Sanskrit

Sanskrit

संस्कृत गोवीथि : : गव्य ४६ : कृष्ण जन्म विशेष : सांख्यकारिका

Gavya45

He personified himself as Kapil Rishi among all Rishi(s). Rishi Kapil is the founder of the Samkhya school of Hindu philosophy.

Today, we will study सांख्यकारिका. सांख्यकारिका सांख्य दर्शन का सबसे पुराना उपलब्ध ग्रन्थ है। इसके रचयिता ईश्वरकृष्ण हैं। संस्कृत के एक विशेष प्रकार के श्लोकों को “कारिका” कहते हैं।

आचार्यश्रीईश्वरकृष्णविरचिता सांख्यकारिका

दु:खत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्तोऽभावात् ॥ १ ॥

दृष्टवदानुश्रविक: स ह्यविशुद्धिक्षयातिशययुक्त्: ।
तद्विपरीत: श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥

मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतय: सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृति: पुरुष: ॥ ३ ॥

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धि: प्रमाणाद्धि ॥ ४ ॥

प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥। ५ ॥

सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥ ६ ॥

अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्च ॥ ७ ॥

सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धे: ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८ ॥

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९ ॥

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिंङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥

त्रिगुणमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥

प्रीत्यप्रीतिविषादात्मका: प्रकाशप्रवृत्तिनियमार्था: ।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणा: ॥ १२ ॥

सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रज: ।
गुरु वरणकमेव तम: प्रदीपवच्चार्थतो वृत्ति: ॥ १३ ॥

अविवेक्यादे: सिद्धिस्त्रैगुण्यात् तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥

भेदानां परिमाणात् समन्वयात् शक्तित: प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य ॥ १५ ॥

कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणत: समुदयाच्च ।
परिणामत: सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥

संघातपरार्थत्वात् त्रिगुणादिविपर्यादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥

जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥

तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीन: ॥ २० ॥

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृत: सर्ग: ॥ २१ ॥

प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशक: ।
तस्मादपि षोडशकात् पञ्चभ्य: पञ्चभूतानि ॥ २२ ॥

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥

अभिमानोऽहंकार: तस्माद्विविध: प्रवर्तते सर्ग: ।
एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव ॥ २४ ॥

सात्त्विक एकादशक: प्रवर्तते वैकृतादहंकारात् ।
भूतादेस्तन्मात्र: स तामसस्तैजसादुभयम् ॥ २५ ॥

बुद्धीन्द्रियाणि चक्षु:श्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहु: ॥ २६ ॥

उभयात्मकमत्र मन: सङ्कल्पमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥

रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्ति: ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥

स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्ति: प्राणाद्या वायव: पञ्च ॥ २९ ॥

युगपच्चतुष्टयस्य तु वृत्ति: क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य् तत्पूर्विका वृत्ति: ॥ ३० ॥

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥ ३१ ॥

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥

अन्त:करणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥

बुद्धिन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥ ३४ ॥

सान्त:करणा बुद्धि: सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥

एते प्रदीपकल्पा: परस्परविलक्षणा गुणविशेषा: ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥

सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धि: ।
सैव च विशिनष्टि पुन: प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्य: ।
एते स्मृता विशेषा: शन्ता घोराश्च मूढाश्च ॥ ३८ ॥

सूक्ष्मा मातापितृजा: सह प्रभूतैस्त्रिधा विशेषा: स्यु: ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥

चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथाच्छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥

सांसिद्धिकाश्च भावा: प्राकृतिका वैकृताश्च धर्माद्या: ।
दृष्टा: करणाश्रयिण: कार्याश्रयिणश्च कललाद्या: ॥ ४३ ॥

धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्ध: ॥ ४४ ॥

वैराग्यात् प्रकृतिलय: संसारो भवति राजसाद् रागात् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यास: ॥ ४५ ॥

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्य: ।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत् ॥ ४६ ॥

पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धि: ॥ ४७ ॥

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोह: ।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्र: ॥ ४८ ॥

एकादशेन्द्रियवधा: सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा बुद्धेर्विपर्ययात् तुष्टिसिद्धीनाम् ॥ ४९ ॥

आध्यात्मिक्यश्चतस्र: प्रकृत्युपादानकालभाग्याख्या: ।
बाह्या विषयोपरमात् पञ्च च नव तुष्टयोऽभिमता: ॥ ५० ॥

उह: शब्दोऽध्ययनं दु:खविघातास्त्रय: सुह्रत्प्राप्ति: ।
दानं च सिद्धयोऽष्टौ सिद्धे: पूर्वोऽङ्कुशस्त्रिविध: ॥ ५१ ॥

न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्ति: ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविध: प्रवर्तते सर्ग: ॥ ५२ ॥

अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुषकश्चैकविध: समासतो भौतिक: सर्ग: ॥ ५३ ॥

उर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलत: सर्ग: ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्त: ॥ ५४ ॥

तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष: ।
लिङ्गस्याविनिवृत्तेस्तस्माद् दु:खं स्वभावेन ॥ ५५ ॥

इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्त: ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भ: ॥ ५६ ॥

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्ति: प्रधानस्य ॥ ५७ ॥

औत्सुक्यविनिवृत्यर्थं यथा क्रियासु प्रवर्तते लोक: ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथाऽत्मानं प्रकाश्य विनिवर्तते प्रकृति: ॥ ५९ ॥

नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंस: ।
गुणवत्यगुणस्य सत: तस्यार्थमपार्थकं चरित ॥ ६० ॥

प्रकृते: सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥

तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कञ्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृति: ॥ ६२ ॥

रूपै: सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृति: ।
सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ ६३ ॥

एवं तत्वाभ्यास्यान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुष: प्रेक्षकवदवस्थित: स्वस्थ: ॥ ६५ ॥

रङ्गस्थ इत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयो: प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥

सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच् चक्रभ्रमिवद् धृतशरीर: ॥ ६७ ॥

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृतौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥

पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥

एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ॥ ७० ॥

शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्यादिभि: ।
संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥

सप्तत्यां किल येऽर्थास्तेऽर्था: कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिता: परवादविवर्जिताश्चापि ॥ ७२ ॥

संस्कृत गोवीथि : : गव्य २२ (साहित्य विशेष)

Gavya22

नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ।।

लक्ष्मी किसी के साथ भेदभाव नहीं करती. इसका कोई प्रिय नहीं है. वे लोग मूर्ख और उल्टी बुद्धिवाले हैं जो इसके प्रति एकतरफ़ा आसक्ति रखते हैं, क्योंकि यह तो किसी से अनुरक्त होती नहीं (किसी को भी छोड़कर कहीं भी जा सकती है|


शब्द सिन्धु


अभियाचना (abhiyaachanaa) = (f) demand
अभियुक्तानां (abhiyuktaanaaM) = fixed in devotion
अभियोग (abhiyoga) = prosecution
अभियोगः (abhiyogaH) = (m) prosecution
अभिरतः (abhirataH) = following
अभिरक्षन्तु (abhirakShantu) = should give support
अभिरक्षितं (abhirakShitaM) = perfectly protected
अभिरक्षितम् (abhirakShitam.h) = who has been well protected
अभिरामस्त्रिलोकानां (abhiraamastrilokaanaaM) = the laudable rAma for all the three worlds
अभिविज्वलन्ति (abhivijvalanti) = and are blazing
अभिषिंचति (abhishhi.nchati) = performs’ puuja’, by pouring water etc. on the idol
अभिषेकं (abhishhekaM) = ablution
अभिसन्धाय (abhisandhaaya) = desiring
अभिहिता (abhihitaa) = described
अभीप्सित (abhiipsita) = desired
अभ्यधिकः (abhyadhikaH) = greater
अभ्यनुनादयन् (abhyanunaadayan.h) = resounding
अभ्यर्च्य (abhyarchya) = by worshiping
अभ्यसनं (abhyasanaM) = practice
अभ्यसूयकाः (abhyasuuyakaaH) = envious
अभ्यसूयति (abhyasuuyati) = is envious
अभ्यसूयन्तः (abhyasuuyantaH) = out of envy
अभ्यहन्यन्त (abhyahanyanta) = were simultaneously sounded
अभ्यारोपः (abhyaaropaH) = (m) indictment
अभ्याश (abhyaasha) = outskirts
अभ्यास (abhyaasa) = study
अभ्यासयोग (abhyaasayoga) = by practice
अभ्यासयोगेन (abhyaasayogena) = by the practice of devotional service
अभ्यासात् (abhyaasaat.h) = than practice
अभ्यासे (abhyaase) = in practice
अभ्यासेन (abhyaasena) = by practice
अभ्युत्थानं (abhyutthaanaM) = predominance
अभ्युदय (abhyudaya) = rise , prosperity
अभ्रं (abhraM) = cloud


पाठ


1 2 3

Try to understand this one liners without looking at translation. Write them down on card. Keep them at study table. Keep visiting them daily until you realize their meanings.

  • न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
  • नाकवित्वम् अधर्माय ।
  • नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
  • नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
  • नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
  • नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
  • नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
  • नाराजके जनपदे योगक्षेमः प्रवर्तते ।
  • नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
  • नास्तिह्रीरशनार्थिनः ।
  • निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
  • निरीहो नाश्नुते महत् ।
  • निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
  • निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
  • नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
  • नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
  • नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।

सुभाषित


काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् |
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ||

A intelligent (‘buddhiman’) man spends his time in the research and studies of literature (‘Kaavya’) and philosophy (‘Shastras’ like Veda Shastra, dharma shastra etc.). Or in other words the said subjects are means of his entertainment (He gets satisfaction due to the studies of ‘kaavya’ and philosophy). In contrast a unintelligent (‘Murkha’) man gets satisfaction in bad habits like sleep (Laziness), quarrel or some type of addiction. Tatparya (Conclusion): In this subhaashita the subhaashitkar has in short advised the reader that how should one spend his/her time!! May be according to him a ‘buddhiman’ is a person who invests his time in order to get some thing ‘valuable’ and long lasting!!


