ।।

ईप्सितद्रव्यसम्पूर्णः पितृपैताम्होचितः ।
धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये ।। २३९.३० ।।

पितृपैतामहो वश्यः संहतो दत्तवेतनः ।
विख्यातपौरुषो जन्यः कुशलः शकुनैर्वृतः ।। २३९.३१ ।।

नानाप्रहरणोपेतो नानायुद्धविशारदः ।
नानायोधसमाकीर्णो नीराजितहयद्विपः ।। २३९.३२ ।।

प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः ।
अद्वैधक्षत्रियपयो दण्डो दण्डवतां मतः ।। २३९.३३ ।।

योगविज्ञानसत्त्वाढ्यं महापक्षं प्रियम्बदं ।
आयतिक्षममद्वैधं मित्रं कुर्वीत सत्कुल ।। २३९.३४ ।।

दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा ।
वाक्‌ सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः ।। २३९.३५ ।।

धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं ।
औरसं तत्र सन्नद्धं१६ तथा वंशक्रमागतं ।। २३९.३६ ।।

रक्षइतं व्ससनेभ्यश्च मित्रं ज्ञेयं चतुर्विधं ।
मित्रे गुणाः सत्यताद्याः समानसुखदुःखता ।। २३९.३७ ।।

वक्ष्येऽनुजीविनां वृत्तं सेवी सेवेत भूपतिं ।
दक्षता भद्रता दार्ढ्य क्षान्तिः क्लेशसहिष्णुता ।। २३९.३८ ।।

सन्तोषः शीलभुत्साहो मण्डयत्यनुजीविनं ।
यथाकालमुपासीत राजानं सेवको नयात् ।। २३९.३९ ।।

परस्थानगमं क्रौर्य्यमौद्धत्यं मत्सरन्त्यजेत् ।
विगृह्य कथनं भृत्यो न कुर्य्याज् ज्यायसा सह ।। २३९.४० ।।

गुह्यं मर्म्म च मन्त्रञ्च न च भर्त्तुः प्रकाशयेत् ।
रक्ताद् वृत्तिं समीहेत् विरक्तं सन्त्यजेन्नृपं ।। २३९.४१ ।।

आजीव्यः सर्व्वसत्त्वानां राजा पर्जन्यवद्भवेत् ।
आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च ।। २३९.४२ ।।

कुर्य्यादुद्योगसम्पन्नानध्यक्षआन् सर्वकर्म्मसु ।
कृषिर्व्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ।। २३९.४३ ।।

खन्याकरबलादानं शुन्यानां च निवेशनं ।
अष्टवर्गमिमं राजा साधुवृत्तोऽनुपालयेत् ।। २३९.४४ ।।

आमुक्तिकेभ्यश्चौरेभ्यः पौरेब्यो राजवल्लभात् ।
पृथिवीपतिलोभाच्च चप्रजानां पञ्चधा भयं ।। २३९.४५ ।।

अवेक्ष्यैतद्भ्यं काले आददीत करं नृपः ।
अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च रक्षयेत् ।। २३९.४६ ।।

दड्यांस्तु दण्डयेद्राजा स्वं रक्षेच्चःविषादितः ।
स्त्रियः पुत्रांश्च शत्रुभ्यो विश्वसेन्न कदाचन ।। २३९.४७ ।।

इत्यादिमहापुराणे आग्नेये राजधर्म्मो नाम ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ।।

संस्कृत गोवीथि : : गव्य ९(हनुमान विशेष)

Gavya9

 


शब्द सिन्धु


अंशभूतं (a.nshabhuutaM) = has been a part of her
अंशः (a.nshaH) = fragmental particle
अंशुमान् (a.nshumaan.h) = radiant
अंशेन (a.nshena) = part
अकर्तारं (akartaaraM) = as the nondoer
अकर्म (akarma) = inaction
अकर्मकृत् (akarmakRit.h) = without doing something
अकर्मणः (akarmaNaH) = than no work
अकर्मणि (akarmaNi) = in not doing prescribed duties
अकल्मषं (akalmashhaM) = freed from all past sinful reactions
अकस्मात् (akasmaat.h) = by chance
अकारः (akaaraH) = the first letter
अकारो (akaaro) = the letter `a’
अकार्य (akaarya) = and forbidden activities
अकार्यं (akaaryaM) = what ought not to be done
अकार्ये (akaarye) = and what ought not to be done
अकीर्ति (akiirti) = infamy
अकीर्तिं (akiirtiM) = infamy
अकीर्तिः (akiirtiH) = ill fame
अकुर्वत् (akurvat.h) = did
अकुर्वत (akurvata) = did they do
अकुशलं (akushalaM) = inauspicious


पाठ


Untitled

2

3


सुभाषित


कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् |
मनसापि यदन्येन न शक्यम् धरणीतले || ६-१-२

“A very outstanding work, the most arduous in the world has been done by Hanuman, which could not be carried out even in thought by any other on the surface of this earth.”


पठन/मनन/स्मरण


आञ्जनेय गायत्रि
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥
Meaning: I wish to know the son of a~njani.
I meditate on vAyu putra.
May that hanumAn propel us.

आञ्जनेय त्रिकाल वंदनं
प्रातः स्मरामि हनुमन् अनन्तवीर्यं
श्री रामचन्द्र चरणाम्बुज चंचरीकम् ।
लंकापुरीदहन नन्दितदेववृन्दं
सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥

Meaning: I remember that hanuman during
the early hours as one whose valor is
immeasurable. I remember that bee who
stays always at shrI ramachandra’s
feet. I remember HIM who burnt la.nka
and made gods happy. I remember him
who is the store house of all siddhis
and who is capable of anything.
माध्यम् नमामि वृजिनार्णव तारणैकाधारं
शरण्य मुदितानुपम प्रभावम् ।
सीताधि सिंधु परिशोषण कर्म दक्षं
वंदारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥

Meaning: I bow that Anjaneya svAmi during
the mid day as the one capable Person
to crossing the ocean, who blesses the
person with enormous happiness when
he/she takes refuge in HIM. He is
entrusted with the responsibility of
annihilating sIta’s sorrows. He is like
a wish-fulfilling tree for one who bows to HIM.
सायं भजामि शरणोप स्मृताखिलार्ति
पुञ्ज प्रणाशन विधौ प्रथित प्रतापम् ।
अक्षांतकं सकल राक्षस वंश
धूम केतुं प्रमोदित विदेह सुतं दयालुम् ॥

Meaning: I worship that A~njaneya svAmi
during the evening as the one who saves
everyone who takes HIS name. He the most
valorous one, who killed akShA and was
the dhUmaketu for all the demons.
He also made sIta devi (daughter of
videha country) happy.

——-
Ravisankar S. Mayavaram

संस्कृत गोवीथि : : गव्य १०(हनुमान विशेष)

Gavya10


शब्द सिन्धु


अकृतबुद्धित्वात् (akRitabuddhitvaat.h) = due to unintelligence
अकृतात्मानः (akRitaatmaanaH) = those without self-realisation
अकृतेन (akRitena) = without discharge of duty
अकृत्वा (akRitvaa) = without doing (from kRi)
अकृत्स्नविदाः (akRitsnavidaaH) = persons with a poor fund of knowledge
अक्रियाः (akriyaaH) = without duty
अक्रोध (akrodha) = freedom from anger
अक्रोधः (akrodhaH) = freedom from anger
अक्लेद्यः (akledyaH) = insoluble
अखिल (akhila) = entire
अखिलं (akhilaM) = whole
अखिलगुरु (akhilaguru) = preceptor for all, also all types of long syllable letters
अगत (agata) = not past
अगतसूंस्च (agatasuu.nscha) = agata + asuun.h + cha:undeparted life + and (living people)
अगत्वा (agatvaa) = without going (from gam.h)
अगम (agama) = proof of the trustworthiness of a source of knowledge
अगस्तमास (agastamaasa) = month of August
अगोचर (agochara) = (adj) unknown
अग्नि (agni) = fire
अग्निः (agniH) = fire
अग्निपर्वतः (agniparvataH) = (m) volcano, volcanic cone
अग्निपेतिका (agnipetikaa) = (f) matchbox
अग्निशलाका (agnishalaakaa) = (f) matchstick
अग्निषु (agnishhu) = in the fires
अग्नौ (agnau) = in the fire of consummation
अग्र (agra) = (neut in this sense) tip
अग्रं (agraM) = at the tip
अग्रजः (agrajaH) = elder
अग्रतः (agrataH) = (let the two go) before (me)
अग्रदीपः (agradiipaH) = (m) headlight
अग्रे (agre) = in front of/ahead/beforehand


पाठ


1 2 3


सुभाषित – हनुमान विशेष


स सूर्याय महेन्द्राय पवनाय स्वयंभुवे |
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् || ५-१-८

He saluted with joined palms to the Sun-God, Lord Indra, God of Wind, Lord Brahma and Bhutas and decided to leave.