पठन/स्मरण


In 11th sarga of the किरातार्जुनीयम्, there is conversation between Indra and Arjun. One more master-piece. Some of the finest advises to Arjun and to all of us.

अभिद्रोहेण भूतानां अर्जयन्गत्वरीः श्रियः ।
उदन्वानिव सिन्धूनां आपदां एति पात्रतां ।।

-किरातार्जुनीयम्

The way sea is at receiving end of all rivers, person who earns wealth by injuring/killing/slaughtering/engaging in fraud is at receiving end of all the troubles.

जिसप्रकार समुद्र नदियों का पात्र होता है उसीप्रकार प्राणियों से द्रोह कर नश्वर सम्पत्तियों का उपार्जन करता हुआ व्यक्ति सारी आपदाओं का पात्र बन जाता है ।

यौवनश्री – Youthfulness as wealth

शरदम्बुधरच्छाया जत्वर्यो यौवनश्रियः|
आपातरम्याः विषयाः पर्यन्तपरितापिनः||

– किरातार्जुनीयम्/एकादशः सर्गः

Youth is fleeting like the clouds of autumn. The pleasures of the senses are sweet in the beginning but yield bitter results in the end.

Forget about earning, even the received legacy is not protected by many. By the time teen age is over, poor forever.

Please read entire Sarga in one go!

किरातार्जुनीयम्/एकादशः सर्गः

अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ।। ११.१ ।।

मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ।। ११.२ ।।

जटानां कीर्णया केशैः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ।। ११.३ ।।

विशदभ्रूयुगच्छन्न- वलितापाङ्गलोचनः ।
प्रालेयावततिम्लान- पलाशाब्ज इव ह्रदः ।। ११.४ ।।

आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ।। ११.५ ।।

गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्र- पटलच्छन्नविग्रहः ।। ११.६ ।।

जरतीं अपि बिभ्राणस्तनुं अप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसं इवाश्रयं ।। ११.७ ।।

अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ।। ११.८ ।।

आतिथेयीं अथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीं ।। ११.९ ।।

त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ।। ११.१० ।।

श्रेयसीं तव सम्प्राप्ता गुणसम्पदं आकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनं ।। ११.११ ।।

शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ।। ११.१२ ।।

अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ।। ११.१३ ।।

चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ।। ११.१४ ।।

युयुत्सुनेव कवचं किं आमुक्तं इदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ।। ११.१५ ।।

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानां अनभिद्रुहः ।। ११.१६ ।।

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमं ।। ११.१७ ।।

जयं अत्रभवान्नूनं अरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ।। ११.१८ ।।

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ।। ११.१९ ।।

मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ।। ११.२० ।।

अभिद्रोहेण भूतानां अर्जयन्गत्वरीः श्रियः ।
उदन्वानिव सिन्धूनां आपदां एति पात्रतां ।। ११.२१ ।।

या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदां इव सम्पदां ।। ११.२२ ।।
दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ।। ११.२३ ।।

नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ।। ११.२४ ।।

कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ।। ११.२५ ।।

कृतवानन्यदेहेषु कर्ता च विधुरं मनः ।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ।। ११.२६ ।।

शून्यं आकीर्णतां एति तुल्यं व्यसनं उत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ।। ११.२७ ।।

तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ।। ११.२८ ।।

युक्तः प्रमाद्यसि हितादपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ।। ११.२९ ।।

जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीं इव चलाचलां ।
भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ।। ११.३० ।।

विजहीहि रणोत्साहं मा तपः साधि नीनशः ।
उच्छेदं जन्मनः कर्तुं एधि शान्तस्तपोधन ।। ११.३१ ।।

जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः ।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ।। ११.३२ ।।

परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैतेइ विधेयतां ।। ११.३३ ।।

श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गतां ।। ११.३४ ।।

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ।। ११.३५ ।।

विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ।। ११.३६ ।।

व्याहृत्य मरुतां पत्याविति वाचं अवस्थिते ।
वचः प्रश्रयगम्भीरं अथोवाच कपिध्वजः ।। ११.३७ ।।

प्रसादरम्यं ओजस्वि गरीयो लाघवान्वितं ।
साकाङ्क्षं अनुपस्कारं विष्वग्गति निराकुलं ।। ११.३८ ।।

न्यायनिर्णीतसारत्वान्निरपेक्षं इवागमे ।
अप्रकम्प्यतयान्येषां आम्नायवचनोपमं ।। ११.३९ ।।

अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितं ।
औदार्यादर्थसम्पत्तेः शान्तं चित्तं ऋषेरिव ।। ११.४० ।।

इदं ईदृग्गुणोपेतं लब्धावसरसाधनं ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ।। ११.४१ ।।

न ज्ञातं तात यत्नस्य पौर्वापर्यं अमुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यं इच्छसि ।। ११.४२ ।।

अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव ।
व्रजत्यफलतां एव नयद्रुह इवेहितं ।। ११.४३ ।।

श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनं ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ।। ११.४४ ।।

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ।। ११.४५ ।।

कृष्णद्वैपायनादेशाद्बिभर्मि व्रतं ईदृशं ।
भृशं आराधने यत्तः स्वाराध्यस्य मरुत्वतः ।। ११.४६ ।।

दुरक्षान्दीव्यता राज्ञा राज्यं आत्मा वयं वधूः ।
नीतानि पणतां नूनं ईदृशी भवितव्यता ।। ११.४७ ।।

तेनानुजसहायेन द्रौपद्या च मया विना ।
भृशं आयामियामासु यामिनीष्वभितप्यते ।। ११.४८ ।।

हृतोत्तरीयां प्रसभं सभायां आगतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ।। ११.४९ ।।

उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।
भावं आनयने सत्याः सत्यंकारं इवान्तकः ।। ११.५० ।।

तां ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसरां ।
अभिसायार्कं आवृत्तां छायां इव महातरोः ।। ११.५१ ।।

अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।
अरुध्येतां इतीवास्या नयने बाष्पवारिणे ।। ११.५२ ।।

सोढवान्नो दशां अन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ।। ११.५३ ।।

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनां ।। ११.५४ ।।

धार्तराष्ट्रैः सह प्रीतिर्वैरं अस्मास्वसूयत ।
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ।। ११.५५ ।।

अपवादादभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ।। ११.५६ ।।

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेथ् ।। ११.५७ ।।

अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तितां ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनां ।। ११.५८ ।।

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहिनस्य तृणस्य च समा गतिः ।। ११.५९ ।।

अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृतां ।
प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ।। ११.६० ।।

तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ।। ११.६१ ।।

स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्यां अङ्गुलिं अभ्येति संख्यायां उद्यताङ्गुलिः ।। ११.६२ ।।

दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुं अलङ्घ्यता ।। ११.६३ ।।

गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलं ।। ११.६४ ।।

उदाहरणं आशीःषु प्रथमे ते मनस्विनां ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ।। ११.६५ ।।

न सुखं प्रार्थये नार्थं उदन्वद्वीचिचञ्चलं ।
नानित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदं ।। ११.६६ ।।

प्रमार्ष्टुं अयशःपङ्कं इच्छेयं छद्मना कृतं ।
वैधव्यतापिताराति- वनितालोचनाम्बुभिः ।। ११.६७ ।।

अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः ।
अस्थानविहितायासः कामं जिह्रेतु वा भवान् ।। ११.६८ ।।

वंशलक्ष्मीं अनुद्धृत्य समुच्छेदेन विद्विषां ।
निर्वाणं अपि मन्येऽहं अन्तरायं जयश्रियः ।। ११.६९ ।।

अजन्मा पुरुषस्तावद्गतासुस्तृणं एव वा ।
यावन्नेषुभिरादत्ते विलुप्तं अरिभिर्यशः ।। ११.७० ।।

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि तपोधन ।। ११.७१ ।।

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयं उदाहृतः ।। ११.७२ ।।

ग्रसमानं इवौजांसि सदसा गौरवेरितं ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ।। ११.७३ ।।

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ।। ११.७४ ।।

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनं ।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ।। ११.७५ ।।

कथं वादीयतां अर्वाङ्मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ।। ११.७६ ।।

आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ।। ११.७७ ।।

स्वधर्मं अनुरुन्धन्ते नातिक्रमं अरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ।। ११.७८ ।।

विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षं अयशःशल्यं उद्धरे ।। ११.७९ ।।

इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजं आविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनं आदिदेश ।। ११.८० ।।

प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषां उच्चार्य वाचं इति तेन तिरोबभूवे ।। ११.८१ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये एकादशः सर्गः ।

संस्कृत साधना : पाठ ९ (सर्वनाम विशेषण)

Sanskrut_9

नमः संस्कृताय !!
आज सर्वनाम विशेषण की चर्चा करते हैं।

१) जिन शब्दों का प्रयोग नाम (संज्ञा) के साथ विशेषण के रूप में किया जाता है या जो नाम (संज्ञा) के स्थान पर अकेले भी आते हैं उन्हें ‘सर्वनाम’ अथवा ‘सर्वनाम विशेषण’ कहते हैं।जैसे –
‘वह’ बालक जाता है।
= ‘सः’ बालकः गच्छति।
‘ये’ लड़के खेलते हैं।
= ‘एते’ बालकाः क्रीडन्ति।
‘तुम’ ‘कौन’ हो ?
= ‘त्वं’ ‘कः’ असि ?
‘मैं’ ‘वह’ ही लड़का हूँ।
= ‘अहं’ ‘सः’ एव बालकः अस्मि।
‘जो’ ‘उस’ विद्यालय में था।
= ‘यः’ ‘तस्मिन्’ विद्यालये आसीत्।