 


पठन/मनन – हनुमान विशेष


॥ श्रीहनुमत्सूक्तम् ॥
श्रीमन्तो सर्वलक्षणसम्पन्नो जयप्रदः
सर्वाभरणभूषित उदारो महोन्नतोष्ट्रारूढः
केसरीप्रियनन्न्दनो वायुतनूजो यथेच्छं पम्पातीरविहारी
गन्धमादनसञ्चारी हेमप्राकाराञ्चितकनककदलीवनान्तरनिवासी
परमात्मा वनेचरशापविमोचनो
हेमकनकवर्णो नानारत्नखचिताममूल्यां मेखलां च स्वर्णोपवीतं
कौशेयवस्त्रं च बिभ्राणः सनातनो परमपुरषो
महाबलो अप्रमेयप्रतापशाली रजितवर्णः
शुद्धस्पटिकसङ्काशः पञ्चवदनः
पञ्चदशनेत्रस्सकलदिव्यास्त्रधारी
श्रीसुवर्चलारमणो महेन्द्राद्यष्टदिक्पालक-
त्रयस्त्रिंशद्गीर्वाणमुनिगणगन्धर्वयक्षकिन्नरपन्नगासुरपूजित
पादपद्मयुगलः नानावर्णः कामरूपः
कामचारी योगिध्येयः श्रीहनुमान्
आञ्जनेयः विराट्रूपी विश्वात्मा विश्वरूपः
पवननन्दनः पार्वतीपुत्रः
ईश्वरतनूजः सकलमनोरथान्नो ददातु।

इदं श्रीहनुमत्सूक्तं यो धीमानेकवारं पठेद्यदि
सर्वेभ्यः पापेभ्यो विमुक्तो भूयात् ।

संस्कृत गोवीथी : : गव्य 7

Gavya7


शब्द सिन्धु


कवची (kavachii) = with armor
कवयः (kavayaH) = the intelligent
ज्ञायसे (GYaayase) = can to be known
ज्ञास्यसि (GYaasyasi) = you can know
ज्ञेयं (GYeyaM) = be known
ज्ञेयः (GYeyaH) = should be known
ज्ञेयोसि (GYeyosi) = You can be known


पाठ


संधि

1

Apply above simple sandhi rules on below paragraph, wherever you feel applicable.

2व्यवहार वाक्य

  • समय समागत:| – समय पर आ गए|
  • भवन्तं जानामि| – आपको जनता हूँ|
  • तथैव अस्तु| – वैसा ही हो|
  • जानामि भो:| – जानता हूँ|

सुभाषित


शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
सुजनाः न हि सर्वत्र चंदनं न वने वने ॥ ॥

Not every mountain has gems in it, and not every
elephant is adorned with pearls . Not every forest
is blessed with sandal trees, and good people are
not to be found everywhere.


पठन/मनन


उषा वंदना

http://sanskritdocuments.org/doc_deities_misc/salutedawn.html?lang=sa

उषावंदनम्
   Salutation of the Dawn

अद्य भावय सुदिनम्!
Look to this Day!
जीवभूतः काल एषः । प्राणस्य प्राणः ।
For it is Life, the very Life of Life.
अस्मिन् स्वल्पकाले सत्यमये तव सतः सत्यं तिष्ठति
In its brief course lie all the
Verities and Realities of your Existence;
विकासानन्देन
The Bliss of Growth,
कर्मश्रिया
The Glory of Action,
सौन्दर्यशोभया ।
The Splendor of Beauty;
ह्यस्तु स्वप्नः ।
For Yesterday is but a Dream,
श्वस्तु आभासः ।
And Tomorrow is only a Vision;
कर्मकुशलतया आचरिते अद्य
But Today well lived makes every
गतदिनानि आनन्दस्वप्नमयानि भवन्ति ।
Yesterday a Dream of Happiness, and every
भाविदिनानि आशाप्रभया ज्वलन्ति ।
Tomorrow a Vision of Hope.
अतः सुदिनं अद्य सम्यक् भावय!
Look well therefore to this Day!
एषा उषाभिवन्दना!
Such is the Salutation of the Dawn.