ऊपर के वाक्यों में वह, ये, तुम, मैं, जो आदि शब्द सर्वनाम हैं।

२) इन सर्वनामों की संख्या लगभग चौंतीस है। इन सभी सर्वनामों का एक जगह संग्रह महर्षि पाणिनि ने अपने “गणपाठ” नामक ग्रन्थ में किया है। यह भी अष्टाध्यायी का एक परिशिष्ट है। किन्तु अभी आपका काम कुछ महत्त्वपूर्ण सर्वनामों से चल जाएगा।

३) सर्व (सब), उभय (दो), अन्य, तद् (वह), यद् (जो), एतद् (यह), इदम् (यह), अदस् (वह), युष्मद्(तुम), अस्मद् (मैं), भवत्(आप), किम्(क्या)।

४) ध्यान रहे, युष्मद् (तुम) और अस्मद् (मैं) को छोड़कर सभी सर्वनामों के रूप तीनों लिंगों में चलते हैं। जिस लिंग, वचन और विभक्ति का नाम (संज्ञा) होगा उसके स्थान पर प्रयुक्त हुआ सर्वनाम भी उसी लिंग, वचन और उसी विभक्ति में रहेगा। भवत् (आप) को छोड़कर किसी भी सर्वनाम के रूप सम्बोधन में नहीं होते। इसमें लिंग, विभक्ति इत्यादि की त्रुटि कभी नहीं करना। ध्यान रखना है। अधिकतर विद्यार्थी यहाँ ध्यान नहीं देते और वाक्यरचना त्रुटिपूर्ण हो जाती है।

५) संज्ञा (नाम) का उच्चारण बार बार न करना पड़े इसलिए सर्वनाम का प्रयोग किया जाता है। उदाहरण –
“श्याम भोजन करता है, श्याम विद्यालय जाता है, श्याम पढ़ता है, श्याम खेलता है और श्याम सोता है।”
= श्यामः भोजनं करोति, श्यामः विद्यालयं गच्छति, श्यामः पठति, श्यामः खेलति, श्यामः स्वपिति।

इसमें कुल पाँच बार श्याम बोलना पड़ा। किन्तु यदि सर्वनाम का प्रयोग कर लें तो केवल एक बार ही ‘श्याम’ कहना पड़ेगा।

“श्यामः भोजनं करोति, सः विद्यालयं गच्छति, सः पठति, सः खेलति, सः स्वपिति।”

६) उपर्युक्त सभी सर्वनामों का अभ्यास आपको कराया जाएगा। आज तद् , एतद् , यद् और किम् का अभ्यास करायेंगे। तद् के रूप लिखकर बताएँगे बाकी के रूपों का संकेतमात्र कर देंगे। तद् की भाँति ही एतद् , यद् और किम् के रूप भी होते हैं।

१] तद् = वह, उस, उन आदि अर्थों में
२] एतद् = यह, इस, इन आदि अर्थों में
३] यद् = जो, जिस, जिन आदि अर्थों में
४] किम् = क्या, कौन, किस, किन आदि अर्थों में

१] तद् पुँल्लिंग :

सः तौ ते
तम् तौ तान्
तेन ताभ्याम् तैः
तस्मै ताभ्याम् तेभ्यः
तस्मात् ताभ्याम् तेभ्यः
तस्य तयोः तेषाम्
तस्मिन् तयोः तेषु

तद् नपुसंकलिंग :

तत् ते तानि
तत् ते तानि
(शेष पुँल्लिंग की भाँति)

तद् स्त्रीलिंग :

सा ते ताः
ताम् ते ताः
तया ताभ्याम् ताभिः
तस्यै ताभ्याम् ताभ्यः
तस्याः ताभ्याम् ताभ्यः
तस्याः तयोः तासाम्
तस्याम् तयोः तासु

२] एतद् :: तद् के सभी रूपों के आगे ‘ए’ जोड़ दीजिए- (कुछ विशेष नियमों के कारण स को ष हो जाएगा बस)

पुँल्लिंग- एषः एतौ एते
एतम् एतौ एतान् इत्यादि

स्त्रीलिंग- एषा एते एताः
एताम् एते एताः इत्यादि

नपुसंकलिंग- एतत् एते एतानि
एतत् एते एतानि इत्यादि

३] यद् पुँल्लिंग :
यः यौ ये
यम् यौ यान्

स्त्रीलिंग : या ये याः
याम् ये याः

नपुसंकलिंग : यत् ये यानि
यत् ये यानि (शेष पुँल्लिंग)

४) किम्
पुँल्लिंग : कः कौ के
कम् कौ कान्
स्त्रीलिंग : का के काः
काम् के काः
नपुसंक : किम् के कानि
किम् के कानि इत्यादि
_______________________________________

उपर्युक्त सर्वनामों का अभ्यास निम्नलिखित कुछ श्लोकों के माध्यम से कीजिए सन्धियाँ तोड़कर लिख रहा हूँ :

१)
यां चिन्तयामि सततं मयि सा विरक्ता
सा अपि अन्यम् इच्छति जनं सः जनः अन्यसक्तः।
अस्मत्कृते च परिशुष्यति काचिद् अन्या
धिक् ताम् च तम् च मदनं च इमां च मां च ॥
(भर्तृहरि नीतिशतकम्)

२)
कः कालः कानि मित्राणि
कः देशः कौ व्ययागमौ।
कस्य अहं का च मे शक्तिः
इति चिन्त्यं मुहुः मुहुः॥ मुहुः मुहुः = बार बार

३) श्रीमद्भगवद्गीता के द्वितीय अध्याय के ५७-५८, ६१, ६८ श्लोक देखें।

॥ शिवोऽवतु ॥

संस्कृत गोवीथि : : गव्य ५२ : गणेश पूजा विशेष

Gavya51

॥ श्रीगणेशकवचम् ॥

श्रीगणेशाय नमः ॥

गौर्युवाच ।
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥

मुनिरुवाच ।
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३॥

विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४॥

ललाटं कश्यपः पातु भृयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८॥

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९॥

गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १०॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥

दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४॥

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५॥

राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् ।
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७॥

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥ १८॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥ २१॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥ २३॥

राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४॥

इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ २५॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६॥

यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७॥

इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ॥

संस्कृत साधना : पाठ १५ (तिङन्त-प्रकरण)

Sanskrut_15

नमः संस्कृताय !!
पिछले पाठों में आपने सर्वनाम के विषय में जाना। सर्वाधिक महत्त्वपूर्ण सर्वनामों के रूपों का अभ्यास भी आपने किया। मुझे विश्वास है कि आप इस विषय को भलीभाँति समझ गये हैं। जिन सर्वनामों के रूप आपको बताये गये हैं उनका प्रयोग स्थान स्थान पर होता ही रहेगा। अब हम बहुत महत्त्वपूर्ण विषय में प्रवेश करने जा रहे हैं। आज से ‘तिङन्त-प्रकरण’ की चर्चा करेंगे। संस्कृतभाषा में यदि आप तिङन्त, कारक और शब्दरूप- ये तीन बातें भली प्रकार जान गये तो समझिए कि संस्कृत के विशाल प्रासाद में प्रवेश कर गए। तब आपको कोई कठिनाई नहीं होगी।

१) पिछले पाठों में हमने आपको धातुओं के विषय में थोड़ा सा बताया था। आपने विस्मृत तो नहीं कर दिया ? चलिये पुनः बता देते हैं । क्रियाओं का वर्णन करने वाले मूल शब्द ‘धातु’ कहे जाते हैं, जैसे- भू , अस् , पठ् , पा इत्यादि। अब इन मूल शब्दों अर्थात् धातुओं से- भवति, अस्ति, पठति, पिबति इत्यादि रूप कैसे बन जाते हैं- यह बात आपके मस्तिष्क में कभी न कभी आयी ही होगी ! है कि नहीं ? तो इसका उत्तर है- ‘लकार’ । अब यह ‘लकार’ क्या है, यह बताते हैं-

२) लट् , लिट् , लुट् , लृट् , लेट् , लोट् , लङ् , लिङ् , लुङ् , लृङ् – ये दस लकार होते हैं। वास्तव में ये दस प्रत्यय हैं जो धातुओं में जोड़े जाते हैं। इन दसों प्रत्ययों के प्रारम्भ में ‘ल’ है इसलिए इन्हें ‘लकार’ कहते हैं, ठीक वैसे ही जैसे ॐकार, अकार, इकार, उकार इत्यादि। इन दस लकारों में से आरम्भ के छः लकारों के अन्त में ‘ट्’ है- लट् लिट् लुट् आदि इसलिए ये टित् लकार कहे जाते हैं और अन्त के चार लकार ङित् कहे जाते हैं क्योंकि उनके अन्त में ‘ङ्’ है। व्याकरणशास्त्र में जब धातुओं से पिबति खादति आदि रूप सिद्ध किये जाते हैं तब इन टित् और ङित् शब्दों का बहुत बार प्रयोग किया जाता है।

३) इन लकारों का प्रयोग विभिन्न कालों की क्रिया बताने के लिए किया जाता है। जैसे – जब वर्तमान काल की क्रिया बतानी हो तो धातु से लट् लकार जोड़ देंगे, परोक्ष भूतकाल की क्रिया बतानी हो तो लिट् लकार जोड़ेंगे। इस बात को स्मरण रखने के लिए कि धातु से कब किस लकार को जोड़ेंगे, आप एक श्लोक स्मरण कर लीजिए-

लट् वर्तमाने लेट् वेदे
भूते लुङ् लङ् लिटस्तथा।
विध्याशिषोस्तु लिङ्लोटौ
लुट् लृट् लृङ् च भविष्यति॥

अर्थात् लट् लकार वर्तमान काल में, लेट् लकार केवल वेद में, भूतकाल में लुङ् लङ् और लिट्, विधि और आशीर्वाद में लिङ् और लोट् लकार तथा भविष्यत् काल में लुट् लृट् और लृङ् लकारों का प्रयोग किया जाता है।

आने वाले पाठों में हम प्रत्येक लकार के प्रयोगों के नियमों के विषय में विस्तार से चर्चा करेंगे। साथ ही आपको आत्मनेपद – परस्मैपद, धातुओं के दस गणों, सेट् और अनिट् धातुओं के विषय में भी समझायेंगे। इस प्रकरण में आपको विशेष ध्यान देना चाहिए क्योंकि यह तिङन्त-प्रकरण ही संस्कृत का प्राण है।
_______________________________________

शब्दकोश :
=======
‘स्त्री’ के पर्यायवाची शब्द-

१ योषित् २ अबला
३ योषा ४ नारी
५ सीमन्तिनी ६ वधूः
७ प्रतीपदर्शिनी ८ वामा
९ वनिता १० महिला
११ प्रिया १२ रामा
१३ जनिः १४ जनी
१५ योषिता १६ जोषित्
१७ जोषा १८ जोविता
१९ वनिका २० महेलिका
२१ महेला २२ शर्व्वरी
२३ सिन्दूरतिलका २४ सुभ्रूः (सुन्दर भौंह वाली)
२५ सुनयना २६ वामदृक्
२७ अङ्गना २८ ललना
२९ कान्ता ३० पुरन्ध्री
३१ वरवर्णिनी ३२ सुतनुः
३३ तन्वी ३४ तनुः
३५ कामिनी ३६ तन्वङ्गी
३७ रमणी ३८ कुरङ्गनयना
३९ भीरुः ४० भाविनी
४१ विलासिनी ४२ नितम्बिनी
४३ मत्तकासिनी ४४ सुनेत्रा
४५ प्रमदा ४६ सुन्दरी
४७ अञ्चितभ्रूः ४८ ललिता
४९ वासिता ५० भामिनी
५१ वरारोहा ५२ नताङ्गी
५३ त्रिनता ५४ वरा
५५ श्यामा ५६ चारुवदना

* सूक्ष्म अर्थ की दृष्टि से उपर्युक्त शब्दों में से कुछ शब्द जैसे – भीरुः, सुभ्रूः आदि शब्द विशेषण के रूप में प्रयोग किये जाते हैं।
_______________________________________

वाक्य अभ्यास :
===========

यह स्त्री बुद्धिमती है।
= एषा नारी बुद्धिमती अस्ति।

वे दो नारियाँ शिक्षका हैं।
= ते वनिते शिक्षिके स्तः।

वे नारियाँ मधुर गीत गाती हैं।
= ताः प्रमदाः मधुरं गीतं गायन्ति।

उस स्त्री से यह सुन्दर भौहों वाली स्त्री पूछती है..
= तां महिलाम् एषा सुभ्रूः पृच्छति…

कि वे स्त्रियाँ किस गीत को गाती हैं ?
= यत् ताः प्रमदाः कं गीतं गायन्ति ?

ये दो स्त्रियाँ उन दो स्त्रियों को फल देती हैं।
= एते प्रमदे ताभ्यां ललनाभ्यां फलानि यच्छतः।

एक स्त्री रोटी पकाती है और एक दाल पकाती है।
= एका जोषा रोटिकाः पचति एका च सूपं पचति।

दो स्त्रियाँ इन स्त्रियों से भोजन पकवाती हैं।
= द्वे अङ्गने एताभिः वनिताभिः भोजनं पाचयतः।

सभी स्त्रियाँ परस्पर बातें करती हैं।
= सर्वाः जोषिताः परस्परं वार्तालापं कुर्वन्ति।

_______________________________________

श्लोक :
====

यः प्रीणाति सुचरितैः पितरं स पुत्रः
यद् भर्तुरेव हितम् इच्छति तत् कलत्रम्।
तन्मित्रम् आपदि सुखे च समक्रियं यद्
एतत् त्रयं जगति पुण्यकृतो लभन्ते॥

जो अपने सुन्दर आचरणों से पिता को प्रसन्न करे वह पुत्र, जो पति के ही हित को चाहे वह पत्नी, जो सम्पत्ति और विपत्ति में समान व्यवहार करे वह मित्र, इन तीनों को संसार में बहुत पुण्य करने वाला व्यक्ति (ही) प्राप्त करता है।

॥ शिवोऽवतु ॥

संस्कृत गोवीथि : : गव्य १५ (हनुमान विशेष)

Gavya15


शब्द सिन्धु


अधिक (adhika) = additional
अधिकं (adhikaM) = more
अधिकः (adhikaH) = greater
अधिकतरः (adhikataraH) = very much
अधिकार (adhikaara) = title
अधिकारः (adhikaaraH) = right
अधिकारितन्त्रं (adhikaaritantraM) = (n) bureaucracy
अधिक्षिपति (adhikShipati) = to censure
अधिक्षेपः (adhikShepaH) = (m) accusation
अधिगच्छति (adhigachchhati) = attains
अधिगम्य (adhigamya) = having gone to
अधिदैव (adhidaiva) = the principle of subjective existence
अधिदैवं (adhidaivaM) = governing all the demigods
अधिदैवतं (adhidaivataM) = called adhidaiva
अधिनियमः (adhiniyamaH) = (m) act
अधिप (adhipa) = protector
अधिपति (adhipati) = lord
अधिभुत (adhibhuta) = the principle of objective existence
अधिभूतं (adhibhuutaM) = the material manifestation
अधिमात्र (adhimaatra) = superior
अधिमात्रातम (adhimaatraatama) = the highest, the supreme one
अधियज्ञ (adhiyaGYa) = the principle of sacrifice, incarnation
अधियज्ञः (adhiyaGYaH) = the Supersoul
अधिवास (adhivaasa) = dwelling
अधिवेशनं (adhiveshanaM) = (n) conference
अधिष्ठान (adhishhThaana) = seat, abode
अधिष्ठानं (adhishhThaanaM) = sitting place
अधिष्ठाय (adhishhThaaya) = being so situated
अधिसरि (adhisari) = competent candidate
अधीत (adhiita) = studied
अधीता (adhiitaa) = studied
अधीयानः (adhiiyaanaH) = studied
अधुना (adhunaa) = recently
अधोमुख (adhomukha) = face downwards
अधोमुखश्वानासन (adhomukhashvaanaasana) = the dog stretch posture
अध्ययन (adhyayana) = study
अध्ययनैः (adhyayanaiH) = or Vedic study
अध्यक्षेण (adhyakSheNa) = by superintendence
अध्यात्म (adhyaatma) = the principle of self
अध्यात्मं (adhyaatmaM) = transcendental


पाठ


Try to understand this one liners without looking at translation. Write them down on card. Keep them at study table. Keep visiting them daily until you realize their meanings.

  • यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
  • यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
  • यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
  • यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
  • यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
  • यया कया च विधया बह्वन्नं प्राप्नुयात् ।
  • यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
  • याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
  • यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
  • योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
  • यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
  • योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।

1 2 3


सुभाषित


हनूमते नमः । अञ्जनासूनवे । वायुपुत्राय ।
महाबलाय । रामेष्टाय । फल्गुनसखाय ।
पिङ्गाक्षाय । अमितविक्रमाय । उदधिक्रमणाय ।
सीताशोकविनाशकाय । लक्ष्मणप्राणदात्रे ।
दशग्रीवस्यदर्पघ्ने नमः ।


पठन/स्मरण/मनन


॥ श्रीहनुमद्व्रतम् ॥

तत्रादौ हनुमद्व्रतं कर्तुमारभमाण आचारानुसारेण
विशिष्टाचारपरम्पराप्राप्तां यथाशक्तिद्रव्यैः पम्पापूजां करिष्ये ।
इति सङ्कल्प्य, मार्गशीर्षमासे शुक्लत्रयोदश्यां व्रतं
करिष्यमाणः द्वादश्यामेव नियतो ब्रह्मचारी जितेन्द्रियः
सम्यग्रात्रिं यापयित्वा ब्राह्मे मुहूर्ते उत्थाय
कर्तव्यं सर्वमालोकयति ॥

शौनक उवाच
हनुमद्व्रतसङ्कल्पं कर्तुकामोऽब्रवीज्जनः ।
कस्मिन्देशे व्रतं सम्यक्कर्तव्यं वद सूतज ॥ १॥

किं च व्रतं पूर्वतरैः कुत्राचरितमद्भुतम् ।
सन्ति स्थलानि बहुधा गोष्ठवृन्दावनादयः ॥ २॥

वापीकूपतडागाद्याः कुल्याः कृत्रिमविस्तृताः ।
नद्यो नदाः सागराद्याः पर्वताः सरितो द्रुमाः ।
विचार्य बहुधा तच्च वद नो वदतां वर ॥ ३॥

सूत उवाच
साधु पृष्टं महाभागाः सम्यगेवोच्यते मया ।
बहवः सन्ति देशाश्च पुण्याः पुण्यविवर्धनाः ॥

तथापि वक्ष्ये यद्गुह्यं तच्छृण्वन्तु मुनीश्वराः ॥ ४॥

पूर्वं हनुमतः पूजा कृता पम्पासरित्तटे ।
तस्मात् पम्पासरित्तीरे हनुमद्व्रतमुत्तमम् ॥ ५॥

नानादेशेषु कर्तव्या पम्पापूजा प्रयत्नतः ।
ब्राह्मे मुहुर्ते चोत्थाय शौचादिभिरतन्द्रितः ॥ ६॥

नित्यकर्म समाप्याशु योगक्षेमं समाविशेत् ।
ततश्च पञ्चभिर्वाद्यैरुपेतो बन्धुभिवृर्तः ॥ ७॥

तत्रत्यां च नदीं काञ्चिद्गत्वा स्नात्वा च वाग्यतः ।
अघमर्षणमन्त्रैश्च शुचिः प्रयतमानसः ॥ ८॥

सन्ध्यावन्दनपूर्वं च नित्यकर्म समाप्य च ।
पितॄन् सन्तर्प्य यत्नेन ललाटे तिलकोज्ज्वलः ॥ ९॥