 

संस्कृत गोवीथि : : गव्य ३२ (शंकराचार्य विशेष)

Gavya32

भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत्॥

A person who meditates upon a thing with great assiduity and firm conviction, becomes that very thing. This may be understood from the illustration of the wasp and the worm. [According to folk wisdom, when a wasp catches an insect and takes it back to its hole, the insect becomes so terrorised that it constantly thinks about its predator to the point where it actually transforms itself into a wasp. The same analogy applies to a person who meditates on Reality with all his mind and eventually ends up becoming Reality.]

अपरोक्षानुभूति


शब्द सिन्धु


इन्धन (indhana) = fuel
इमं (imaM) = (from idaM) this
इमाः (imaaH) = all these
इमान् (imaan.h) = these
इमे (ime) = these
इमौ (imau) = these
इयं (iyaM) = this
इव (iva) = just like or as if
इशत् (ishat.h) = a little
इषुभिः (ishhubhiH) = with arrows
इष्ट (ishhTa) = of all desirable things
इष्टं (ishhTaM) = leading to heaven
इष्टाः (ishhTaaH) = palatable
इष्टान् (ishhTaan.h) = desired
इष्टिका (ishhTikaa) = (f) brick
इष्ट्वा (ishhTvaa) = worshiping
इह (iha) = here
इहैव (ihaiva) = in the present body
इक्षुः (ikShuH) = sugarcane
इक्ष्वाकवे (ikShvaakave) = unto King Iksvaku
ईदृशं (iidRishaM) = of this nature
ईदृषं (iidRishhaM) = like this
ईर्ष्या (iirshhyaa) = (f) jealousy
ईश (iisha) = God
ईशं (iishaM) = Lord Siva
ईशावास्यं (iishaavaasyaM) = inhabited or manifested by the Master
ईश्वर (iishvara) = lord, the capable (here)
ईश्वरं (iishvaraM) = the Supersoul
ईश्वरः (iishvaraH) = the Supreme Lord
ईश्वरप्राणिधान (iishvarapraaNidhaana) = attentiveness to god
ईह् (iih.h) = to wish
ईहते (iihate) = he aspires
ईहन्ते (iihante) = they desire
ईहा (iihaa) = wish
ईक्ष् (iikSh.h) = to see
ईक्षण (iikShaNa) = seeing


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

Learn and use them

न पुष्पार्थी सिञ्चति शुष्कतरुम्।

न मूर्खजनसम्पर्क: सुरेन्द्रभवनेष्वपि।

न व्यापारशतेनापि शुकवत्पाठ्यते बक:।

नक्र: स्वस्थानमासाद्य गजेन्द्रमपि कर्षति।

नास्ति अर्थिनो गौरवम्


सुभाषित


जलान्तश्चन्द्रचपलं जीवनं खलु देहिनाम् |
तथाविधिमिति त्वाशाश्वत्कल्याणमाचरेत् ||

Life of a man is like a shaky reflection of moon in the water (is very short, and unstable). Knowing this, humans should always keep on doing a long lasting work that benefits the society.


पठन -> मनन -> स्मरण -> आत्मसात


कौपीन पंचकम्
Five Stanzas on the wearer of loin-cloth

वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे चरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १॥
Roaming ever in the grove of Vedanta,
Ever pleased with his beggar’s morsel,
Wandering onward, his heart free from sorrow,
Blest indeed is the wearer of the loin-cloth . (1)

मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ २॥
Sitting at the foot of a tree for shelter,
Eating from his hands his meagre portion,
Spurning wealth like a patched-up garment,
Blest indeed is the wearer of the loin-cloth . (2)