षोडशाप्युपचारांश्च पम्पायाः सर्वतो व्रती ॥ १०॥

पम्पा पूजा ॥

हेमकूटगिरिप्रान्तजनानां गिरिसानुगाम् ।
पम्पामावाहयाम्यस्यां नद्यां हृद्यां प्रयत्नतः ॥ आवाहनम्
तरङ्गशतकल्लोलैः रिङ्गत्तामरसोज्ज्वले ।
पम्पानदि नमस्तुभ्यं गृहाणासनमुत्तमम् ॥ आसनम्
हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् ।
पाद्यं गृहाण पम्पाख्ये महानदि नमोऽस्तु ते ॥ पाद्यम्
भागीरथि नमस्तुभ्यं सलिलेन सुशोभने ।
अनर्घ्यमर्घ्यमनघे गृह्यतामिदमुत्तमम् ॥ अर्घ्यम्
पम्पानदि नमस्तुभ्यं महापुण्ये सुशोभने ।
गोदावरीजलेनाद्य गृहाणाचमनीयकम् ॥ आचमनीयम्
दुग्धाज्येक्षुरसैः पुण्यैर्दध्नश्च मधुना तथा ।
पञ्चामृतैः स्नापयिष्ये पम्पानदि नमोऽस्तु ते । पञ्चामृतस्नानम्
शुद्धक्षीरैः शुद्धजलैर्नारिकेलाम्बुभिस्तथा ।
पुण्यैः कृष्णानदीतोयैः सिञ्चामि त्वां सरिद्वरे ॥ स्नानम्
महामूल्यं च कार्पासं दिव्यवस्त्रमनुत्तमम् ।
पम्पानदि महापुण्ये पम्पाशोभातिशोभने ॥ वस्त्रम्
श्रौतस्मार्तादिसत्कर्मफलदं पावनं शुभम् ।
यज्ञोपवीतमधुना कल्पये सरिदुत्तमे ॥ यज्ञोपवीतम्
कर्पूरगुटिकामिश्रं कस्तूर्या च विमर्दितम् ।
यत्नेन कल्पितं गन्धं लेपयेऽङ्गं सरिद्वरे ॥ गन्धम्
लक्षणोक्तान्हरिद्राक्तानक्षतांश्चोत्तमाञ्छुभान् ।
पम्पानदि गृहाणेमाञ्छुभशोभातिवृद्धये ॥ अक्षतान्
अतसीकुसुमोपेतं पङ्केरुहदलोज्ज्वलम् ।
कुङ्कुमं शङ्करजटासम्भूते सरिदर्पये ॥ कुङ्कुमम्
कज्जलं त्रिजगद्वन्द्ये महापुण्ये तरङ्गिणि ।
नेत्रयोः पादमनघं गृह्यतां सरितां वरे ॥ नेत्राञ्जनम्
शतपत्रैश्च कह्लारैः कुमुदैर्वकुलैरपि ।
मल्लिकाजातिपुन्नागैः केवलैश्चापि चम्पकैः ॥

तुलसीदामभिश्चापि तथा बिल्वदलैरपि ।
पूजयामि महापुण्ये पम्पानदि नमोऽस्तु ते ॥ पुष्पाणि

अथ अङ्गपूजा ॥

गोदावर्यै नमः पादौ पूजयामि । कृष्णायै नमः गुल्फौ पूजयामि ।
पापहारिण्यै नमः जङ्घे पूजयामि । सुभ्रुवे नमः जानुनी पूजयामि ।
उरुतरङ्गिण्यै नमः ऊरू पजयामि । तडिदुज्ज्वलजवायै नमः कटिं पूजयामि ।
अम्बुशोभिन्यै नमः नितम्बं पूजयामि । अणुमध्यायै नमः मध्यं पूजयामि ।
सुस्तनायै नमः स्तनौ पूजयामि । कम्बुकण्ठ्यै नमः कण्ठं पूजयामि ।
ललिताबाहुरङ्गायै नमः बाहू पूजयामि ।
दीर्घवेण्यै नमः वेणीं पूजयामि । सुवक्त्रायै नमः वक्त्रं पूजयामि ।
दुर्वारवारिपूरायै नमः शिरः पूजयामि । सहस्रमुखायै नमः सर्वाङ्गं
पूजयामि ॥

सदशाङ्गं शुभं दिव्यं सगुग्गुलमनुत्तमम् ।
साज्यं परिमलोद्भूतं धूपं स्वीकुरु पावने ॥ धूपम्
साज्यमग्निप्रकाशोद्यत्कोटिसूर्यसमद्युति ।
पश्य दीपं प्रसन्नाङ्गे पम्पानदि नमोऽस्तु ते ॥ दीपम्
शाल्यन्नं स्वर्णपात्रस्थं शाकापूपसमन्वितम् ।
साज्यं दधिपायसं च नैवेद्यं प्रतिगृह्यताम् ॥ नैवेद्यम्
पूगैः सुशोभनैश्चापि नागवल्लीदलैर्युतम् ।
ताम्बूलं गृह्यतां देवि पम्पानदि नमोऽस्तु ते ॥ ताम्बूलम्
व्रतपूर्तिमहाकीर्तिदिव्यस्फूर्तिप्रकीर्तिदम् ।
कर्तुकामो व्रतमिदं सौवर्णं पुष्पमर्पये ॥ सुवर्णपुष्पम्
प्रदक्षिणत्रयं देवि प्रयत्नेन प्रकल्पितम् ।
पश्याद्य पावने देवि पम्पानदि नमोऽस्तु ते ॥ प्रदक्षिणं
नमस्ते नमस्ते विशालोज्ज्वलाङ्गे
नमस्ते नमस्ते लसत्सत्तरङ्गे ।
नमस्ते नमस्ते गिरिप्रान्तरङ्गे
नमस्ते नमस्ते कलद्बर्हिरङ्गे ॥ नमस्कारं
अपराधशतं देवि मत्कृतं च दिने दिने ।
क्षम्यतां पावने देवि पम्पानदि नमोऽस्तु ते ॥ क्षमापणम्
पम्पानदि महापुण्ये तरङ्गिणि ! नमोऽस्तु ते ।
त्वत्तीरे हनुमत्पूजा कृता रामेण धीमता ॥

मनोरथफलावाप्तिस्तस्याभीष्टं न संशयः ।
सुग्रीवेण च तीरेऽस्मिन्कपिवर्येण ते कृतम् ॥

संस्कृतं च मनोवाञ्छा सहस्तस्य बभूव सा ।
अतस्त्वन्नीरपुलिने कृते हनुमतो व्रते ॥

श्रेयांसि मम सर्वाणि न विघ्नानि भवन्त्विह ।
इति सम्प्रार्थ्य पम्पाख्यां नदीं शुभतरङ्गिणीम् ॥

कलशोदकपाणिश्च गच्छेत् स्वगृहमादरात् ॥

इति पम्पापूजा ॥

देशकालौ स्मृत्वा, मयाऽऽचरितस्य व्रतस्य सम्पूर्णफलावाप्त्यर्थं
भार्यया सह हनुमत्पूजां करिष्ये । इति सङ्कल्प्य
(पीठस्य अधोभागे)-अतलाय नमः । वितलाय नमः । सुतलाय नमः ।
रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः ।
तत्र अगाधसर्वतःशब्दात्मने नमः । तत्र कमले कमठाय नमः ।
तदुपरि सहस्रमणिफणाप्रकाशमानशेषाय नमः ।
अष्टदिग्गजेभ्यो नमः ।
तदुपरि भूमण्डलाय नमः । तपोलोकाय । महर्लोकाय नमः ।
सत्यलोकाय । अष्टदिक्पालकेभ्यो नमः । तन्मध्ये मेरवे नमः ।
मेरोर्दक्षिणदिग्भागे द्रोणशैलाय नमः । तन्मध्ये सुरतरवे नमः ।
तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे
नवरत्नखचितचारुरत्नपीठाय नमः ।
(हनुमत् पीठे अलङ्कृतं कलशं निधाय)
ॐ नमो भगवते वायुनन्दनाय नमः । इति कलशस्थापनम् ।
ततः देशकालौ सङ्कीर्त्य सीतासमेतश्रीरामचन्द्रध्यानादि मानसं
कृत्वा श्रीहनुमन्तमावाहयेत् । प्राणप्रतिष्ठां च विधिवत्कुर्यात् ॥

द्वादशग्रन्थिपूजा –
अञ्जनीसूनवे नमः प्रथमग्रन्थिं पूजयामि ।
हनुमते नमः द्वितीयग्रन्थिं पूजयामि ।
वायुपुत्राय नमः तृतीयग्रन्थिं पूजयामि ।
महाबलाय नमः चतुर्थग्रन्थिं पूजयामि ।
रामेष्टाय नमः पञ्चमग्रन्थिं पूजयामि ।
फाल्गुनसखाय नमः षष्ठग्रन्थिं पूजयामि ।
पिङ्गाक्षाय नमः सप्तमग्रन्थिं पूजयामि ।
अमितविक्रमाय नमः अष्टमग्रन्थिं पूजयामि ।
कपीश्वराय नमः नवमग्रन्थिं पूजयामिः ।
सीताशोकविनाशनाय नमः दशमग्रन्थिं पूजयामि ।
लक्ष्मणप्राणदात्रे नमः एकादशग्रन्थिं पूजयामि ।
दशग्रीवदर्पघ्नाय नमः द्वादशग्रन्थिं पूजयामि ।
भविष्यद्ब्रह्मणेनमः त्रयोदशग्रन्थिं पूजयामि ।

(अङ्ग पूजा)
हनुमते नमः पादौ पूजयामि ।
सुग्रीवसखाय नमः गुल्फौ पूजयामि ।
अङ्गदमित्राय नमः जङ्घे पूजयामि ।
रामदासाय नमः ऊरू पूजयामि ।
अक्षघ्नाय नमः कटिं पूजयामि ।
लङ्कादहनाय नमः वालं पूजयामि ।
रामदासाय नमः नाभिं पूजयामि ।
सागरोल्लङ्घनाय नमः मध्यं पूजयामि ।
लङ्कामर्दनाय नमः केशावलिं पूजयामि ।
सञ्जीवनीहर्त्रे नमः स्तनौ पूजयामि ।
सौमित्रिप्राणदाय नमः वक्षः पूजयामि ।
कुण्ठितदशकण्ठाय नमः कण्ठं पूजयामि ।
रामाभिषेककारिणे नमः हस्तौ पूजयामि ।
मन्त्ररचितरामायणाय नमः वक्त्रं पूजयामि ।
प्रसन्नदवदनाय नमः वदनं पूजयामि ।
पिङ्गनेत्राय नमः नेत्रं पूजयामि ।
श्रुतिपारगाय नमः श्रुतिं पूजयामि ।
ऊर्ध्वपुण्ड्रधारिणे नमः कपोलं पूजयामि ।
मणिकण्ठमालिने नमः शिरः पूजयामि ।
सर्वाभीष्टप्रदाय नमः सर्वाङ्गं पूजयामि ।

दोरग्रहणम्
अञ्जनीगर्भसम्भूत रामकार्यार्थसम्भव ।
वरदातः कृता पूजा रक्ष मां प्रतिवत्सरम् ।
व्रतोद्यापनं – यजमानो महानद्यां माध्याह्निकस्नानं कृत्वा,
नित्यकर्म विधायाऽऽचार्य-ब्रह्मऋत्विग्भिः सहोपविश्य,
प्राणानायम्य,
अद्य शुभतिथौ धर्मपत्नीसमेतस्य मम
हनुमद्-व्रतकल्पोक्त-सम्पूर्णफलावाप्तये
धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थसिद्ध्यर्थं
श्रीमदाञ्जनेयप्रीत्यर्थं च हनुमद्व्रतोद्यापनाख्यं कर्म करिष्ये ।
अस्मिन् कर्मणि आचार्यत्वं भवन्तः कुर्वन्त्विति वेदवेत्तारं कुटुम्बिनं
वित्तहीनं शान्तमाचारवन्तं ब्राह्मणमाचार्यत्वे नियोज्य, एवं
लक्षणसहयुक्तमपरं ब्राह्मणं नियोज्य, ततः त्रयोदशकलशावाहनार्थं
त्रयोदशब्राह्मणानृत्विग्विधौ नियोज्य एवमावरणं कृत्वा, ततो
निष्कमात्रसुवर्णेन, तदर्धेन यथाशक्ति वा हनुमत्प्रतिमां कृत्वा
प्राणानायम्य, हनुमद्-व्रतोद्यापनाङ्गत्वेन पम्पापूजां कृत्वा,
पुनः प्राणानायम्य, शुभतिथौ धर्मपत्नीसमेतस्य मम
मनोवाञ्छाफलसिद्ध्यर्थं
श्रीमदाञ्जनेयप्रीत्यर्थमाञ्जनेयप्रतिमापूजां करिष्ये ।
इति सङ्कल्प्य,
तत्प्रतिमाशुद्ध्यर्थं पञ्चामृतस्नपनं कृत्वा, मूलमन्त्रेण
शुद्धोदकस्नपनं कृत्वा, पञ्चप्रस्थपरिमितश्वेततण्डुलोपरि
अलङ्कृतपूर्णकलशं संस्थाप्य तदुपरि प्रतिमामाधाय
प्राणप्रतिष्ठां कृत्वा।ततस्त्रयोदशकलशान्
प्रतिमावेष्टितांस्तण्डुलेषु निधाय, कलशपूजां कृत्वा,
तेषु कलशेषु वस्त्राण्यावेष्ट्य, तेषु नानाविधफलानि दत्वा,
कलशपूजां कृत्वा, ततः पीठार्चनं कुर्यात् ॥

पीठस्याधस्तले – अतलाय नमः । वितलाय नमः ।
सुतलाय नमः । रसातलाय नमः । तलातलाय नमः ।
महातलाय नमः । पातालाय नमः ।
तथागाधसर्वतोमुख-सुधाधिभ्यां नमः । तत्र कमठाय नमः ।
तदुपरि – सहस्रफणिफणामण्डित-मणिप्रकाशिताशेषलोकशेषाय नमः ।
अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः ।
दिक्पालेभ्यो नमः । तन्मध्ये मेरवे नमः ।
मेरोर्दक्षिणदिग्भागे रत्नसानवे नमः । तन्मध्ये सुरतरवे नमः ।
तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे
नवरत्नखचितनूतनपीठाय नमः । (एवं भावयित्वा)
स्वामिन् ! सर्वजगन्नाथ ! यावत् पूजावसानकम् ।
तावत् त्वं प्रीतिभावेन प्रतिमायां स्थिरो भव ॥

ततस्त्रयोदशग्रन्थियुक्तदोरकं प्रतिष्ठाप्य,
ध्यानम् –
वन्दे विद्युद्वलयलसितं ब्रह्मसूत्रं दधानं,
कर्णद्वन्द्वे कनकवलये कुण्डले धारयन्तम् ।
सत्कौपीनं कटिपरिहृतं कामरूपं कपीन्द्रं
नित्यं ध्यायाम्यनिलतनयं वज्रदेहं वरिष्ठम् ॥

प्रतप्त-जाम्बूनद-दिव्यमंसं देदीप्यमानाग्निविभासुराक्षम् ।
प्रफुल्ल-पङ्केरुह-शोभनास्यं ध्याये हृदिस्थं पवमानसूनुम् ॥

अथ कल्पोक्तप्रकारेण आवाहनादि -षोडशोपचारान् कृत्वा
नमःसर्वहितार्थाय जगदाराध्यकर्मणे ।
अमेयायाञ्जनेयाय पुनरर्घ्यं पुरोऽर्पये ।
इति प्रसन्नार्घ्यं समर्पयामि नमः ।
भक्त्या प्रकल्पितैरेतैरुपचारैश्च षोडशैः ।
भगवन् हनुमन्नीश ! प्रीयतां मे प्रियोक्तिभिः ॥

उपचारसमर्पणं यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

एवं रात्रौ प्रथमयामपूजां कृत्वा,
तस्यां रात्र्यां प्रतियामपूजां कुर्वन्,
गीतवादित्रादिभिर्मङ्गलध्वनिभिर्भागवतपठनादिपुराण-
श्रवणादिभिर्जागरणं कृत्वा, परेद्युः प्रभाते महानद्यां ब्राह्मणैः सह
स्नानं कृत्वा, नित्यकर्म विधाय गन्धादिभिरलङ्कृत्य, गृहमागत्य,
पूर्ववत्पूजां कृत्वा, हनुमद्व्रतोद्यापनाङ्गहोमं कुर्यात् ।
क्षीरान्नेनाज्येन पिप्पलसमिद्भिः कल्पोक्तद्रव्येण
मूलमन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा होमं कुर्यात् ।
पूर्णाहुतिं दत्वा, ब्रह्मणे दक्षिणां दत्वा, तत आचार्यं पूजयित्वा,
प्रतिमां सवस्त्रां सालङ्कारां सतण्डुलां च दत्वा, तद्दानसाद्गुण्यार्थं
दक्षिणां दत्वा, आचार्याय सवत्सां सालङ्कारां पयस्विनीं गां दद्यात् ।
तत ऋत्विग्भ्यः सवस्त्रान् कलशान् दत्वा दक्षिणां च दत्वा,
विशिष्टपङ्गुदीनान्धकृपणजनान् ब्राह्मणान् सन्तर्प्य, ऋत्विगादि-
ब्राह्मणान् शतं पञ्चाशत्, पञ्चविंशतिं त्रयोदश वा ब्राह्मणान्
मिष्टान्नभोजनेन सन्तर्प्य, भूरिदानं विभवानुसारेण कुर्यात् ।
एवं कुर्वन् यजमानः कृतार्थो भवति ।
हनुमान् सुप्रीतो वरदो भूत्वा पुत्रपौत्रादि सर्वकामान्
प्रयच्छति । इति शौनकादिकान् प्रति सूतः प्रोवाच । इति ॥

From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail

संस्कृत गोवीथि : : गव्य २६ (साहित्य विशेष)

Gavya27

There is famous सूक्ति among Sanskrit Scholar which is attributed to मल्लिनाथ| मल्लिनाथ accepted that :

मेघे माघे गतं वयः |

Now, if you don’t know contexual informaiton about this sentenc like who Magh is or who uttered this sentence, it still stays true.

The literal non-contextual meaning is: The cloudy chilling winter cold of Magh month is potent enough to kill the person.

But since this sentence has context, it is totally different meaning:

अर्थात् कालिदासस्य मेघदूतखण्डकाव्यं तथा माघस्य शिशुपालवधमहाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्। कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।

माघ (शिशुपालवधम्‌) और मेघदूतम्‌ पर काम करते हुए पूरी आयु निकल गई|

Such is the importance of the context while reading any linguistic material.