स्वानन्दभावे परितुष्टिमन्तः
सुशान्तसर्वेन्द्रियवृत्तिमन्तः ।
अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥
Satisfied fully by the Bliss within him,
Curbing wholly the cravings of his senses,
Delighting day and night in the bliss of Brahman,
Blest indeed is the wearer of the loin-cloth . (3)

देहादिभावं परिवर्तयन्तः
स्वात्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४॥
Witnessing the changes of mind and body,
Naught but the Self within him beholding,
Heedless of outer, of inner, of middle,
Blest indeed is the wearer of the loin-cloth . (4)

ब्रह्माक्षरं पावनमुच्चरन्तो
ब्रह्माहमस्मीति विभावयन्तः ।
भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५॥
Chanting Brahman, the word of redemption,
Meditating only on `I am Brahman’,
Living on alms and wandering freely,
Blest indeed is the wearer of the loin-cloth . (5)

॥ इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं सम्पूर्णम् ॥
source: `Self-Knowledge’ of Adi
Sankaracharya, by Swami Nikhilananda,
Ramakrishna Math, Madras (1967)
(From appendix on miscellaneous stotras).
Encoded and proofread by P . P . Narayanaswami at swami at math.mun.ca

 

 

संस्कृत गोवीथि : : गव्य ४३ (पुराण विशेष) : सूर्य्यार्च्चनम्

Gavya43

Sun worship is integral and de-facto part of Sanatani living.

सूर्य्यार्च्चनम्

अग्निपुराणम्/अध्यायः ३०१

घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः ।
धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ।। ३०१.८ ।।

मार्त्तण्डभैरवः affects the skin, blood, breath and the Prana, and who is the cause of virtue, material prosperity, desires and emancipation covered by the rob.

ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् ।
रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.१६ ।।

योऽभिषेकजपध्यानपूजाहोमपरः सदा ।
तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.१७ ।।

The Sun-God should be contemplated as yellow-colored in incantations practices for death as well as for stupefying the sense, as white for the sake of satisfaction, as black for achieving the destruction of enemies and as the color of rainbow for stupefaction.

One who is always bent on doing abulation, repetition of the mantras, contemplation, worship and oblation would become resplendent, invincible, prosperous and gain victory in the ocean.

मार्त्तण्डभैरवः – In Sanskrit texts, Khandoba is known as Martanda Bhairava or Surya, a combination of the solar deity Martanda and Shiva’s fierce form Bhairava.

Khandoba, (Marathi: खंडोबा Kannada: ಖಂಡೋಬಾ, Khaṇḍobā) also known as Martanda Bhairava and Malhari, is a Hindu god, worshipped as a form of Shiva, mainly in the Deccan plateau of India, especially in the states of Maharashtra and Karnataka. He is the most popular family deity in Maharashtra. He is also the patron deity of warrior, farming, herding as well as some Brahmin (priest) castes, the hunters and gatherers of the hills and forests. The cult of Khandoba has linkages with Vaishnava and Jain traditions, and also assimilates all communities irrespective of caste, including Muslims. Khandoba is sometimes identified with Mallanna of Andhra Pradesh and Mailara of Karnataka.
The worship of Khandoba developed during the 9th and 10th centuries
from a folk deity into a composite god possessing the attributes of Shiva, Bhairava, Surya and Karttikeya (Skanda). He is depicted either in the form of a Lingam, or as an image riding on a bull or a horse. The foremost centre of Khandoba worship is Jejuri in Maharashtra. The legends of Khandoba, found in the text Malhari Mahatmya and also narrated in folk songs, revolve around his victory over demons Mani-malla and his marriages.

https://en.wikipedia.org/wiki/Khandoba#Iconography

 