शब्द सिन्धु


धनुर्धरः (dhanurdharaH) = the carrier of the bow and arrow
धनुष (dhanushha) = The Zodiacal sign Sagittarius
धनुषं (dhanushhaM) = bow
धनुषा (dhanushhaa) = thro’bow
धन्यः (dhanyaH) = are praiseworthy
धमनि (dhamani) = a layer within a nadi allowing for the passage of energy
धरं (dharaM) = wearing
धरणि (dharaNi) = earth
धरति (dharati) = to wear
धरयेत् (dharayet.h) = bears
धर्ताऽसि (dhartaa.asi) = are the bearer or support
धर्म (dharma) = religion
धर्मं (dharmaM) = doctrines
धर्मः (dharmaH) = (masc.nom.sing.)(roughly)religion; life-code; way of good living;duty
धर्मचारिणी (dharmachaariNii) = a wife or or a chaste virtuous wife
धर्मचारिन् (dharmachaarin) = (adj) practicing virtue, observing the law, virtuous
धर्मतन्त्रं (dharmatantraM) = (n) theocracy
धर्मनिरपेक्षता (dharmanirapekShataa) = (f) secularism
धर्मपत्नी (dharmapatnii) = respectable address for wife, wife from prescribed vedic rituals
धर्मसाधनं (dharmasaadhanaM) = the means for doing one’s duty
धर्मस्य (dharmasya) = occupation
धर्मक्षेत्रे (dharmakShetre) = in the place of pilgrimage
धर्मांतर (dharmaa.ntara) = proselytization
धर्मात्मा (dharmaatmaa) = righteous
धर्मान्धः (dharmaandhaH) = (m) fundamentalist
धर्मार्थं (dharmaarthaM) = For the sake of dharma
धर्माविरुद्धः (dharmaaviruddhaH) = not against religious principles
धर्मे (dharme) = religion
धर्मेणहीनाः (dharmeNahiinaaH) = bereft of dharma or duty
धर्म्यं (dharmyaM) = as a religious duty
धर्म्याणि (dharmyaaNi) = religious (used in plural )
धर्म्यात् (dharmyaat.h) = for religious principles
धर्म्विरहीत (dharmvirahiita) = adj. irreligious
धवल (dhavala) = white
धसञ्जय (dhasaJNjaya) = a vital air that stays in the body after death
धाता (dhaataa) = supporter
धातारं (dhaataaraM) = the maintainer
धातारम् (dhaataaram.h) = the creator
धातु (dhaatu) = verb
धात्री (dhaatrii) = (f) nurse
धान्य (dhaanya) = grain
धाम (dhaama) = one who has the abode
धामन् (dhaaman.h) = (n) lustre
धारणा (dhaaraNaa) = concentration
धारयते (dhaarayate) = one sustains
धारयन् (dhaarayan.h) = considering
धारयामि (dhaarayaami) = sustain
धारा (dhaaraa) = (fem) rain
धारिणि (dhaariNi) = wearer
धार्तराष्ट्रस्य (dhaartaraashhTrasya) = for the son of Dhritarashtra
धार्तराष्ट्राः (dhaartaraashhTraaH) = the sons of Dhritarashtra
धार्तराष्ट्राणां (dhaartaraashhTraaNaaM) = of the sons of Dhritarashtra
धार्तराष्ट्रान् (dhaartaraashhTraan.h) = the sons of Dhritarashtra
धार्मिकम् (dhaarmikam.h) = the religious one


पाठ


1 2 3


सुभाषित


योजनानां सहस्त्रं तु शनैर्गच्छेत् पिपीलिका |
आगच्छन् वैनतेयोपि पदमेकं न गच्छति ||

Even a tiny creature such as ant can move ahead miles together if it keeps on walking consistently. But if a Eagle doesn’t decide to leave it’s place then it can’t move even an inch ahead!! suBAshitkAr wants to stress that only having the capability will not do. One should also have the “Will” to achieve the goal. And thus with a strong will an ant (With inferior capabilities) can keep on moving ahead, but the eagle (With much more superior capabilities) – without any efforts can’t even dream to reach near it’s goal! Notice suBAshita No. 37 which has similar meaning.


पठन/स्मरण


शिशुपालवध & धर्म

धरति लोकान ध्रियते पुण्यात्मभि: इति वा|

Something that embodies the whole universe or the Noble men that is “Dharma”.

शिशुपालवध से

युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ १.२३ ॥

———

सर्ग ६

अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ।। ६.१ ।।

नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजं ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ।। ६.२ ।।

विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजं ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ।। ६.३ ।।

तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।
गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ।। ६.४ ।।

स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ।। ६.५ ।।

स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।
निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशं ।। ६.६ ।।

रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगान्निरगात्मधुपावलिः ।। ६.७ ।।

प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ।। ६.८ ।।

मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ।। ६.९ ।।

समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।
अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ।। ६.१० ।।

इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ।। ६.११ ।।

सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावमू मम न स्ॐअनसौ मनसो मुदे ।। ६.१२ ।।

इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ।। ६.१३ ।।

वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ।। ६.१४ ।।

अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ।। ६.१५ ।।

कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ।। ६.१६ ।।

रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ।। ६.१७ ।।

त्यजति कष्टामसावचिरादसून्विरहवेदनयेत्यघशङ्गिभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ।। ६.१८ ।।

न खलु दूरगतोऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ।। ६.१९ ।।

मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ।। ६.२० ।।

अरुणिताखिशैलवना मुहुर्विदधती पथिकान्परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियं ।। ६.२१ ।।

रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ।। ६.२२ ।।

दलितक्ॐअलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ।। ६.२३ ।।

निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ।। ६.२४ ।।

स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरं ।। ६.२५ ।।

गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ।। ६.२६ ।।

अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकं ।
धुततनुर्वलयस्य पय्ॐउचः शबलिमा बलिमानमुषो वपुः ।। ६.२७ ।।

द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ।। ६.२८ ।।

पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ।। ६.२९ ।।

प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ।। ६.३० ।।

 

संस्कृत साधना : पाठ १२ (अभ्यास – तद् और एतद्)

Sanskrut_12

अभ्यास :
~~~~~~
तद् और एतद् के रूपों का वाक्यों में प्रयोग। दोनों सर्वनामों के रूप तीनों लिंगों में याद करिये।

तद् = दूर स्थित व्यक्ति-वस्तु
एतद् = समीपस्थ व्यक्ति-वस्तु

शब्दकोश :
~~~~~~~
गृहम् (घर) के पर्यायवाची शब्द –

1] गृहम् (नपुसंकलिंग)
2] गेहम् (नपुसंकलिंग)
3] उदवसितम् (नपुसंकलिंग)
4] वेश्मन् (नपुसंकलिंग)
5] सद्मन् (नपुसंकलिंग)
6] निकेतनम् (नपुसंकलिंग)
7] निशान्तम् (नपुसंकलिंग)
8] पस्त्यम् (नपुसंकलिंग)
9] सदनम् (नपुसंकलिंग)
10] भवनम् (नपुसंकलिंग)
11] आगारम् (नपुसंकलिंग)
12] मन्दिरम् (नपुसंकलिंग और पुँल्लिंग भी)
13] गृहाः (पुँल्लिंग, सदैव बहुवचन में)
14] निकाय्यः (पुँल्लिंग)
15] निलयः (पुँल्लिंग)
16] आलयः (पुँल्लिंग)
_______________________________________

वाक्य अभ्यास :
===========

उस बालक का नाम अनिरुद्ध है।
= तस्य बालकस्य नाम अनिरुद्धः अस्ति।

उस बालिका का नाम राधिका है।
= तस्याः बालिकायाः नाम राधिका अस्ति।

वे दोनों इस घर में रहते हैं।
= तौ एतस्मिन् भवने निवसतः।

इस बालिका के पिता उस घर में रहते हैं।
= एतस्याः बालिकायाः पिता तस्मिन् गेहे निवसति।

इन दो बालकों को तुम ये फल देते हो।
= एताभ्यां बालकाभ्यां त्वं एतानि फलानि यच्छसि।

इन घरों में वे बालक रहते हैं।
= एतेषु सदनेषु ते बालकाः निवसन्ति।

उस घर में तुम रहते हो, इस घर में मैं रहता हूँ।
= तस्मिन् निलये त्वं वससि, एतस्मिन् निलये अहं वसामि।

यह घर इस बालिका का है।
= एतत् निकेतनम् अस्याः बालिकायाः अस्ति।

ये हमारे घर हैं।
= एते अस्माकं निलयाः सन्ति।

इनमें हम रहते हैं।
= एतेषु वयं निवसामः।

मोहन उस घर से वस्तुएँ लाकर इस घर में रखता है,
= मोहनः तस्मात् गृहात् वस्तूनि नीत्वा एतस्मिन् गृहे स्थापयति,

और इस घर से वस्तुएँ लेकर उस घर में रखता है।
= तथा च एतस्मात् गृहात् वस्तूनि आदाय तस्मिन् गृहे स्थापयति।

मैं इस घर से विद्यालय जाता हूँ, वह उस घर से विद्यालय जाता है।
= अहम् एतस्मात् निलयात् विद्यालयं गच्छामि , सः तस्मात् निलयात् विद्यालयं गच्छति।

इन दो घरों का स्वामी कौन है ?
= एतयोः भवनयोः स्वामी कः अस्ति ?

इस घर से क्या तू राजा हो जाएगा ?
= एतेन गृहेण किं त्वं राजा भविष्यसि वा ?

** इसी प्रकार आप भी तद् और एतद् सर्वनामों के प्रयोग से कम से कम पाँच वाक्य संस्कृत में बनाइये।
_______________________________________

श्लोक :

त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः।
कामः क्रोधस्तथा लोभः तस्मात् एतत्त्रयं त्यजेत्॥
एतैः विमुक्तः कौन्तेय तमोद्वारैः त्रिभिः नरः।
आचरत्यात्मनः श्रेयः ततः याति परां गतिम्॥
( श्रीमद्भगवद्गीता १६.२१-२२ )

पुस्तक में अर्थ देखें और सर्वनाम शब्दों को ढूँढकर अपनी कॉपी में लिखें।

॥ शिवोऽवतु ॥

Who is कविम्?

0

कविम्?

Kavi

There is a trend started in youth to become KAVI, esp. Hasya Kavi(Stand up peformances). Good change indeed. And when something changes for good/bad, I wonder.

Who is kavi? Who is poet? Person who could write verses out of thoughts in poetic flare? Person who could create momentary vivid imaginations in reader/listener’s mind? Person who could write meaningless songs?