शब्द सिन्धु


स्थूलमात्रा (sthuulamaatraa) = macro
स्थूलशरीर (sthuulashariira) = (bahuvriihi) big-bodied
स्थूलस्फटिकी (sthuulasphaTikii) = macrocrystaline
स्थैर्यं (sthairyaM) = steadfastness
स्नातकोत्तर (snaatakottara) = post graduate
स्नाति (snaati) = to bathe
स्नान (snaana) = bath, ablution
स्नानशील (snaanashiila) = (metaphorically) pure
स्नानगृहम् (snaanagRiham.h) = (n) bathroom
स्नायु (snaayu) = sinew
स्नायुवितननं (snaayuvitananaM) = sprain
स्निग्ध (snigdha) = affectionate; also oily,greasy
स्निग्धाः (snigdhaaH) = fatty
स्नुषा (snushhaa) = (f) daughter-in-law
स्नेह (sneha) = love
स्नेहः (snehaH) = friendship (oil)
स्नेहात् (snehaat.h) = (Masc.absol.sing.) from affection
स्नेहेन (snehena) = (Masc.instr.sing.) through affection
स्पन्दते (spandate) = (1 ap) to throb
स्पर्शनं (sparshanaM) = touch
स्पर्शान् (sparshaan.h) = sense objects, such as sound
स्पष्ट (spashhTa) = Longitude of planet or house (bhaava)
स्पृश् (spRish) = to touch
स्पृशति (spRishati) = (6 pp) to touch
स्पृशन् (spRishan.h) = touching
स्पृष्टं (spRishhTaM) = (past participle) touched
स्पृहा (spRihaa) = aspiration
स्प्रिहणियरूपं (sprihaNiyaruupaM) = desirable form (personal appearance)
स्फीत (sphiita) = (adj) prosperous
स्फुटित (sphuTita) = overt
स्फुरति (sphurati) = (6 pp) to throb
स्फुरित (sphurita) = shining
स्फोतकः (sphotakaH) = (m) bomb, explosive
स्म (sma) = an indeclinable that changes the sentence to past tense from present tense
स्मयते (smayate) = (1 ap) to smile
स्मरति (smarati) = (1 pp) to remember, recollect
स्मरन् (smaran.h) = thinking of
स्मरामि (smaraami) = remember
स्मरेत् (smaret.h) = remembers, recalls
स्माशन (smaashana) = graveyard
स्मृत (smRita) = remembered
स्मृतं (smRitaM) = is considered
स्मृतः (smRitaH) = is considered
स्मृता (smRitaa) = when remembered
स्मृति (smRiti) = of memory
स्मृतिः (smRitiH) = memory
स्मृतिभ्रंशात् (smRitibhra.nshaat.h) = after bewilderment of memory
स्मृती (smRitii) = memory
स्यन्दने (syandane) = chariot
स्यन्दिन् (syandin.h) = oozing
स्यां (syaaM) = would be
स्यात् (syaat.h) = may be
स्याम (syaama) = will we become
स्युः (syuH) = form from “as.h” meaning “those who may be”
स्युतम् (syutam.h) = (n) a bag
स्रोतसां (srotasaaM) = of flowing rivers
स्व (sva) = Self
स्वं (svaM) = own
स्वः (svaH) = the nether world(?)
स्वकं (svakaM) = His own
स्वकर्म (svakarma) = in his own duty
स्वकर्मणा (svakarmaNaa) = by his own duties
स्वकीय (svakiiya) = (asj) private
स्वचक्षुषा (svachakShushhaa) = your own eyes
स्वच्छ (svachchha) = pure
स्वच्छंदी (svachchha.ndii) = adj. self-absorbed
स्वजनं (svajanaM) = kinsmen
स्वतंत्र (svata.ntra) = Free
स्वतेजसा (svatejasaa) = by Your radiance
स्वदेश (svadesha) = one’s own country
स्वधर्मं (svadharmaM) = your religious duty
स्वधर्मः (svadharmaH) = one’s prescribed duties
स्वधर्मे (svadharme) = in one’s prescribed duties
स्वधा (svadhaa) = oblation
स्वन (svana) = sound
स्वनुष्ठितात् (svanushhThitaat.h) = perfectly done
स्वपति (svapati) = (2pp) to sleep
स्वपन् (svapan.h) = dreaming
स्वप्न (svapna) = dream
स्वप्नं (svapnaM) = dreaming
स्वप्नः (svapnaH) = dreaming
स्वप्नशीलस्य (svapnashiilasya) = of one who sleeps
स्वप्नावबोधस्य (svapnaavabodhasya) = sleep and wakefulness
स्वप्नावस्था (svapnaavasthaa) = the state of the mind in a dream
स्वप्ने (svapne) = in dream
स्वभाव (svabhaava) = nature, personal mental attributes
स्वभावः (svabhaavaH) = characteristics
स्वभावजं (svabhaavajaM) = born of his own nature
स्वभावजा (svabhaavajaa) = according to his mode of material nature
स्वभावजेन (svabhaavajena) = born of your own nature
स्वभावनियतं (svabhaavaniyataM) = prescribed according to one’s nature
स्वमतिपरिणामावधि (svamatipariNaamaavadhi) = according to one’s intellectual capacity
स्वयं (svayaM) = herself


पाठ


1 2 3


सुभाषित


कुलस्यार्थे त्यजेदेकं ग्रामस्यार्थे कुलं त्यजेत् |
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||

One should sacrifice one’s self-interest for the sake of one’s family, one’s family for the sake of one’s town members, one’s town members for for the sake of one’s nation, and sacrifice the whole earth for the sake of one’s soul’s enlightenment.


पठन -> स्मरण -> मनन >आत्मसात


सूर्य्यार्च्चनम्

अग्निपुराणम्/अध्यायः ३०१

धन्वन्तरिरुवाच
शय्या तु दण्डिसाजेशपावकश्चतुराननः ।
सर्व्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ।। ३०१.१ ।।

स्वयं दीर्घस्वराकग्यञ्च वीजेष्वङ्गानि सर्वशः ।
खातं साधु विषञ्चैव सनिन्दुं सकलं तथा ।। ३०१.२ ।।

गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् ।
गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्ताय महोदरहस्ताय ।।
पञ्चाङ्गं सर्व्वसामान्यं सिद्धिः स्याल्लक्षजाप्यतः ।। ३०१.३ ।।

गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय ।
दिग्दले पूजयेन्नमूर्त्तीः पुरावच्चाङ्गपञ्चकम् ।। ३०१.४ ।।

वक्रतुण्डाय एकदंष्ट्राय महोदराय गजवक्त्राय ।
विकटाय विघ्नराजाय धूम्रवर्णाय ।
दिग्विदिक्षु यजेदेतांल्लोकांशांश्चैव मुद्रया ।। ३०१.४ ।।

मध्यामातर्ज्जनीमध्यागताङ्गुष्ठौ समुष्टिकौ ।
चुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ।। ३०१.५ ।।

दन्तभक्षधरं रक्तं साब्जं पाशाङ्कुशैर्वृतम् ।
पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ।। ३०१.६ ।।

श्वेतार्कमूलेन कृतं सर्व्वाप्तिः स्यात्तिलैर्घृतैः ।
तण्डुलैर्दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ।। ३०१.७ ।।

घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः ।
धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ।। ३०१.८ ।।

ह्रस्वाः स्युर्मूर्त्तयः पञ्च दीर्घा अङ्गानि तस्य च ।
सिन्दूरारुणमीशाने वामार्द्धदयितं रविं ।। ३०१.९ ।।

आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः ।
स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ।। ३०१.१० ।।

कृतान्तमैशे निर्म्माल्यं तेजश्चण्डाय दीपितं ।
रोचना कुङ्कुमं वारि रक्तागन्धाक्षताङ्कुराः ।। ३०१.११ ।।

वेणुवीजयवाः शालिश्यामाकतिलराजिकाः ।
जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य्य तत् ।। ३०१.१२ ।।

जानुभ्यामवनीङ्गत्वा सूर्य्यायार्घ्यं निवेदयेत् ।
स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै महान् ।। ३०१.१३ ।।

ग्र्हादिशान्तये स्नानं जप्त्वार्क्क सर्वमाप्नुयात् ।
संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ।। ३०१.१४ ।।

न्यस्य मूर्द्धादिपादान्तं मूलं पूज्य तु मुद्रया ।
स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ।। ३०१.१५ ।।

ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् ।
रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.१६ ।।

योऽभिषेकजपध्यानपूजाहोमपरः सदा ।
तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.१७ ।।

ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं ।
न्यस्तवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतम्।। ३०१.१८ ।।

इत्यादिमहापुराणे आग्नेये सूर्यार्च्चनं नामैकाधिकत्रिशततमोऽध्यायः ।।

Popular Posts

My Favorites

Ignore acclimatization, invite trauma

Getting accustomed to high altitudes that is acclimatization is one of the most significant things when you are travelling to Ladakh or any high...