Here is something about the original/ancient usage of word “कवि”

Rigved:

स मातरा सूर्येणा कवीनामवासयद रुजदद्रिं गर्णानः |

सवाधीभिर्र्क्वभिर्वावशान उदुस्रियाणामस्र्जन निदानम || RV 6.32.2

 

Amid the sages, with the Sun he brightened the Parents: glorified, he burst the mountain; And, roaring with the holy-thoughted singers, he loosed the bond that held the beams of Morning.

==================================================

पुरां भिन्दुर्युवा कविरमितौजा अजायत |

इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः || RV 1.11.4

 

Crusher of forts, the young, the wise, of strength unmeasured, was he bornSustainer of each sacred rite, Indra, the Thunderer, much-extolled.

==================================================

अग्निनाग्निः समिध्यते कविर्गृह‌पतिर्युवा |

हव्यवाडू जुह्वास्यः ||

 

जुह्वास्यः……………..जिसका सुख ज्वाला तेज और

कविः…………………क्रान्तदर्शन अर्थात् जिसमें स्थिरता के साथ दृष्‍टि नहीं पड़ती, तथा जो

युवा………………….पदार्थों के साथ मिलने और उनको पृथक पृथक करने

हव्यवाट्……………..होम‌ किये पदार्थों को देशान्तरों में पहुँचाने और

गृहपति………………स्थान तथा उनमें रहने वालों का पालन करने वाला है, उससे

अग्निः……………….यह प्रत्यक्ष रूपवान पदार्थों को जलाने, पृथिवी और सूर्य्यलोक में ठहरनेवाला अग्नि

अग्निना……………..बिजुली से

समिध्यते…………….अच्छी प्रकार प्रकाशित होता है, वह बहुत कामों को सिद्ध करने के लिये प्रयुक्त करना चाहिये

==================================================

कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे। देवममीवचातनम्।। RV 1.12.7

 

Praise Agni in the sacrifice, the Sage whose ways are ever true, The God who driveth grief away.

==================================================

त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे निह्वयामहे ||

 

We call the quick-shining-effecient enabler of works-seer of truth, Rudra, for our protection.

==================================================

विश्वायुं विश्ववेदसं होतारं यजतं कविम् । देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः RV 1.128.8

 

Agni the Priest they supplicate to grant them wealth: him, dear, most thoughtful, have they made their messenger, him, offering-bearer have they made, Beloved of all, who knoweth all, the Priest, the Holy one, the Sage– Him, Friend, for help, the Gods when they are fain for wealth, him, Friend, with hymns, when fain for wealth.

==================================================

कविं पुराणमनुशासितार

मणोरणीयांसमनुस्मरेद्य: ।

सर्वस्य धातारमचिन्त्यरूप

मादित्यवर्णं तमस: परस्तात् ।।9।। Gita 8.9

जो पुरुष सर्वज्ञ, अनादि, सबके नियन्ता, सूक्ष्म से भी अति सूक्ष्म, सबके धारण-पोषण करने वाले अचिन्त्य स्वरूप, सूर्य के सदृश नित्य चेतन प्रकाश रूप और अविधा से अति परे, शुद्ध सच्चिदानन्दघन परमेश्वर का स्मरण करता है ।।9।।

==================================================

अनन्तं अव्ययं कविं समुद्रेन्तं विश्वशंभुवम् | पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् || – Narayan Sukt

He is the Limitless, Imperishable, Omniscient, residing in the ocean of he heart, the Cause of the happiness of the universe, the Supreme end of all striving, (manifesting Himself) in the ether of the heart which is comparable to an inverted bud of the lotus flower.

कविम् :   Someone who is gifted with insights,intelligence,knowing,enlightened,skillful,sensible,wise,prudent;is thinker and man of understanding.

———————————————

Writer writes,re-write and scrap. Poet writes, re-write again and again until thought become pure golden words.

Writer writes for short term impact. Poet writes for long term impact.

Writer writes for mind.Poet writes for heart.

Writer writes for self-interest.Poet writes selflessly.

Writer writes for attention. Poet doesn’t care.

Writer writes for targeted audience based on public demand.Poet writes when he feels like writing.

Writer writes, we read and we forget as time progresses. Poet writes, we read and life changes.

Yardstick is with you. You decide whom would you call “Poet” and whom would you call “Lyricist”,”Writer”,”Rhymer”,”Wordsmith”

संस्कृत गोवीथि : : गव्य ३५ (शंकराचार्य विशेष)

Gavya35

एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्वाधितं दृश्यताम्।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिश्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम्॥५॥

एकांत के सुख का सेवन करें, परब्रह्म में चित्त को लगायें, परब्रह्म की खोज करें, इस विश्व को उससे व्याप्त देखें, पूर्व कर्मों का नाश करें, मानसिक बल से भविष्य में आने वाले कर्मों का आलिंगन करें, प्रारब्ध का यहाँ ही भोग करके परब्रह्म में स्थित हो जाएँ ॥५॥

Enjoy in solitude, meditate on the Lord, search for the Lord, see this world as pervaded by Him. Destroy the effects of the previous deeds, welcome the future with all your mental strength. Exhaust the remaining effects of past actions here and get established in the Lord ॥5॥

-साधन पंचकम्


शब्द सिन्धु


विषाण (vishhaaNa) = horns
विषादं (vishhaadaM) = moroseness
विषादि (vishhaadi) = morose
विषीदन् (vishhiidan.h) = while lamenting
विषीदन्तं (vishhiidantaM) = lamenting
विषुस्पृश (vishhuspRisha) = touched, tinged with poison (poison-tipped arrow?)
विषेशाधिकारः (vishheshaadhikaaraH) = (m) privilege
विषेषता (vishheshhataa) = difference
विषोपमेयं (vishhopameyaM) = poison-like
विष्टभ्य (vishhTabhya) = pervading
विष्ठितं (vishhThitaM) = situated
विष्णु (vishhNu) = the preserver of life
विष्णुः (vishhNuH) = the Lord MahaavishhNu
विष्णुत्वं (vishhNutvaM) = the quality/state of Brahman/god-realisation
विष्णो (vishhNo) = O Lord Visnu
विष्लेषण (vishhleshhaNa) = analysis
विसंमोहन (visaMmohana) = infatuation
विसर्गः (visargaH) = creation
विसृजन् (visRijan.h) = giving up
विसृजामि (visRijaami) = I create
विसृज्य (visRijya) = putting aside
विस्तरः (vistaraH) = the expanse
विस्तरशः (vistarashaH) = in detail
विस्तरस्य (vistarasya) = to the extent
विस्तरेण (vistareNa) = in detail
विस्तारं (vistaaraM) = the expansion
विस्तारः (vistaaraH) = (m) amplitude
विस्तारित (vistaarita) = expanded
विस्फुरणै (visphuraNai) = by emanation
विस्मयः (vismayaH) = wonder
विस्मयपदं (vismayapadaM) = object of wonder
विस्मयाविष्टः (vismayaavishhTaH) = being overwhelmed with wonder
विस्मिताः (vismitaaH) = in wonder
विहग (vihaga) = bird
विहगः (vihagaH) = Bird, cloud, arrow, sun, moon, a planet in general, some thing that moves in the sky
विहाय (vihaaya) = giving up
विहार (vihaara) = in relaxation
विहारस्य (vihaarasya) = recreation
विहारिणि (vihaariNi) = one who strolls
विहिआ (vihiaa) = vihitA?, understood
विहित (vihita) = prescribed
विहितं (vihitaM) = directed
विहिताः (vihitaaH) = used
विहितान् (vihitaan.h) = arranged
विहीन (vihiina) = without
विहीना (vihiinaa) = bereft
विहृ (vihRi) = to roam
विक्षिप्त (vikShipta) = mental aggitation
विक्षेप (vikShepa) = confusion
विज्ञातं (viGYaataM) = has been known
विज्ञातुं (viGYaatuM) = to know
विज्ञान (viGYaana) = comprehension, Science
विज्ञानं (viGYaanaM) = numinous knowledge
विज्ञानमय (viGYaanamaya) = full of greater(scientific in a way) knowledge
विज्ञानी (viGYaanii) = scientist
विज्ञाय (viGYaaya) = after understanding


पाठ


1 2

लोकोक्ति

बहुत अधिक प्रचलित और लोगों के मुँहचढ़े वाक्य लोकोक्ति के तौर पर जाने जाते हैं। इन वाक्यों में जनता के अनुभव का निचोड़ या सार होता है। इनकी उत्पत्ति एवं रचनाकार ज्ञात नहीं होते।

पाषाणादिष्टिका वरा।

पिण्डे पिण्डे मतिर्भिन्ना|

पिण्डेन ब्रह्माण्डपरीक्षणं स्यात्।

पुरुषकारम् अनुवर्तते दैवम्।

पुरुषार्थहीना: भुवि भारभूता:|


सुभाषित


अग्निशेषमृणशेषं शत्रुशेषं तथैव च |
पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||

If a fire, a loan, or an enemy continues to exist even to a small extent, it will grow again and again; so do not let any one of it continue to exist even to a small extent. यदि कोई आग, एक ऋण, या एक शत्रु अस्तित्व ही रहेगी को भी एक छोटी-सी सीमा तक, इससे बार-बार बढ़ने; अत: ऐसा न होने दीजिए यह किसी एक के अस्तित्व को जारी करने के लिए भी एक छोटी-सी हद तक ।


For next few days, we will focus on शंकर भाष्य

मूल श्लोकः

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।

संभवः सर्वभूतानां ततो भवति भारत।।14.3।।

Sanskrit Commentary By Sri Shankaracharya

।।14.3।। –,मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम्। सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यते। तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम्? अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थः। संभवः उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत।।

Popular Posts

My Favorites

Who is intelligent? Bees avoid processed sugar, We Enjoy!

The species that has arrogance of being intelligent, is acting most foolishly. Yes, I am talking about us. As per चरक(mighty ancient scientist), all those...